वेदान्तानामविशेषेण निर्विशेषे ब्रह्मणि समन्वये सिद्धे क्वचित्तस्य हिरण्मयवाक्यादावपवादः, क्वचिदानन्दमयवाक्यादौ तदाभासे तदसत्त्वमुच्यत इत्यध्यायशेषारम्भे स्थिते निर्गुणविषयमेव तावदधिकरणं प्रस्तैति —
आनन्दमय इति ।
तस्य वृत्तिकारमतेन विषयमाह —
तैत्तिरीयक इति ।
अन्नरसविकारो देहोऽन्नमयः, प्राणोपाधिरात्मा प्राणविकारः प्राणमयः, मनोमयस्तदुपाधिरात्मा तद्विकारः, विज्ञानमयो विज्ञानोपाधिरात्मा विज्ञानविकारः । यद्वा भृगुवल्ल्युक्ताधिदैविकान्नादीन्प्रत्याध्यात्मिकान्नादिकोशा विकारास्तदेतच्चतुष्टयं ‘स वा एषः’ इत्यादिना क्रमेणोक्त्वानन्दमय उक्तः ‘तस्मादन्योऽन्तर आत्मा विज्ञानमयः’ इति सूत्रितादित्येतत्तस्यैव स्मृत्यर्थो वैशब्दः । एतस्मात् ‘तस्य श्रद्धैव शिरः’ इत्यादिना व्याख्यातात् ।
ततोऽन्यत्वं मनोमयस्यापीत्यत उक्तम् —
अन्तर इति ।
तस्मादानन्दमयशब्दे मयटो विकारप्राचुर्यसाधारण्याद्विचारबीजं संशयमाह —
तत्रेति ।
ईक्षत्यधिकरणे मुख्यसम्भवे गौणस्यानवकाशत्वाद्विषयानुदये प्रायपाठस्याकिञ्चित्करत्वादमुख्येक्षणप्रवाहपातेऽपि जगत्कारणे मुख्यं तदित्युक्तम् । इह तु मयटो विकारप्राचुर्ययोर्मुख्यत्वे सति विषयोदये प्राचुर्यार्थात्प्रायदृष्टेर्व्यावर्तकत्वात्पूर्वाधिकरणसिद्धान्ताभावेन पूर्वपक्षोन्मेषात्प्रत्युदाहरणात्मिकां सङ्गतिं विवक्षन्नाकाङ्क्षाद्वारा पूर्वपक्षयति —
किमिति ।
श्रुत्यादिसङ्गतिचतुष्टयं फलं च वक्ष्यते । मयटः साधारण्येऽपि विशेषग्रहे हेतुर्नास्तीति —
कस्मादिति ।
विकारप्रायपाठं हेतुमाह —
अन्नेति ।
प्रायपाठेऽपि प्रकरणाल्लिङ्गं बलवदित्याह —
अथापीति ।
सावयवत्वशारीरत्वलिङ्गाभ्यां मयट्श्रुत्या चानुगृहीतं प्रकरणमेव प्रबलमित्याह —
न स्यादिति ।
सावयवत्वस्यान्यथासिद्धिं प्रत्याह —
मुख्यश्चेदिति ।
तस्य निष्कलत्वश्रुत्या निरंशत्वादित्यर्थः ।
आनन्दमयेऽपि कुतः सावयवत्वं, तत्राह —
इह त्विति ।
लिङ्गान्तरं विभजते —
शारीरत्वं चेति ।
व्यवहितान्वयेनाभीष्टार्थदृष्टौ व्याचष्टे —
तस्येति ।
शारीरत्वेऽपि परमात्मत्वं किं न स्यात् , तत्राह —
न चेति ।
प्रियादिस्पर्शित्वे च संसारित्वमित्यर्थः ।
का तर्हि सर्वान्तरत्वस्य गतिरित्याशङ्क्य चतुष्कोशान्तरत्वमेव न सर्वान्तरत्वमित्याह —
तस्मादिति ।
उक्तं प्रकारणादि तच्छब्दार्थः । आनन्दमये संसारिण्युपास्तिद्वारा दुःखरहितप्रियादियुक्तस्वरूपावस्थानं फलं वक्तुमितिशब्दः ।
पूर्वपक्षमनूद्य सिद्धान्तयति —
एवमिति ।