ब्रह्मसूत्रभाष्यम्
प्रथमोऽध्यायः प्रथमः पादः
न्यायनिर्णयव्याख्या
 
अस्मिन्नस्य च तद्योगं शास्ति ॥ १९ ॥
सूत्राणि त्वेवं व्याख्येयानि — ‘ब्रह्म पुच्छं प्रतिष्ठाइत्यत्र किमानन्दमयावयवत्वेन ब्रह्म विवक्ष्यते, उत स्वप्रधानत्वेनेतिपुच्छशब्दादवयवत्वेनेति प्राप्ते, उच्यतेआनन्दमयोऽभ्यासात्आनन्दमय आत्मा इत्यत्रब्रह्म पुच्छं प्रतिष्ठाइति स्वप्रधानमेव ब्रह्मोपदिश्यते; अभ्यासात्असन्नेव भवतिइत्यस्मिन्निगमनश्लोके ब्रह्मण एव केवलस्याभ्यस्यमानत्वात्विकारशब्दान्नेति चेन्न प्राचुर्यात्विकारशब्देनावयवशब्दोऽभिप्रेतः; पुच्छमित्यवयवशब्दान्न स्वप्रधानत्वं ब्रह्मण इति यदुक्तम् , तस्य परिहारो वक्तव्यः; अत्रोच्यतेनायं दोषः, प्राचुर्यादप्यवयवशब्दोपपत्तेः; प्राचुर्यं प्रायापत्तिः, अवयवप्राये वचनमित्यर्थः; अन्नमयादीनां हि शिरआदिषु पुच्छान्तेष्ववयवेषूक्तेष्वानन्दमयस्यापि शिरआदीन्यवयवान्तराण्युक्त्वा अवयवप्रायापत्त्याब्रह्म पुच्छं प्रतिष्ठाइत्याह, नावयवविवक्षया; यत्कारणम्अभ्यासात्इति स्वप्रधानत्वं ब्रह्मणः समर्थितम्तद्धेतुव्यपदेशाच्चसर्वस्य हि विकारजातस्य सानन्दमयस्य कारणत्वेन ब्रह्म व्यपदिश्यतेइदꣳ सर्वमसृजत, यदिदं किञ्च’ (तै. उ. २ । ६ । १) इति कारणं सद्ब्रह्म स्वविकारस्यानन्दमयस्य मुख्यया वृत्त्यावयव उपपद्यतेअपराण्यपि सूत्राणि यथासम्भवं पुच्छवाक्यनिर्दिष्टस्यैव ब्रह्मण उपपादकानि द्रष्टव्यानि ॥१२ – १९ ॥

स्वमते सूत्राणामननुगुणत्वमाशङ्क्य तानि योजयितुमुपक्रमते —

सूत्राणीति ।

व्याख्यामेवाख्यातुं विषयमुक्त्वा पुच्छब्रह्मशब्दाभ्यां संशयमाह —

ब्रह्मेति ।

स्वप्रधानत्वेनेति ।

संशये सतीति शेषः ।

पूर्वाधिकरणे मुख्येक्षणाद्ब्रह्मनिर्णये गौणः प्रायपाठो बाधितः । इह त्वाधारमात्रत्वेऽवयवमात्रत्वे च पुच्छशब्दस्य लाक्षणिकत्वसाम्येऽवयवप्रायदृष्टेरवयवार्थतेति सङ्गत्या पूर्वपक्षयति —

पुच्छेति ।

तैत्तिरीयोपनिषदः स्पष्टब्रह्मलिङ्गाया निर्गुणब्रह्मान्वयोक्तेः श्रुत्यादिसङ्गतयः । परपक्षे पूर्वोत्तरपक्षयोरुपास्तिरेव फलम् । इह पूर्वपक्षे तथा सिद्धान्ते प्रमितिः ।

पूर्वपक्षमनूद्य सिद्धान्तयति —

इति प्राप्त इति ।

स्वयूथ्यव्याख्यां व्यावृत्य स्वाभिमतां व्याख्यामाह —

आनन्दमय इति ।

आनन्दमयशब्देन पञ्चमपर्यायस्थपुच्छवाक्यस्थं ब्रह्मपदमुपलक्ष्य तेन स्वप्रधानमेव ब्रह्मोच्यत इति प्रतिज्ञायां हेतुं व्याख्याति —

