श्वेताश्वतरे तु सर्वज्ञो जगद्धेतुरिति साक्षादुक्तम् । अतः सर्वोपनिषदां तदेकवाक्यत्वधीरित्याह —
श्रुतत्वाच्चेति ।
तद्व्याचष्टे —
स्वशब्देनेति ।
सर्वज्ञस्य वाचकेन शब्देनेति यावत् । सर्वश्चासौ ज्ञश्चेति ।
सर्वबाधशङ्कां वारयति —
ईश्वर इति ।
वक्ष्यमाणमन्त्रस्थसशब्दार्थमाह —
सर्वज्ञमिति ।
‘ज्ञः कालकालो गुणी सर्वविद्यः’ इति प्रकृत्य ‘स कारणम्’ इति परामर्शाज्जगद्धेतोः सर्वज्ञतेत्यर्थः ।
तस्य सर्वेश्वरत्वमाह —
करणेति ।
तेषामधिपाः स्वामिनो जीवास्तेषामधिपः परमेश्वरः । तस्य सर्वहेतुत्वार्थं विशेषणम् —
न चेति ।
जीवान्प्रतीश्वरत्वं हिरण्यगर्भादेरपीत्याशङ्क्य नियन्त्रन्तरं निरस्यति —
न चेति ।
महाप्रमेयमुपसंहरति —
तस्मादिति ।
अन्यदित्युक्तार्थः ॥ ११ ॥