वृत्तमनूद्योत्तरसन्दर्भमाक्षिपति —
जन्मादीति ।
ब्रह्मजिज्ञासां प्रतिज्ञायेति वक्तव्यम् ।
तेषामेतदर्थप्रतिपादनोपयुक्तन्यायग्रथनार्थमुत्तरः सन्दर्भोऽर्थवानित्याशङ्क्याह —
न्यायेति ।
अनुक्तवाक्यानां तत्परत्वं वक्तुमुत्तरो ग्रन्थ इत्याशङ्क्याह —
गतीति ।
अनुक्तसमन्वयाभावान्नोत्तरस्योत्थानमित्याह —
अत इति ।
उत्तरसूत्राणामगतार्थत्वं वक्तुमारभते —
उच्यत इति ।
तदर्थं वेदान्तेषु भासमानमर्थं सङ्क्षिपति —
द्विरूपं हीति ।
तत्र सोपाधिकविषयं वाक्यमुदाहरति —
यत्रेति ।
यस्यां खल्वविद्यावस्थायामाभासभूतं द्वैतं सदिव भाति तत्रेतरः सन्नितरं पश्यतीति दृष्ट्यादिगोचरमुपाधिमद्वस्तु वदतीत्यर्थः ।
निरूपाधिकविषयं वाक्यं पठति —
यत्र त्विति ।
यस्यां विद्यावस्थायामस्य विदुषः सर्वं कर्त्राद्यात्मातिरेकेणासदेवासीत्तत्र केन करणेन कं विषयं को वा कर्ता पश्येदित्याक्षेपादव्यवहार्यमनौपाधिकं तत्त्वमित्यर्थः ।
निरुपाधिके श्रुत्यन्तरमाह —
यत्रेति ।
यस्मिन्भूम्नि स्थितो विद्वानन्यद्रष्टव्यं चक्षुषा न पश्यति, अन्यच्च श्रोतव्यं श्रोत्रेण न शृणोति, न चान्यन्मन्तव्यं ज्ञातव्यं वा मनसा बुद्ध्या वा मनुते जानाति वा, स भूमा दृष्ट्याद्यगोचरो निरतिशयमहत्त्वसम्पन्नः परमात्मेत्यर्थः ।
तत्रैवावान्तरवाक्ये सोपाधिकमपि स्वरूपमुक्तमित्याह —
अथेति ।
निरुपाधिकभूमोक्त्यनन्तरं सोपाधिकमपि रूपमुच्यते । यस्मिन्परिच्छिन्ने वस्तुनि निष्ठो योऽविद्वानन्यद्द्रष्टव्यादि चक्षुरादिनाऽनुसन्धत्ते तदल्पं परिच्छिन्नमुपहितमित्यर्थः ।
भूम्नोऽल्पस्य च विशेषान्तरमाह —
यो वा इति ।
अथेति द्योतितो विशेषो वाक्येन प्रकटितः ।
सोपाधिकेऽन्तर्यामिणि श्रुत्यन्तरमाह —
सर्वाणीति ।
सर्वज्ञो हीश्वरो नामरूपादिकं विश्वं निर्माय तत्र प्रविश्याभिवदनादि कुर्वन्योऽवतिष्ठते तं विद्वानिहैवामृतो भवतीत्यर्थः ।
निरुपाधिके श्रुत्यन्तरमाह —
निष्कलमिति ।
निष्कलं निरंशं, निरंशत्वादेव सर्वक्रियाशून्यं निष्क्रियं, तस्मादेव शान्तमपरिणामि, रागादिरहितं निरवद्यं धर्माधर्माद्यसंम्बद्धं निरञ्जनम् ।
नभसोऽस्य विशेषमाह —
अमृतस्येति ।
यथा मृद्दारुमयः सेतुर्नदीकुल्यादिपरकूलप्राप्तेरुपायस्तथा संसारसागरस्य परं पारं परम्ब्रह्म तद्भावस्यामृतस्य वाक्योत्थबुद्ध्यभिव्यक्तं तदेव साधनं सेतुवदवस्थितम् । तस्योपशान्तत्वे दृष्टान्तमाह —
दग्धेति ।
यथा दग्धेन्धनोऽग्निः शाम्यति तथाऽज्ञानं तदुत्थं च दग्ध्वा स्थितं प्रशान्तं प्रसन्नं विद्यादित्यर्थः ।
इतिभ्यां विश्वं दृश्यमादाय नञ्भ्यां तन्निषेधादपि श्रुत्यन्तरं निरुपाधिकार्थमाह —
नेतीति ।
द्रव्यगुणादिसर्वद्वैतनिषेधादपि वाक्यं तथेत्याह —
अस्थूलमिति ।
रूपद्वये श्रुत्यन्तरमाह —
न्यूनमिति ।
निष्प्रपञ्चस्थानं न्यूनं परिच्छिन्नं, ततोऽन्यं निष्प्रपञ्चं मुक्तोपसृप्यं त्रिधापरिच्छित्तिशून्यं सच्चिदानन्दात्मकमित्यर्थः ।
उक्तवाक्यानामुपलक्षणत्वं विवक्षित्वोक्तम् —
एवमिति ।
ननु ब्रह्मणो न द्वैविध्यं, युगपदेकस्य तद्विरोधात् , तत्राह —
विद्येति ।
