ब्रह्मसूत्रभाष्यम्
प्रथमोऽध्यायः प्रथमः पादः
न्यायनिर्णयव्याख्या
 
आनन्दमयोऽभ्यासात् ॥ १२ ॥
आनन्दमयोऽभ्यासात्’ । पर एवात्मानन्दमयो भवितुमर्हतिकुतः ? अभ्यासात्परस्मिन्नेव ह्यात्मन्यानन्दशब्दो बहुकृत्वोऽभ्यस्यतेआनन्दमयं प्रस्तुत्य रसो वै सः’ (तै. उ. २ । ७ । १) इति तस्यैव रसत्वमुक्त्वा, उच्यतेरसꣳ ह्येवायं लब्ध्वाऽऽनन्दीभवतिको ह्येवान्यात्कः प्राण्यात्यदेष आकाश आनन्दो स्यात्एष ह्येवानन्दयाति’ (तै. उ. २ । ७ । १) (तै. उ. २ । ७ । १)सैषानन्दस्य मीमाꣳसा भवति’ (तै. उ. २ । ८ । १) एतमानन्दमयमात्मानमुपसङ्क्रामति’ (तै. उ. २ । ८ । ५) आनन्दं ब्रह्मणो विद्वान्न बिभेति कुतश्चन’ (तै. उ. २ । ९ । १) इति; आनन्दो ब्रह्मेति व्यजानात्’ (तै. उ. ३ । ६ । १) इति श्रुत्यन्तरे विज्ञानमानन्दं ब्रह्म’ (बृ. उ. ३ । ९ । २८) इति ब्रह्मण्येवानन्दशब्दो दृष्टःएवमानन्दशब्दस्य बहुकृत्वो ब्रह्मण्यभ्यासादानन्दमय आत्मा ब्रह्मेति गम्यतेयत्तूक्तमन्नमयाद्यमुख्यात्मप्रवाहपतितत्वादानन्दमयस्याप्यमुख्यत्वमिति, नासौ दोषः, आनन्दमयस्य सर्वान्तरत्वात्मुख्यमे ह्यात्मानमुपदिदिक्षु शास्त्रं लोकबुद्धिनुसरत् , अन्नमयं शरीरमनात्मानमत्यन्तमूढानामात्मत्वेन प्रसिद्धमनूद्य मूषानिषिक्तद्रुतताम्रादिप्रतिमावत्ततोऽन्तरं ततोऽन्तरमित्येवं पूर्वेण पूर्वेण समानमुत्तरमुत्तरमनात्मानमात्मेति ग्राहयत् , प्रतिपत्तिसौकर्यापेक्षया सर्वान्तरं मुख्यमानन्दमयमात्मानमुपदिदेशेति श्लिष्टतरम्यथारुन्धतीनिदर्शने बह्वीष्वपि तारास्वमुख्यास्वरुन्धतीषु दर्शितासु, या अन्त्या प्रदर्श्यते सा मुख्यैवारुन्धती भवति; एवमिहाप्यानन्दमयस्य सर्वान्तरत्वान्मुख्यमात्मत्वम्यत्तु ब्रूषे, प्रियादीनां शिरस्त्वादिकल्पनानुपपन्ना मुख्यस्यात्मन इतिअतीतानन्तरोपाधिजनिता सा; स्वाभाविकीत्यदोषःशारीरत्वमप्यानन्दमयस्यान्नमयादिशरीरपरम्परया प्रदर्श्यमानत्वात् पुनः साक्षादेव शारीरत्वं संसारिवत्तस्मादानन्दमयः पर एवात्मा ॥ १२ ॥

सौत्रीं प्रतिज्ञां विभजते —

पर एवेति ।

प्रकरणादिना तस्य संसारित्वे प्रतिज्ञानुपपत्तिरित्याह —

कुत इति ।

हेतुमादाय व्याकरोति —

अभ्यासादिति ।

आनन्दशब्दाभ्यासे कथमानन्दमयस्य ब्रह्मतेत्याशङ्क्य ब्रह्मणि प्रयुक्तपूर्वस्य तस्य प्रकरणादानन्दमये प्रयोगाज्ज्योतिष्टोमाधिकारे ज्योतिःशब्दाभ्यासवदानन्दमयाधिकारे तत्पदाभ्यासस्य तद्विषयत्वादित्याह —

