ब्रह्मसूत्रभाष्यम्
प्रथमोऽध्यायः प्रथमः पादः
न्यायनिर्णयव्याख्या
 
अस्मिन्नस्य च तद्योगं शास्ति ॥ १९ ॥
इदं त्वि वक्तव्यम् वा एष पुरुषोऽन्नरसमयः’ (तै. उ. २ । १ । १)तस्माद्वा एतस्मादन्नरसमयादन्योऽन्तर आत्मा प्राणमयः’ (तै. उ. २ । २ । १)तस्मात् अन्योऽन्तर आत्मा मनोमयः’ (तै. उ. २ । ३ । १)तस्मात् अन्योऽन्तर आत्मा विज्ञानमयः’ (तै. उ. २ । ४ । १) इति विकारार्थे मयट्‍प्रवाहे सति, आनन्दमय एवाकस्मादर्धजरतीयन्यायेन कथमिव मयटः प्राचुर्यार्थत्वं ब्रह्मविषयत्वं चाश्रीयत इतिमान्त्रवर्णिकब्रह्माधिकारादिति चेत् , ; अन्नमयादीनामपि तर्हि ब्रह्मत्वप्रसङ्गःअत्राहयुक्तमन्नमयादीनामब्रह्मत्वम् , तस्मात्तस्मादान्तरस्यान्तरस्यान्यस्यान्यस्यात्मन उच्यमानत्वात्आनन्दमयात्तु कश्चिदन्य आन्तर आत्मोच्यतेतेनानन्दमयस्य ब्रह्मत्वम् , अन्यथा प्रकृतहानाप्रकृतप्रक्रियाप्रसङ्गादितिअत्रोच्यतेयद्यप्यन्नमयादिभ्य इवानन्दमयात्अन्योऽन्तर आत्माइति श्रूयते, तथापि नानन्दमयस्य ब्रह्मत्वम्; यत आनन्दमयं प्रकृत्य श्रूयतेतस्य प्रियमेव शिरः, मोदो दक्षिणः पक्षः, प्रमोद उत्तरः पक्षः, आनन्द आत्मा, ब्रह्म पुच्छं प्रतिष्ठा’ (तै. उ. २ । ५ । १) इतितत्र द्ब्रह्म मन्त्रवर्णे प्रकृतम् सत्यं ज्ञानमनन्तं ब्रह्म’ (तै. उ. २ । १ । १) इति, तदिहब्रह्म पुच्छं प्रतिष्ठाइत्युच्यतेतद्विजिज्ञापयिषयैवान्नमयादय आनन्दमयपर्यन्ताः पञ्च कोशाः कल्प्यन्तेतत्र कुतः प्रकृतहानाप्रकृतप्रक्रियाप्रसङ्गःन्वानन्दमयस्यावयवत्वेनब्रह्म पुच्छं प्रतिष्ठाइत्युच्यते, अन्नमयादीनामिवइदं पुच्छं प्रतिष्ठाइत्यादितत्र कथं ब्रह्मणः स्वप्रधानत्वं शक्यं विज्ञातुम् ? प्रकृतत्वादिति ब्रूमःन्वानन्दमयावयवत्वेनापि ब्रह्मणि विज्ञायमाने प्रकृतत्वं हीयते, आनन्दमयस्य ब्रह्मत्वादितिअत्रोच्यतेतथा सति तदेव ब्रह्म आनन्दमय आत्मा अवयवी, तदेव ब्रह्म पुच्छं प्रतिष्ठा अवयव इत्यसामञ्जस्यं स्यात्अन्यतरपरिग्रहे तु युक्तम्ब्रह्म पुच्छं प्रतिष्ठाइत्यत्रैव ब्रह्मनिर्देश आश्रयितुम् , ब्रह्मशब्दसंयोगात्नानन्दमयवाक्ये, ब्रह्मशब्दसंयोगाभावादितिअपि