असन्नेवेति ।

पूर्वपक्षबीजमनुभाष्यं दूषयति —

विकारेति ।

वाचकत्वाभावादभिप्रेत इत्युक्तम् । परिहारभागमवतार्य व्याकरोति —

अत्रेत्यादिना ।

ब्रह्माधिकरणमिति वाच्ये पूर्वत्रावयवप्रधानप्रयोगात्तस्य बुद्धिस्थत्वात्तेनाप्यधिकरणलक्षणात्पुच्छोक्तिरिति तात्पर्यमाह —

अवयवेति ।

तदेव प्रपञ्चयति —

अन्नेति ।

तत्र गमकमाह —

यदिति ।

इतश्च पुच्छवाक्ये पुच्छशब्देनावयवो नोच्यते किन्त्वाधारो लक्ष्यत इत्याह —

तद्धेत्विति ।

तद्व्याचष्टे —

सर्वस्येति ।

तथापि कस्मादानन्दमयावयवत्वं ब्रह्मणो नेष्यते, तत्राह —

नचेति ।

इतश्चानन्दमयः परमात्मा, यतः ‘सत्यम् ‘ इत्यादिमन्त्रवर्णेन यद्ब्रह्मोक्तं तदेवानन्दमयशब्देन विशिष्टद्वारा लक्ष्यमाणजीवचैतन्यस्य स्वरूपमिति पुच्छवाक्येन ‘तत्त्वमसि’ इतिवद्गीयते, ‘ब्रह्मविदाप्नोति’ इति ब्रह्मविदस्तत्प्राप्त्यभिधानेन ब्रह्मात्मनोरैक्योपक्रमात् । ‘स यश्चायं पुरुषे । यश्चासावादित्ये । स एकः ‘ इत्यैक्योपसंहारात् ।

मध्येऽपि विशिष्टद्वारा स्वरूपैक्ये तात्पर्यस्य युक्तत्वादित्याह —

मान्त्रवर्णिकमिति ।

इतश्च पुच्छवाक्यस्थं ब्रह्मैव स्वप्रधानं प्रतिपाद्यं, इतरस्त्वानन्दमयो न प्रतिपाद्यः, वैषयिकप्रियादिमत्त्वेन तत्र मुख्यस्रष्टृत्वाद्यनुपपत्तेरित्याह —

नेतर इति ।

इतश्च नानन्दमयोऽत्र प्रतिपाद्यते, ब्रह्मानन्दप्रतिबिम्बितं रसशब्दितं लब्ध्वायमानन्दमयः स्वयमानन्दी भवतीति ब्रह्मणो भेदेन तस्योक्तेर्ब्रह्मत्वायोगादित्याह —

भेेदेनेति ।

ननु भृगुवल्ल्यामानन्दस्य ब्रह्मत्वादानन्दमयस्यापि ब्रह्मत्वं पञ्चमपर्यायस्थत्वादनुमीयते, तत्राह —

कामाच्चेति ।

काम्यत इति काम आनन्दः । तस्य ब्रह्मत्वदृष्टेर्नानुमानेनानन्दमयस्यापि ब्रह्मत्वमपेक्षितव्यम् । विकारार्थमयङ्विरोधादित्यर्थः ।

इतोऽपि नानन्दमयोऽत्र प्रतिपाद्यते, पुच्छवाक्योक्ते ब्रह्मणि प्रतिबुद्धस्यानन्दमयस्य ‘यदा हि’ इत्यादिना तत्प्राप्तिमोक्षाभिधानात् । तस्मादानन्दमयशब्दवाच्यस्याप्रतिपाद्यत्वात्तल्लक्ष्यस्य ब्रह्मणोऽव्यतिरेकात्पुच्छवाक्यस्थं ब्रह्मैवात्र स्वप्रधानं प्रतिपाद्यमिति तत्प्रमित्या कैवल्यं फलतीत्याह —

अस्मिन्निति ।

तदेतदाह —

अपराण्यपीति ॥ १९ ॥