ब्रह्मसूत्रभाष्यम्
प्रथमोऽध्यायःप्रथमः पादः
न्यायनिर्णयव्याख्या
 
आनन्दमयोऽभ्यासात् ॥ १२ ॥
तैत्तिरीयके अन्नमयं प्राणमयं मनोमयं विज्ञानमयं चानुक्रम्याम्नायते — ‘तस्माद्वा एतस्माद्विज्ञानमयादन्योऽन्तर आत्मानन्दमयः’ (तै. उ. २ । ५ । १) इति । तत्र संशयः — किमिहानन्दमयशब्देन परमेव ब्रह्मोच्यते, यत्प्रकृतम् ‘सत्यं ज्ञानमनन्तं ब्रह्म’ (तै. उ. २ । १ । १) इति, किं वान्नमयादिवद्ब्रह्मणोऽर्थान्तरमिति । किं तावत्प्राप्तम् ? ब्रह्मणोऽर्थान्तरममुख्य आत्मानन्दमयः स्यात् । कस्मात् ? अन्नमयाद्यमुख्यात्मप्रवाहपतितत्वात् । अथापि स्यात्सर्वान्तरत्वादानन्दमयो मुख्य एवात्मेति; न स्यात्प्रियाद्यवयवयोगाच्छारीरत्वश्रवणाच्च । मुख्यश्चेदात्मा आनन्दमयः स्यान्न प्रियादिसंस्पर्शः स्यात् । इह तु ‘तस्य प्रियमेव शिरः’ (तै. उ. २ । ५ । १) इत्यादि श्रूयते । शारीरत्वं च श्रूयते — ‘तस्यैष एव शारीर आत्मा यः पूर्वस्य’ इति । तस्य पूर्वस्य विज्ञानमयस्यैष एव शारीर आत्मा य एष आनन्दमय इत्यर्थः । न च सशरीरस्य सतः प्रियाप्रियसंस्पर्शो वारयितुं शक्यः । तस्मात्संसार्येवानन्दमय आत्मेत्येवं प्राप्ते, इदमुच्यते —

वेदान्तानामविशेषेण निर्विशेषे ब्रह्मणि समन्वये सिद्धे क्वचित्तस्य हिरण्मयवाक्यादावपवादः, क्वचिदानन्दमयवाक्यादौ तदाभासे तदसत्त्वमुच्यत इत्यध्यायशेषारम्भे स्थिते निर्गुणविषयमेव तावदधिकरणं प्रस्तैति —

आनन्दमय इति ।

तस्य वृत्तिकारमतेन विषयमाह —

तैत्तिरीयक इति ।

अन्नरसविकारो देहोऽन्नमयः, प्राणोपाधिरात्मा प्राणविकारः प्राणमयः, मनोमयस्तदुपाधिरात्मा तद्विकारः, विज्ञानमयो विज्ञानोपाधिरात्मा विज्ञानविकारः । यद्वा भृगुवल्ल्युक्ताधिदैविकान्नादीन्प्रत्याध्यात्मिकान्नादिकोशा विकारास्तदेतच्चतुष्टयं ‘स वा एषः’ इत्यादिना क्रमेणोक्त्वानन्दमय उक्तः ‘तस्मादन्योऽन्तर आत्मा विज्ञानमयः’ इति सूत्रितादित्येतत्तस्यैव स्मृत्यर्थो वैशब्दः । एतस्मात् ‘तस्य श्रद्धैव शिरः’ इत्यादिना व्याख्यातात् ।

ततोऽन्यत्वं मनोमयस्यापीत्यत उक्तम् —

अन्तर इति ।

तस्मादानन्दमयशब्दे मयटो विकारप्राचुर्यसाधारण्याद्विचारबीजं संशयमाह —

तत्रेति ।

ईक्षत्यधिकरणे मुख्यसम्भवे गौणस्यानवकाशत्वाद्विषयानुदये प्रायपाठस्याकिञ्चित्करत्वादमुख्येक्षणप्रवाहपातेऽपि जगत्कारणे मुख्यं तदित्युक्तम् । इह तु मयटो विकारप्राचुर्ययोर्मुख्यत्वे सति विषयोदये प्राचुर्यार्थात्प्रायदृष्टेर्व्यावर्तकत्वात्पूर्वाधिकरणसिद्धान्ताभावेन पूर्वपक्षोन्मेषात्प्रत्युदाहरणात्मिकां सङ्गतिं विवक्षन्नाकाङ्क्षाद्वारा पूर्वपक्षयति —

किमिति ।

श्रुत्यादिसङ्गतिचतुष्टयं फलं च वक्ष्यते । मयटः साधारण्येऽपि विशेषग्रहे हेतुर्नास्तीति —

कस्मादिति ।

विकारप्रायपाठं हेतुमाह —

अन्नेति ।

प्रायपाठेऽपि प्रकरणाल्लिङ्गं बलवदित्याह —

अथापीति ।

सावयवत्वशारीरत्वलिङ्गाभ्यां मयट्श्रुत्या चानुगृहीतं प्रकरणमेव प्रबलमित्याह —

न स्यादिति ।

सावयवत्वस्यान्यथासिद्धिं प्रत्याह —

मुख्यश्चेदिति ।

तस्य निष्कलत्वश्रुत्या निरंशत्वादित्यर्थः ।

आनन्दमयेऽपि कुतः सावयवत्वं, तत्राह —

इह त्विति ।

लिङ्गान्तरं विभजते —

शारीरत्वं चेति ।

व्यवहितान्वयेनाभीष्टार्थदृष्टौ व्याचष्टे —

तस्येति ।

शारीरत्वेऽपि परमात्मत्वं किं न स्यात् , तत्राह —

न चेति ।

प्रियादिस्पर्शित्वे च संसारित्वमित्यर्थः ।

का तर्हि सर्वान्तरत्वस्य गतिरित्याशङ्क्य चतुष्कोशान्तरत्वमेव न सर्वान्तरत्वमित्याह —

तस्मादिति ।

उक्तं प्रकारणादि तच्छब्दार्थः । आनन्दमये संसारिण्युपास्तिद्वारा दुःखरहितप्रियादियुक्तस्वरूपावस्थानं फलं वक्तुमितिशब्दः ।

पूर्वपक्षमनूद्य सिद्धान्तयति —

एवमिति ।