ब्रह्म पुच्छं प्रतिष्ठेत्युक्त्वेदमुच्यतेतदप्येष श्लोको भवतिअसन्नेव भवतिअसद्ब्रह्मेति वेद चेत्अस्ति ब्रह्मेति चेद्वेदसन्तमेनं ततो विदुः’ (तै. उ. २ । ६ । १) इतिअस्मिंश्च श्लोकेऽननुकृष्यानन्दमयं ब्रह्मण एव भावाभाववेदनयोर्गुणदोषाभिधानाद्गम्यते — ‘ब्रह्म पुच्छं प्रतिष्ठाइत्यत्र ब्रह्मण एव स्वप्रधानत्वमिति चानन्दमयस्यात्मनो भावाभावशङ्का युक्ता, प्रियमोदादिविशिष्टस्यानन्दमयस्य सर्वलोकप्रसिद्धत्वात्कथं पुनः स्वप्रधानं सद्ब्रह्म आनन्दमयस्य पुच्छत्वेन निर्दिश्यते — ‘ब्रह्म पुच्छं प्रतिष्ठाइति ? नैष दोषःपुच्छवत्पुच्छम् , प्रतिष्ठा परायणमेकनीडं लौकिकस्यानन्दजातस्य ब्रह्मानन्दः इत्येतदनेन विवक्ष्यते, नावयवत्वम्; एतस्यैवानन्दस्यान्यानि भूतानि मात्रामुपजीवन्ति’ (बृ. उ. ४ । ३ । ३२) इति श्रुत्यन्तरात्अपि चानन्दमयस्य ब्रह्मत्वे प्रियाद्यवयवत्वेन सविशेषं ब्रह्माभ्युपगन्तव्यम्निर्विशेषं तु ब्रह्म वाक्यशेषे श्रूयते, वाङ्मनसयोरगोचरत्वाभिधानात्यतो वाचो निवर्तन्तेअप्राप्य मनसा सहआनन्दं ब्रह्मणो विद्वान् बिभेति कुतश्चन’ (तै. उ. २ । ९ । १) इतिअपि चानन्दप्रचुर इत्युक्ते दुःखास्तित्वमपि गम्यते; प्राचुर्यस्य लोके प्रतियोग्यल्पत्वापेक्षत्वात्तथा सति यत्र नान्यत्पश्यति, नान्यच्छृणोति, नान्यद्विजानाति, भूमा’ (छा. उ. ७ । २४ । १) इति भूम्नि ब्रह्मणि तद्व्यतिरिक्ताभावश्रुतिरुपरुध्येतप्रतिशरीरं प्रियादिभेदादानन्दमयस्यापि भिन्नत्वम्ब्रह्म तु प्रतिशरीरं भिद्यते, सत्यं ज्ञानमनन्तं ब्रह्म’ (तै. उ. २ । १ । १) इत्यानन्त्यश्रुतेः एको देवः सर्वभूतेषु गूढः सर्वव्यापी सर्वभूतान्तरात्मा’ (श्वे. उ. ६ । ११) इति श्रुत्यन्तरात् चानन्दमयस्याभ्यासः श्रूयतेप्रातिपदिकार्थमात्रमेव हि सर्वत्राभ्यस्यतेरसो वै सःरसꣳ ह्येवायं लब्ध्वानन्दी भवतिको ह्येवान्यात्कः प्राण्यात्यदेष आकाश आनन्दो स्यात्’ (तै. उ. २ । ७ । १) (तै. उ. २ । ७ । १)सैषानन्दस्य मीमाꣳसा भवति’ (तै. उ. २ । ८ । १)आनन्दं ब्रह्मणो विद्वान्न बिभेति कुतश्चनेति’ (तै. उ. २ । ९ । १) आनन्दो ब्रह्मेति व्यजानात्’ (तै. उ. ३ । ६ । १) इति यदि चानन्दमयशब्दस्य ब्रह्मविषयत्वं निश्चितं भवेत् , तत उत्तरेष्वानन्दमात्रप्रयोगेष्वप्यानन्दमयाभ्यासः कल्प्येत त्वानन्दमयस्य ब्रह्मत्वमस्ति, प्रियशिरस्त्वादिभिर्हेतुभिरित्यवोचामतस्माच्छ्रुत्यन्तरे विज्ञानमानन्दं ब्रह्म’ (बृ. उ. ३ । ९ । २८) इत्यानन्दप्रातिपदिकस्य ब्रह्मणि प्रयोगदर्शनात् , यदेष आकाश आनन्दो स्यात्’ (तै. उ. २ । ७ । १) इति ब्रह्मविषयः प्रयोगो त्वानन्दमयाभ्यास इत्यवगन्तव्यम्यस्त्वयं मयडन्तस्यैवानन्दमयशब्दस्याभ्यासः एतमानन्दमयमात्मानमुपसङ्क्रामति’ (तै. उ. २ । ८ । ५) इति, तस्य ब्रह्मविषयत्वमस्तिविकारात्मनामेवान्नमयादीनामनात्मनामुपसङ्क्रमितव्यानां प्रवाहे पठितत्वात्न्वानन्दमयस्योपसङ्क्रमितव्यस्यान्नमयादिवदब्रह्मत्वे सति नैव विदुषो ब्रह्मप्राप्तिः फलं निर्दिष्टं भवेत्नैष दोषः, आनन्दमयोपसङ्क्रमणनिर्देशेनैव विदुषः पुच्छप्रतिष्ठाभूतब्रह्मप्राप्तेः फलस्य निर्दिष्टत्वात् , ‘तदप्ये श्लोको भवति’ ‘यतो वाचो निवर्तन्तेइत्यादिना प्रपञ्च्यमानत्वात्या त्वानन्दमयसन्निधाने सोऽकामयत बहु स्यां प्रजायेयेति’ (तै. उ. २ । ६ । १) इतीयं श्रुतिरुदाहृता, साब्रह्म पुच्छं प्रतिष्ठाइत्यनेन सन्निहिततरेण ब्रह्मणा सम्बध्यमाना नानन्दमयस्य ब्रह्मतां प्रतिबोधयतितदपेक्षत्वाच्चोत्तरस्य ग्रन्थस्य रसो वै सः’ (तै. उ. २ । ७ । १) इत्यादेर्नानन्दमयविषयताननुसोऽकामयतइति ब्रह्मणि पुंलिङ्गनिर्देशो नोपपद्यतेनायं दोषः, ‘तस्माद्वा एतस्मादात्मन आकाशः सम्भूतःइत्यत्र पुंलिङ्गेनाप्यात्मशब्देन ब्रह्मणः प्रकृतत्वात्या तु भार्गवी वारुणी विद्याआनन्दो ब्रह्मेति व्यजानात्’ (तै. उ. ३ । ६ । १) इति, तस्यां मयडश्रवणात्प्रियशिरस्त्वाद्यश्रवणाच्च युक्तमानन्दस्य ब्रह्मत्वम्तस्मादणुमात्रमपि विशेषमनाश्रित्य स्वत एव प्रियशिरस्त्वादि ब्रह्मण उपपद्यते चेह सविशेषं ब्रह्म प्रतिपिपादयिषितम् , वाङ्मनसगोचरातिक्रमश्रुतेःतस्मादन्नमयादिष्विवानन्दमयेऽपि विकारार्थ एव मयट् विज्ञेयः, प्राचुर्यार्थः

