ब्रह्मसूत्रभाष्यम्
प्रथमोऽध्यायः प्रथमः पादः
न्यायनिर्णयव्याख्या
 
अस्मिन्नस्य च तद्योगं शास्ति ॥ १९ ॥
इतश्च प्रधाने जीवे वानन्दमयशब्दः; यस्मादस्मिन्नानन्दमये प्रकृत आत्मनि, प्रतिबुद्धस्यास्य जीवस्य, तद्योगं शास्तितदात्मना योगस्तद्योगः, तद्भावापत्तिः, मुक्तिरित्यर्थःतद्योगं शास्ति शास्त्रम्यदा ह्येवैष एतस्मिन्नदृश्येऽनात्म्येऽनिरुक्तेऽनिलयनेऽभयं प्रतिष्ठां विन्दतेअथ सोऽभयं गतो भवतियदा ह्येवैष एतस्मिन्नुदरमन्तरं कुरुतेअथ तस्य भयं भवति’ (तै. उ. २ । ७ । १)इतिएतदुक्तं भवतियदैतस्मिन्नानन्दमयेऽल्पमप्यन्तरमतादात्म्यरूपं पश्यति, तदा संसारभयान्न निवर्ततेयदा त्वेतस्मिन्नानन्दमये निरन्तरं तादात्म्येन प्रतितिष्ठति, तदा संसारभयान्निवर्तत इतितच्च परमात्मपरिग्रहे घटते, प्रधानपरिग्रहे जीवपरिग्रहे वातस्मादानन्दमयः परमात्मेति स्थितम् ॥ १९ ॥

आनन्दमयस्य प्रधानजीवयोरन्यतरत्वाभावे हेत्वन्तरं कामयितृत्वस्यागौणत्वं सूचयन्नाह —

अस्मिन्निति ।

चशब्दार्थमाह —

इतश्चेति ।

अस्मिन्नित्यादि व्याकुर्वन्नितःशब्दार्थं स्पष्टयति —

यस्मादिति ।

प्रधानपक्षेऽपि तद्योगः स्यादित्याशङ्क्याह —

तदात्मनेति ।

स्वतो भिन्नयोस्तादात्म्यसम्बन्धं व्यावर्तयति —

तद्भावेति ।

उक्तार्थं पदमनूद्य क्रियापदापेक्षितं पूरयति —

तद्योगमिति ।

यस्यामैक्यज्ञानावस्थायां विद्वानेतस्मिन्ब्रह्मणि पञ्चीकृतभूतपञ्चकेन, तत्कार्येण च समष्टिस्थूलदेहेन विराजा दृश्यशब्दितेनैक्यतादात्म्यशून्ये, स्वसम्बन्धितयाध्यस्तेन्द्रयजातेनापञ्चीकृतभूतकार्येणात्म्येन तादात्म्यादिहीने, निकृष्योच्यन्त इति निरुक्तानि भूतसूक्ष्माणि तैश्चाभेदवर्जिते, निःशेषलयस्थानं निलयनमिति मूलप्रकृतेरुक्तेस्तत्तादात्म्यादिरहिते, प्रकर्षेण स्थितिं पुनरावृत्तिरहितां लभते ।

अभयं यथा स्यादित्युक्तं व्यनक्ति —

अथेति ।

ज्ञाने फलमुक्त्वा ज्ञानाभावे दोषमाह —

यदा हीति ।

भेदस्यानादित्वात्तत्कारणाधीनदोषोक्तिरयुक्तेत्याशङ्क्याह —

एतदिति ।

‘अभयं प्रतिष्ठाम् ‘ इत्युक्त्वा पुनः ‘अभयं गतो भवति’ इत्युक्ते पुनरुक्तिरित्याशङ्क्याह —

यदा त्विति ।

शास्त्रस्यान्यथासिद्धिं प्रत्याह —

तच्चेति ।

वृत्तिकृतां मतमुपसंहरति —

तस्मादिति ।

परस्य ज्ञेयत्वे कैवल्यं फलतीति मत्वाह —

इति स्थितमिति ।