आनन्दमयमिति ।

रसः सारः । अन्नमयादिकोशचतुष्टयान्तरत्वादानन्दमयोऽयम् । लब्ध्वा ध्याता ।

पूर्णश्चेदानन्दः सर्वसाक्षी सर्वप्रेरको न स्यात्तदा प्राणादेरचेतनस्य चेष्टा न युक्तेत्याह —

को हीति ।

सर्वानन्दयितृत्वादपि परानन्दत्वमस्येत्याह —

एष हीति ।

'युवा स्यात्’ इत्यादिना सार्वभौममारभ्य ब्रह्मान्तमुत्तरोत्तरमुत्कुष्टानन्दस्य ब्रह्मणि समाप्तिफला मीमांसा ‘सैषा’ इत्युक्ता । मयडन्तस्याभ्यासमाह —

एतमिति ।

उपसङ्क्रमणं प्राप्तिर्ब्रह्मणः स्वरूपमिति शेषः ।

गतिसामान्यार्थं ब्रह्मण्यानन्दशब्दस्यान्यत्रापि प्रयुक्तत्वमाह —

श्रुत्यन्तरे चेति ।

तथापि कथमानन्दमयस्य ब्रह्मत्वमित्याशङ्क्य हेत्वर्थमुपसंहरति —

एवमिति ।

अभ्यासात्तस्य चाधिकारादानन्दमयार्थत्वादिति शेषः ।

लिङ्गात्तस्य ब्रह्मत्वमुक्त्वा तदब्रह्मत्वहेतुं प्रायपाठमनुवदति —

यत्त्विति ।

लिङ्गबाध्यः सन्निधिरित्याह —

नासाविति ।

तस्य चतुष्कोशान्तरत्वमेव न सर्वान्तरत्वमित्युक्तमाशङ्क्य तात्पार्यमाह —

मुख्यमिति ।

किमिति तर्हि प्रथममन्नमयादिचतुष्टयमादिष्टं, तत्राह —

लोकेति ।

कथं तर्हि देहे मनुष्योऽहमित्यात्मत्वधीरित्याशङ्क्याविवेकादित्याह —

अत्यन्तेति ।

अन्नमयात्प्राणमयस्य ततो मनोमयस्य तस्मादपि विज्ञानमयस्य ततश्चानन्दमयस्यान्तरत्वे दृष्टान्तः —

मूषेति ।

तर्हि प्राणमयादेरेवान्यतमस्यात्मत्वसम्भवे किमानन्दमयेनेत्याशङ्क्याह —

पूर्वेणेति ।

अनात्मत्वेन साम्ये तत्तज्ज्ञापनमकिञ्चित्करमित्याशङ्क्य लोकबुद्धिमनुवदन्ननुसरदित्युक्तं स्मारयति —

प्रतिपत्तीति ।

आनन्दमयादन्यस्यान्तरस्यानुक्तेरस्य निरङ्कुशमान्तरत्वमित्याह —

सर्वेति ।

अमुख्यप्रवाहपातेऽपि मुख्यत्वे दृष्टान्तमाह —

यथेति ।

इहापीति ।

अमुख्यप्रवाहे पतितस्यापीति यावत् ।

लिङ्गेन सन्निधिबाधेऽपि सावयवत्वलिङ्गानुगृहीतः स बलवानित्याशङ्क्योक्तमनुवदति —

यत्त्विति ।

तस्य विज्ञानमयकोशोपाध्यधीनत्वेनान्यथासिद्धेर्न सन्निधिसहायतेत्याह —

अतीतेति ।

लिङ्गान्तरं सन्निधिसहायत्वेनोक्तमनुवदति —

शारीरत्वमिति ।

लिङ्गयोरन्यथासिद्धत्वे लिङ्गेन केवलसन्निधिबाधे फलितमाह —

तस्मादिति ॥ १२ ॥