अत्र चानन्दमये परस्मिन्नात्मनि स्पष्टब्रह्मलिङ्गानां तैत्तिरीयकश्रुतीनां समन्वयादस्ति सङ्गतिचतुष्टयमिति स्वमतसङ्ग्रहार्थं स्वयूथ्यमतं दूषयति —

इदं त्विति ।

इहेति परस्य व्याख्योक्तिः ।

पर्यायचतुष्टये मयटो विकारार्थत्वात्पञ्चमे पर्याये तादर्थ्यमिति प्रकरणं दर्शयति —

स वा इति ।

‘मयड्वा - ‘ इति सूत्रान्मयट्शब्दो विकारे श्रुतिरिति वक्तुं विकारार्थे मयडित्युक्तम् । विकारप्रकरणं प्रकटयितुं प्रवाहपदम् ।

प्रियाद्यवयवत्वस्य विकारार्थे लिङ्गत्वात्प्राचुर्यार्थत्वे च हेत्वभावान्मयटो न तदर्थतेत्याह —

आनन्देति ।

एकस्यैव मयटोऽर्थद्वयं नेत्यत्र दृष्टान्तमाह —

अर्धेति ।

श्रुतिलिङ्गप्रकरणविरोधेन प्राचुर्यार्थत्वे मयटो दृष्टान्तोऽपि नास्तीत्याह —

कथमिति ।

विकारार्थत्वे निश्चिते तद्वाक्यस्य न ब्रह्मार्थतेत्याह —

ब्रह्मेति ।

कथंशब्दस्य प्रश्नार्थतामुपेत्य प्रकरणेन शङ्कते —

मान्त्रेति ।

न प्रकरणमात्रं नियामकमतिप्रसक्तेरित्याह —

अन्नेति ।

तेषामब्रह्मत्वं लिङ्गादिति शङ्कते —

अत्रेति ।

आनन्दमयादपि पुच्छं ब्रह्मान्यदान्तरमुक्तमित्याशङ्क्याह —

आनन्देति ।

ब्रह्मण्यान्तरत्वमश्रुतं, पुच्छत्वं तु श्रुतमित्यर्थः ।

तस्मादान्तरस्यानुक्तौ प्राकरणिकमर्थमाह —

तेनेति ।

तस्याब्रह्मत्वे दोषमाह —

अन्यथेति ।

किमानन्दमयादान्तरत्वेनान्यस्यानुक्तेस्तस्य ब्रह्मत्वं, किंवान्यस्यैवानुक्तेरिति विकल्पयति —

अत्रेति ।

तत्रानन्दमयादान्तरस्याश्रुतिमुपेत्य ब्रह्मत्वं प्रत्याह —

यद्यपीति ।

अन्यस्य पुच्छब्रह्मणोऽभिधानादिति हेतुं ब्रुवन्द्वितीयं निराह —

यत इति ।

इष्टार्थदृष्टौ व्यक्तं हर्षमात्रं प्रियम् । इष्टस्मृतौ हर्षो मोदः । स चाभ्यासात्प्रकृष्टः प्रमोदः । सुखमात्रमानन्दः ।

मन्त्रवर्णोक्तं ब्रह्म, पुच्छवाक्ये ब्रह्मशब्दात्प्रत्यभिज्ञातम् । ब्रह्मत्वे त्वानन्दमयस्य ब्रह्मशब्दस्यान्यत्र वृत्तिः, आनन्दमयशब्दस्य ब्रह्मण्यप्रयुक्तस्य तस्मिन्प्रयुक्तिश्चेत्ययुक्तं स्यादिति श्रुतितात्पर्यमाह —

तत्रेति ।

आनन्दमयस्याब्रह्मत्वे तदुक्तिवैयर्थ्यमाशङ्क्यान्नमयादिवत्पुच्छब्रह्मज्ञापनार्था तदुक्तिरित्याह —

तदिति ।

यदुक्तमानन्दमयस्याब्रह्मत्वे प्रकृतहानमप्रकृतप्रक्रिया चेति, तत्राह —

तत्रेति ।

पुच्छब्रह्मवाक्यस्य स्वप्रधानब्रह्मार्थत्वे सतीति यावत् ।

पुच्छश्रुतिविरोधान्न तस्य स्वप्रधानार्थतेति शङ्कते —

नन्विति ।

पुच्छशब्दस्यात्रावयवार्थत्वाभावे प्रकरणविरोधमाह —

अन्नेति ।

पुच्छश्रुतेरवयवार्थत्वे फलितमाह —

तत्रेति ।

स्वप्रधानब्रह्माधिकाराद्ब्रह्मशब्दात्तथैव तत्प्रत्यभिज्ञाने पुच्छशब्दविरोधे सत्येकस्मिन्वाक्ये प्रथमचरमश्रुतशब्दयोराद्यस्यानुपसञ्जातविरोधिनो बलीयस्त्वात्पुच्छत्वेन गुणत्वबाधया स्वप्रधानब्रह्मधीरित्याह —

