ब्रह्मसूत्रभाष्यम्
प्रथमोऽध्यायः प्रथमः पादः
न्यायनिर्णयव्याख्या
 
कामाच्च नानुमानापेक्षा ॥ १८ ॥
आनन्दमयाधिकारे सोऽकामयत बहु स्यां प्रजायेयेति’ (तै. उ. २ । ६ । १) इति कामयितृत्वनिर्देशात् नानुमानिकमपि साङ्ख्यपरिकल्पितमचेतनं प्रधानमानन्दमयत्वेन कारणत्वेन वा अपेक्षितव्यम्ईक्षतेर्नाशब्दम्’ (ब्र. सू. १ । १ । ५) इति निराकृतमपि प्रधानं पूर्वसूत्रोदाहृतां कामयितृत्वश्रुतिमाश्रित्य प्रसङ्गात्पुनर्निराक्रियते गतिसामान्यप्रपञ्चनाय ॥ १८ ॥

नन्वौपचारिकस्य कामयितृत्वस्य प्रधानेऽपि सम्भवात्तदेवानन्दमयत्वेन कारणत्वेन वापेक्ष्यतां, न परमात्मेत्याशङ्क्याह —

कामाच्चेति ।

तद्व्याख्याति —

आनन्देति ।

ईक्षत्यधिकरणे प्रधानस्य निरस्तत्वादिहापि तन्निरासे पुनरुक्तिरित्याशङ्क्याह —

ईक्षतेरिति ।

प्रासङ्गिकनिरासस्य प्रकृतोपयोगमाह —

गतीति ॥ १८ ॥