मयट्शब्दश्रुतिः सन्निध्यनुग्राहिकेत्युक्तमनूद्य निरस्यति —
विकारेति ।
तत्रानुवादं व्याख्याति —
अत्राहेति ।
अभ्यासादिना तस्य परत्वे स्थिते कुतश्चोद्यमित्याह —
कस्मादिति ।
बलवत्या श्रुत्योत्तरमाह —
विकारेति ।
यथा ‘विकारे च प्रकृतिशब्दः’ इत्यत्र शालिविकारं भुङ्क्ते मुद्गविकारेणेत्यस्मिन्नर्थे शालीन्भुङ्क्ते मुद्गैरिति प्रकृतिशब्दो विकारे प्रयुक्तः, तथा विकारशब्दोऽपि प्रकृतौ स्यादित्याशङ्क्य व्याचष्टे —
प्रकृतीति ।
कः पुनरत्र विकारशब्द इत्युक्ते ‘मयड्वा - ‘ इति सूत्रान्मयट्शब्दस्य विकारवाचित्वान्नानन्दमयस्य मुख्यात्मतेत्याह —
आनन्देति ।
श्रुतेर्विकारार्थत्वे तद्युक्तः सन्निधिः संसारिणमेव गोचरयतीत्याह —
तस्मादिति ।
मयटो विकारार्थत्वानियमान्न श्रुत्यनुग्रहः सन्निधेरित्याह —
नेति ।
तदेव स्फुटयति —
तत्प्रकृतेति ।
प्राचुर्येण प्रस्तुतं प्रकृतं, तदुच्यतेऽस्मिन्निति प्रकृतवचनमन्नादि । तदिति प्रथमासमर्थाद्यथोक्तेऽभिधेये मयट्प्रत्ययो भवतीति प्रचुरतायुक्तेऽपि वस्तुनि विकारवन्मयट्स्मरणान्न विकारार्थता नियतेत्यर्थः ।
प्राचुर्यार्थत्वं मयटो दृष्टान्तेन स्पष्टयति —
यथेति ।
आनन्दमयशब्दस्यानन्दप्राचुर्यार्थत्वे तद्विपरीतदुःखस्यापि लेशतो ब्रह्मणि प्राप्तिरित्याशङ्क्याह —
आनन्देति ।
ब्रह्मानन्दस्य मनुष्यत्वावधिषु पूर्वस्थानेषु सुखाल्पत्वापेक्षं प्राचुर्यं न स्वगतदुःखलेशापेक्षम् । अतो ब्रह्मण्यानन्दैकरस्यं युक्तमित्यर्थः ।
श्रुतेर्न सन्निधिसहायतेत्युपसंहरति —
तस्मादिति ॥ १३ ॥