प्रकृतत्वादिति ।

अन्यथापि प्रकृतत्वं स्यादित्याह —

नन्विति ।

किं प्रकृतं ब्रह्मानन्दमयवाक्ये पुच्छवाक्ये चोच्यते, किंवैकत्रेति विकल्पयति —

अत्रेति ।

प्रथमं प्रत्याह —

तथेति ।

अवयवावयवित्वस्य कल्पितत्वेऽप्यन्नमयादिष्विवैकत्र गुणप्रधानत्वायोगात् ।

यदि द्वितीयः, तत्राह —

अन्यतरेति ।

अन्यतरस्मिन्वाक्ये ब्रह्मोक्तिस्वीकारे सतीत्यर्थः ।

वाक्यशेषादपि पुच्छवाक्य एवोच्यते स्वप्रधानं ब्रह्मेत्याह —

अपिचेति ।

श्लोकस्यानन्दमयार्थत्वमाशङ्क्य तात्पर्यमाह —

अस्मिंश्चेति ।

प्रतिष्ठेत्यत्रैवेति सम्बन्धः ।

आनन्दमयस्यैव ब्रह्मणो भावाभावधियोर्गुणदोषोक्तिरित्याशङ्क्‌याह —

न चेति ।

पुच्छवाक्ये ब्रह्मशब्देन स्वप्रधानोक्तौ पुच्छशब्दस्य का गतिरिति पृच्छति —

कथमिति ।

तस्य ब्रह्मणि वृत्तिमात्रं वान्विष्यते किं मुख्या वा वृत्तिः । आद्ये, पूर्वोक्तपृथिव्यादिपुच्छेष्वाधारत्वदृष्ट्या ब्रह्मण्यपि सर्वाधारे लक्षणया पुच्छपदमित्याह —

नेति ।

न द्वितीयः, प्रतिष्ठाशब्दविरोधादित्याह —

प्रतिष्ठेति ।

पुच्छत्वेऽपि परायणत्वं वारयति —

एकेति ।

नीडत्वमाश्रितापेक्षं, तदाह —

लौकिकस्येति ।

पूर्वस्योत्तरेण निर्णयान्नावयवार्थतेति फलितमाह —

अनेनेति ।

उक्तेऽर्थे बृहदारण्यकं संवादयति —

एतस्येति ।

ननु वृत्तिकारैरपि तैत्तिरीयकवाक्यं ब्रह्मण्येव समन्वितमिष्टं, तत्र किमुदाहरणभेदेनेत्याशङ्क्याह —

अपिचेति ।

नन्विह सविशेषमेव ब्रह्मेष्टं, वाक्यशेषे रागादिमतोर्वाङ्भनसयोरगोचरो ब्रह्म, शुद्धधियोस्तु गोचर इत्यभ्युपगमादित्याशङ्क्य सविशेषस्य मृषात्वादप्राप्तनिषेधापाताच्च मैवमित्याह —

निर्विशेषं त्विति ।

अतोऽभीष्टनिर्विशेषब्रह्मसिद्धये पुच्छवाक्यमेवोदाहर्तव्यमिति भावः ।

मयटो विकारार्थत्वोक्त्या प्राचुर्यार्थत्वं निरस्यता पुच्छवाक्ये स्वप्रधानब्रह्मोक्तिरुक्ता । सम्प्रति प्राचुर्यार्थत्वे दोषान्तरमाह —

अपिचेति ।

स्वप्रकृत्यर्थप्रतियोग्यल्पतामत्रैवानपेक्ष्य स्थानान्तरस्थतत्सजातीयाल्पत्वापेक्षामात्रेण मयटोऽप्रयोगादित्यर्थः ।

अतिमधुरे रुच्यर्थं रसान्तरानुवेधवदानन्दे प्रीत्युत्कर्षार्थमीषद्दुःखानुषक्तिरिष्टेत्याशङ्क्याह —

तथाचेति ।

प्राचुर्यार्थताभावान्मयटो नानन्दमयो ब्रह्मेत्यत्रैव हेत्वन्तरमाह —

प्रतिशरीरं चेति ।

प्रतिदेहं सातिशयत्वेन भिन्नादानन्दमयाद्ब्रह्म सर्वानुगतमन्यदेवेत्यर्थः ।

यत्त्वभ्यासात् ‘आनन्दमयो ब्रह्म’ इति तत्र किमानन्दमयशब्दस्याभ्यासः किं वानन्दशब्दस्येति विकल्प्याद्येऽसिद्धिमाह —

