पूर्वसूत्रस्थं चकारमाकृष्य सूत्रस्य हेत्वन्तरपरत्वमाह —
इतश्चेति ।
जीवस्य प्रतिपाद्यत्वाप्राप्त्या किं निषेध्यमित्यशङ्क्यानन्दमयशब्दवाच्यतेत्याह —
नेति ।
तस्यापि वैषयिकविविधानन्दभाक्त्वात्तच्छब्दत्वं किं न स्यादित्याह —
कस्मादिति ।
हेतुमादाय व्याकर्तुं भूमिकां करोति —
अनुपपत्तिरिति ।
आलोचनं तपो नायासमयम् ।
असत्वेवं कानुपपत्तिः, तत्राह —
तत्रेति ॥ १६ ॥