सूत्रस्थं चकारं व्याकरोति —
इतश्चेति ।
अवशिष्टं व्याकुर्वन्नितःशब्दार्थं स्फुटयति —
यस्मादिति ।
ब्रह्मणो नात्रानन्दहेतुत्वं भातीत्याशङ्क्याह —
आनन्दयतीत्यर्थ इति ।
ब्रह्मणो लौकिकानन्दहेतुत्वेऽपि कथं प्राचुर्यार्थता मयटः स्यादित्याशङ्क्याह —
यो हीति ।
तदेव तद्दृष्टान्तेन स्फोरयति —
यथेति ।
प्राचुर्यार्थत्वे मयटः स्थिते फलितमाह —
तस्मादिति ॥ १४ ॥