अद्वैतमेववास्तवं चेदुपास्योपासकादिभेदस्यावस्तुत्वादुपास्तिविध्यानर्थक्यमित्याशङ्क्याह —
तत्रेति ।
उपास्तीनामपि मुक्त्यर्थत्वाद्विद्यावद्वस्तुगामितेत्याशङ्क्य साक्षान्न मोक्षार्थतेत्याह —
तत्रेति ।
अभ्युदयार्थानि प्रतीकोपासनानि । क्रममुक्त्यर्थानि दहराद्युपासनानि । कर्मसमृद्ध्यर्थान्युद्गीथादिध्यानानि । यद्यपि विधेयत्वादेतानि कर्मकाण्डे युक्तानि तथापि मानसत्वेन विद्यासाम्यादिहोक्तानीत्यर्थः ।
उपास्यैक्यात्तत्प्राप्तेरुपास्तिफलत्वादुपास्तितत्फलभेदासिद्धिमाशङ्क्याह —
तेषामिति ।
परस्य गुणभेदादुपास्तिभेदाच्च भेदेऽपि स्वरूपाभेदादुपास्त्यादिभेदायोगतादवस्थ्यमाशङ्क्य स्वरूपाभेदेऽप्युपहितभेदमाह —
एक इति ।
उपास्तिप्रचयसंस्कारादुपास्यतद्गुणप्राप्तिरित्यत्र श्रुत्यन्तरमाह —
यथेति ।
क्रतुः सङ्कल्पो ध्यानम् ।
ध्यानसंस्कारप्रचयाद्ध्येयात्मतां ध्याता देहपाते प्रतिपद्यते किंवा तदापि पूर्ववद्ध्यातृत्वमेवेति संशये संस्कारप्रकर्षाद्देवतात्मत्वमेवाप्नोतीति निर्णेतुमाह —
स्मृतेश्चेति ।
सर्वत्रात्मैक्यात्तस्य कौटस्थ्यात्तस्यैवोपास्यत्वात्कुतस्तत्तारतम्यश्रुतिरित्याशङ्क्य नीहाराद्यावरणभेदादादित्यवद्विद्यातारतम्यादात्मा वस्तुतो निरतिशयोऽपि सातिशयो भातीत्याह —
यद्यपीति ।
यथोक्तस्याप्यात्मनः स्थावरादारभ्य ब्रह्मान्तेषु प्राणिषूत्तरोत्तरमाविष्टस्य बुद्ध्युपाधिशुद्ध्युत्कर्षतारतम्यात्प्रज्ञाधीनैश्वर्यशक्तिविशेषैस्तारतम्यम् । तस्योक्तोपाधिकस्य प्रकृतस्मात्मनो यो ध्याता स्वरूपमाविस्तरामतिशयेन प्रकटमुपास्तिवशाद्बुध्यते सोऽश्नुते ह्याविर्भूयेत्यैतरेयके श्रुतम् । तथा चोपास्यतारतम्यं श्रौतमौपाधिकं युक्तमित्यर्थः ।
उपास्येश्वरतारतम्यं भगवद्गीतास्वपि सिद्धमित्याह —
स्मृताविति ।
श्रुतिस्मृतितात्पर्यमाह —
यत्रेति ।
न केवलं द्वैविद्यं ब्रह्मणः श्रुतिस्मृत्योरेव सिद्धं किन्तु सूत्रकृतोऽपि मतमित्याह —
एवमिति ।
श्रुतिस्मृत्योरिव प्रकृतेऽपि शास्त्रे द्वैरूप्यं ब्रह्मणो भाति । तत्र सोपाधिकब्रह्मविषयमन्तस्तद्धर्माधिकरणमुदाहरति —
आदित्येति ।
उक्तन्यायं तुल्यदेशेषु प्रसारयति —
एवमिति ।
सोपाधिकोपदेशवन्निरुपाधिकोपदेशं दर्शयति —
एवमित्यादिना ।
आत्मज्ञानं निर्णेतव्यमिति सम्बन्धः ।
निर्णेयप्रसङ्गमाह —
परेति ।
अन्नमयाद्युपाधिद्वारोक्तस्य कथं परविषयत्वं, तत्राह —
उपाधीति ।
निर्णयक्रममाह —
वाक्येति ।
उक्तार्थमधिकरणं क्वास्तीत्याशङ्क्योक्तम् —
यथेति ।
अस्मिन्नेवाधिकरणे यथा निरुपाधिकं ब्रह्मैवोच्यते यथा द्युभ्वाद्यायतनमित्यादिष्वपीत्यर्थः ।
श्रुतिस्मृतिसूत्रेषु दृष्टं ब्रह्मद्वैरूप्यं शिष्ट्वाऽनन्तरसन्दर्भारम्भं सम्भावयति —
एवमिति ।
अपेक्षितोपाधिसम्बन्धमुपास्यत्वेन, निरस्तोपाधिसम्बन्धं च ज्ञेयत्वेनति सम्बन्धः । तस्याद्याप्यविवेकात्कुत्रोपाधिरिष्टः कुत्र वा नेति निरूपयितुमुत्तरग्रन्थ इत्यर्थः ।
सिद्धवदुक्तगतिसामान्यस्यापि साधनायेत्युत्तरस्योपयोगान्तरमाह —
यच्चेति ।
वाक्यान्तराणि । व्याक्यातातिरिक्तानीति यावत् ।