ब्रह्मसूत्रभाष्यम्
प्रथमोऽध्यायःप्रथमः पादः
न्यायनिर्णयव्याख्या
 
नेतरोऽनुपपत्तेः ॥ १६ ॥
इतश्चानन्दमयः पर एवात्मा, नेतरः; इतर ईश्वरादन्यः संसारी जीव इत्यर्थः । न जीव आनन्दमयशब्देनाभिधीयते । कस्मात् ? अनुपपत्तेः । आनन्दमयं हि प्रकृत्य श्रूयते — ‘सोऽकामयत । बहु स्यां प्रजायेयेति । स तपोऽतप्यत । स तपस्तप्त्वा । इदꣳ सर्वमसृजत । यदिदं किञ्च’ (तै. उ. २ । ६ । १) इति । तत्र प्राक्शरीराद्युत्पत्तेरभिध्यानम् , सृज्यमानानां च विकाराणां स्रष्टुरव्यतिरेकः, सर्वविकारसृष्टिश्च न परस्मादात्मनोऽन्यत्रोपपद्यते ॥ १६ ॥

पूर्वसूत्रस्थं चकारमाकृष्य सूत्रस्य हेत्वन्तरपरत्वमाह —

इतश्चेति ।

जीवस्य प्रतिपाद्यत्वाप्राप्त्या किं निषेध्यमित्यशङ्क्यानन्दमयशब्दवाच्यतेत्याह —

नेति ।

तस्यापि वैषयिकविविधानन्दभाक्त्वात्तच्छब्दत्वं किं न स्यादित्याह —

कस्मादिति ।

हेतुमादाय व्याकर्तुं भूमिकां करोति —

अनुपपत्तिरिति ।

आलोचनं तपो नायासमयम् ।

असत्वेवं कानुपपत्तिः, तत्राह —

तत्रेति ॥ १६ ॥