ब्रह्मसूत्रभाष्यम्
प्रथमोऽध्यायःप्रथमः पादः
न्यायनिर्णयव्याख्या
 
भेदव्यपदेशाच्च ॥ १७ ॥
इतश्च नानन्दमयः संसारी; यस्मादानन्दमयाधिकारे रसो वै सःरसꣳ ह्येवायं लब्ध्वाऽऽनन्दी भवति’ (तै. उ. २ । ७ । १) इति जीवानन्दमयौ भेदेन व्यपदिशति हि लब्धैव लब्धव्यो भवतिकथं तर्हिआत्मान्वेष्टव्यः’,आत्मलाभान्न परं विद्यते’(आ.ध.सू. १.८.१.२) इति श्रुतिस्मृती, यावता लब्धैव लब्धव्यो भवतीत्युक्तम् ? बाढम्तथाप्यात्मनोऽप्रच्युतात्मभावस्यैव सतस्तत्त्वानवबोधनिमित्तो मिथ्यैव देहादिष्वनात्मसु आत्मत्वनिश्चयो लौकिको दृष्टःतेन देहादिभूतस्यात्मनोऽपि आत्माअनन्विष्टःअन्वेष्टव्यः’, अलब्धःलब्धव्यः’, अश्रुतःश्रोतव्यः’, अमतःमन्तव्यः’, अविज्ञातःविज्ञातव्यः’ — इत्यादिभेदव्यपदेश उपपद्यतेप्रतिषिध्यत एव तु परमार्थतः सर्वज्ञात्परमेश्वरादन्यो द्रष्टा श्रोता वा नान्योऽतोऽस्ति द्रष्टा’ (बृ. उ. ३ । ७ । २३) इत्यादिनापरमेश्वरस्तु अविद्याकल्पिताच्छारीरात्कर्तुर्भोक्तुः विज्ञानात्माख्यात् अन्यःयथा मायाविनश्चर्मखड्गधरात्सूत्रेणाकाशमधिरोहतः एव मायावी परमार्थरूपो भूमिष्ठोऽन्यःयथा वा घटाकाशादुपाधिपरिच्छिन्नादनुपाधिपरिच्छिन्न आकाशोऽन्यःईदृशं विज्ञानात्मपरमात्मभेदमाश्रित्यनेतरोऽनुपपत्तेः’, ‘भेदव्यपदेशाच्चइत्युक्तम् ॥१७ ॥

जीवस्यानन्दमयत्वनिषेधे हेत्वन्तरमाह —

भेदेति ।

चकारार्थं प्रतिज्ञाय प्रकटयन्भेदव्यपदेशं विशदयति —

इतश्चेत्यादिना ।

स इत्यानन्दमयपरामर्श इति वक्तुमानन्दमयाधिकार इत्युक्तम् । श्रुतेरर्थमाह —

जीवेति ।

कयानुपपत्त्या भेदोक्तिः, तत्राह —

नहीति ।

लब्धैव लब्धव्यो नचेत् तर्हि श्रुतिस्मृत्योरनुपपत्तिरिति शङ्कते —

कथमिति ।

का तयोरनुपपत्तिः, तत्राह —

यावतेति ।

किमेकत्र वस्तुतो न लब्धृलब्धव्यत्वं किंवा कल्पनयापि । तत्राद्यमङ्गीकरोति —

बाढमिति ।

श्रुत्याद्युपपत्तये द्वितीयं प्रत्याह —

तथापीति ।

अप्रच्युतात्मभावोऽखण्डैकरस्यम् । लौकिको लोकादनपेतोऽप्रामाणिकः ।

तस्य फलवत्त्वमाह —

तेनेति ।

अन्वेषणं विचारारम्भमात्रं, तत्फलाप्तिर्लाभः, श्रवणं शक्तितात्पर्यधीरिति भेदः । द्रष्टृद्रष्टव्यत्वादिसङ्ग्रहार्थमादिपदम् जीवत्वेनानन्दमयस्य जीवस्याविद्ययापि जीवाद्भेदाभावान्न भेदव्यपदेशः स्यादिति भावः ।

किमिति कल्पितभेदेन लब्धृलब्धव्यत्वाद्युच्यते, श्रुत्यादिवशाद्वास्तावो भेदोऽस्त्वित्याशङ्क्याह —

प्रतिषिध्यत इति ।

जीवश्चेन्नेश्वरादन्यस्तर्हि सोऽपि ततोऽन्यो नेति तस्यापि कल्पितत्वमित्याशङ्क्याह —

परमेश्वरस्त्विति ।

कल्पितस्याधिष्ठानादृते सत्त्वाद्ययोगाद्भेदेनासत्त्वेऽपि ततोऽन्यदेवाधिष्ठानं, सत्तास्फूर्त्योः स्वातन्त्र्यादिति मत्वा दृष्टान्तमाह —

यथेति ।

सूत्रारूढः स्वतोऽपि मिथ्या, जीवे भेदमात्रं तथा, न स्वरूपमित्यपरितोषादुक्तम् —

यथा वेति ।

तथापि सूत्रद्वयसामर्थ्यात्पारमार्थिकं भेदमाशङ्क्याह —

ईदृशं चेति ।

अन्यथा श्रुतिसूत्रविरोध इति भावः ॥ १७ ॥