ब्रह्मसूत्रभाष्यम्
प्रथमोऽध्यायः प्रथमः पादः
न्यायनिर्णयव्याख्या
 
मान्त्रवर्णिकमेव च गीयते ॥ १५ ॥
इतश्चानन्दमयः पर एवात्मा; यस्मात् ब्रह्मविदाप्नोति परम्’ (तै. उ. २ । १ । १) इत्युपक्रम्य, सत्यं ज्ञानमनन्तं ब्रह्म’ (तै. उ. २ । १ । १) इत्यस्मिन्मन्त्रे यत् प्रकृतं ब्रह्म सत्यज्ञानानन्तविशेषणैर्निर्धारितम् , यस्मादाकाशादिक्रमेण स्थावरजङ्गमानि भूतान्यजायन्त, यच्च भूतानि सृष्ट्वा तान्यनुप्रविश्य गुहायामवस्थितं सर्वान्तरम् , यस्य विज्ञानायअन्योऽन्तर आत्मा’ ‘अन्योऽन्तर आत्माइति प्रक्रान्तम् , तन्मान्त्रवर्णिकमेव ब्रह्मेह गीयतेअन्योऽन्तर आत्मानन्दमयः’ (तै. उ. २ । ५ । १) इतिमन्त्रब्राह्मणयोश्चैकार्थत्वं युक्तम् , अविरोधात्अन्यथा हि प्रकृतहानाप्रकृतप्रक्रिये स्याताम् चान्नमयादिभ्य इवानन्दमयादन्योऽन्तर आत्माभिधीयतेएतन्निष्ठैव सैषा भार्गवी वारुणी विद्या’ (तै. उ. ३ । ६ । १)आनन्दो ब्रह्मेति व्यजानात्’ (तै. उ. ३ । ६ । १) इतितस्मादानन्दमयः पर एवात्मा ॥ १५ ॥

चशब्दार्थमाह —

इतश्चेति ।

तदेव हेत्वन्तरमाह —

यस्मादिति ।

तस्मादिति व्यवहितेन सम्बन्धः । यन्निर्धारितं तदेवेह गीयत इति योजना ।

प्रकरणाविच्छेदार्थं तदनुसन्धत्ते —

यस्मादिति ।

भूतयोनेरेव सर्वप्रत्यक्तमत्वेन सर्वान्तरत्वमाह —

यच्चेति ।

तस्यैव ज्ञेयत्वेन प्रकृतत्वमाह —

यस्येति ।

तदेवात्रोच्यमानमिति कुतो गम्यते, तत्राह —

मन्त्रेति ।

अविरोधादिति ।

एकार्थत्वे सत्युपायोपेयत्वयोगादित्यर्थः ।

तयोरनेकार्थत्वे दोषमाह —

अन्यथेति ।

अन्नमयादीनामनात्मत्वेऽप्यविरोधवदिहापि स्यादित्याशङ्क्याह —

नचेति ।

ब्रह्मणस्तदान्तरत्वं पुच्छश्रुतिहतमिति भावः ।

किञ्च भृगुवल्ल्यां पञ्चमपर्यायेणोपसंहारात्तस्य ब्रह्मार्थत्ववदत्रापि तस्य स्थानात्तदर्थतेत्याह —

एतन्निष्ठेति ।

प्रकरणादिसिद्धमर्थमुपसंहरति —

तस्मादिति ॥ १५ ॥