न चेति ।

आनन्दमयं प्रकृत्य ब्रह्मणि प्रयुक्तपूर्वानन्दशब्दस्याभ्यासो हेतुरिति द्वितीयं निरस्यति —

यदिचेति ।

आनन्दमयस्य ब्रह्मत्वे प्रातिपदिकमात्राभ्यासोऽपि प्रकृतानन्दमयार्थः । ततस्तस्य ब्रह्मताधीरित्यन्योन्याश्रयतेति भावः ।

आनन्दपदाभ्यासस्तर्हि किंविषयः, पुच्छवाक्योक्तब्रह्मविषयः, इत्याह —

तस्मादिति ।

आनन्दाभ्यासस्यानन्दमयार्थत्वायोगस्तच्छब्दार्थः ।

मयडन्तस्याप्यभ्यासात्कथं तदभ्याससिद्धिः, तत्राह —

यस्त्विति ।

उपसङ्क्रमितव्यानां विवेकेन त्याज्यानामित्यर्थः ।

अन्नमयादावुपसङ्क्रमस्य विद्वत्फलाप्त्यर्थत्वादानन्दमयस्याब्रह्मत्वे ब्रह्माप्तेरनुक्तेः प्रक्रमभङ्ग इति शङ्कते —

नन्विति ।

किमिहोपसङ्क्रमणं प्राप्तिः, अतिक्रमो वा । आद्ये, अवयविप्राप्त्याऽवयवप्राप्तेरार्थिकत्वात्पुच्छब्रह्माप्तिरुक्तैव । द्वितीये, न ह्यतिक्रमस्य परतीराप्तिवत्कोशातिक्रमस्य ब्रह्माप्तित्वात्तत्प्राप्तिरर्थादुक्तेत्याह —

नैष इति ।

ब्रह्माप्तेर्मन्त्रेण वक्ष्यमाणत्वाच्च तदनुक्तिरसिद्धेत्याह —

तदपीति ।

यत्तु ‘सोऽकामयत’ इत्याद्यानन्दमयार्थं सत्तद्ब्रह्मत्ववोधीति, तत्राह —

या त्विति ।

‘रसो वै सः’ इत्यादेरुत्तरस्यानन्दमयार्थमुक्तं प्रत्याह —

तदपेक्षत्वादिति ।

‘सोऽकामयत’ इत्यादि ब्रह्मण्ययुक्तं, नपुंसके पुंलिङ्गायोगादिति शङ्कते —

नन्विति ।

प्रक्रमेण समाधत्ते —

नायमिति ।

यत्तु भृगुवल्ल्यां पञ्चमपर्यायस्य ब्रह्मार्थत्वादिहापि तादर्थ्यं स्थानादिति, तत्राह —

या त्विति ।

इह मयटो विकारार्थस्य प्रियशिरस्त्वादेश्च श्रुतेरान्दमयस्याब्रह्मतेति शेषः ।

ब्रह्मणो निर्विशेषस्य नानन्दमयतेत्युपसंहरति —

तस्मादिति ।

इष्टदृष्टेः तल्लाभात् , तत्स्मृतेश्चाभिव्यक्ताः मुखविशेषाः तन्मात्रं च प्रियादिशब्दार्थ इत्युक्तम् । सत्त्वोपसर्जनात्तमसस्तदुपसर्जनाद्रजसो द्वयोरुपसर्जनात्सत्त्वात्केवलाच्चाभिव्यक्तं सुखं तत्तच्छब्दवाच्यमित्याचार्याः । तेन विषयसम्बन्धं सत्त्वादिसम्बन्धं वा विशेषमीषन्मात्रमप्यनाश्रित्य ब्रह्मणः स्वतो न प्रियशिरस्त्वादि युक्तम् । तस्मादानन्दमयस्य सविशेषत्वात्प्रतिपाद्या ब्रह्मणोऽन्यतेत्यर्थः ।

इहापि सविशेषमेव प्रतिपाद्यमित्याशङ्क्योक्तं स्मारयति —

नचेति ।

परमतनिरासमुपसंहरति —

तस्मादिति ।