प्रकारान्तरेण ब्रह्मपरत्वमाक्षिप्य समाधत्ते —
जीवेति ।
‘प्राणोऽस्मि’ इत्यादि देवतापरं नेत्युक्तमङ्गीकरोति —
यद्यपीति ।
तर्हि ब्रह्मपक्ष एवायं परिशिष्यते, नेत्याह —
तथापीति ।
पूर्वोत्तरपक्षयोरनुपपत्तिरयुक्तेत्याह —
कुत इति ।
देवतापक्षस्यातिफल्गुतया निरासेऽपि पक्षान्तरसद्भावान्मैवमित्याह —
जीवेति ।
तत्राद्यं व्यनक्ति —
जीवस्येति ।
वक्तुरेवात्र वेद्यता भाति न किञ्चिज्जीवलिङ्गमित्याशङ्क्याह —
अत्रेति ।
द्वितीयं विवृणोति —
तथेति ।
वक्तृत्वाद्युपदेशानन्तर्यमथशब्दार्थः ।
देहोत्थापनमपि जीवलिङ्गं किं न स्यात् , तत्राह —
शरीरेति ।
वागादयः सर्वे प्रत्येकं श्रेष्ठत्वमात्मनो मन्यमानास्तन्निर्दिधारयिषया प्रजापतिमुपजग्मुः । स च तानुवाच, यस्मिन्नुत्क्रान्ते शरीरं पापिष्ठतरमिव भवति स वः श्रेष्ठ इति । तस्मिन्नेवमुक्तवति क्रमेण वागादिषूत्क्रान्तेष्वपि मूकादिभावेन शरीरं स्वस्थमस्थात् । मुख्यस्य प्राणस्योच्चिक्रमिषायां सर्वेषां व्याकुलत्वाप्ताौ तान्प्रति प्राणो व्याहृतवान् , मा मोहमापद्यथ यतोऽहमेवैतत्करोमि । किं तत् , पञ्चधा प्राणादिभेदेनात्मानं विभज्यैतद्बाणं वाति गच्छतीति वानं तदेव बाणमस्थिरं शरीरमवष्टभ्य विधारयामीत्युक्तेर्न देहधारणमन्यस्येत्यर्थः ।
क्वचिदिममित्युक्तेर्न देहधारणमिष्टमित्याशङ्क्याह —
ये त्विति ।
कथमुपहिते जीवात्मन्यचेतने च प्राणे प्रज्ञात्मत्वं, तत्राह —
प्रज्ञेति ।
द्विवचनसहभावोत्क्रमणश्रवणादपि न ब्रह्म ग्राह्यमित्याह —
जीवेति ।
अभेदनिर्देशमाह —
यो वा इति ।
भेदनिर्देशमाह —
सहेति ।
ब्रह्मपक्षेऽप्यभेदोपपत्तिमाशङ्क्याङ्गीकृत्य भेदानुपपत्तिमाह —
ब्रह्मेति ।
अमृतत्वादीन्यपि यथायोग्यं नेयानीत्युपसंहरति —
तस्मादिति ।
इहेति प्रकृतसन्दर्भोक्तिः । अन्यतर इत्युपक्रममात्रम् , उभाविति तत्त्वम् । ब्रह्म त्वानन्दादिश्रुतेरावश्यकम् । न ब्रह्मेति तन्मात्रव्यावृत्तिः । तथाच जीवमुख्यप्राणब्रह्मणां यथायथमुपास्तिरिष्टा । नच ‘प्राणोऽस्मि’ इत्युपक्रमात् ‘स एष प्राण एव’ इत्युपसंहाराच्च वाक्यैक्यावगतेरेकार्थत्वं, वाक्यार्थावगमस्य पदार्थावगमजन्यत्वेनोपजीव्याद्दौर्बल्यात् । नचैवं सर्वत्र वाक्यार्थभङ्गः, गुणप्रधानभूतपदार्थधियो वाक्यार्थैक्याविरोधित्वात् । अत्र तु पदार्थानां स्वातन्त्र्यं नैकवाक्यतेति भावः ।
परिहारमवतार्य व्याचष्टे —
नैतदिति ।
अस्तूपास्तित्रैविध्यं, नेत्याह —
नचेति ।
अर्थभेदे वाक्यभेदात्कथं सिद्धवदेकवाक्यत्वोक्तिः, तत्राह —
उपक्रमेति ।
तदेव स्फुटवति —
मामेवेति ।
वाक्यैक्येऽपि किमित्यर्थभेदो न स्यात् , तत्राह —
तत्रेति ।
पदार्थधियो वाक्यार्थधीहेतुत्वेऽपि वाक्यार्थबोधस्योद्देश्यत्वेन प्राधान्यात्पदानां पदार्थबोधे फले पर्यवसानाभावात्तस्य नान्तरीयकत्वात्प्रधानीभूतवाक्यार्थस्योपक्रमोपसंहारैकरूप्यावगतस्य युक्तमैक्यमिति भावः ।
उपासनात्रैविध्यनिरासाय ब्रह्मलिङ्गं जीवादिविषयं नेयमित्याशङ्क्याह —
नचेति ।
पञ्च शब्दादयः पञ्च पृथिव्यादयश्च दश भूतमात्राः । पञ्च बुद्धीन्द्रियाणि पञ्च बुद्धय इति दश प्रज्ञामात्राः । यद्वा ज्ञानेन्द्रियार्थाः पञ्च कर्मेन्द्रियार्थोश्च पञ्चेति दश भूतमात्राः, द्विविधानीन्द्रियाणि प्रज्ञामात्रा दशेति भावः ।
प्राणशब्दस्य ब्रह्मण्यवृत्तेस्त्रैविध्यं तवापि स्यादित्याशङ्क्याह —
आश्रितत्वाच्चेति ।
तत्र ब्रह्मलिङ्गाद्ब्रह्मणि वृत्तिराश्रिता प्रकृते कथमित्याशङ्क्याह —
इहापीति ।
प्राणस्य ब्रह्मत्वे मुख्यप्राणलिङ्गं विरुध्येतेत्याशङ्क्याह —
यत्त्विति ।
प्राणव्यापारस्य परमात्मायत्तत्वे मानमाह —
नेति ।
कारणस्य कार्याकारेण स्थितस्य तद्धर्मेणापि सम्बन्धात्कार्यस्य व्यावृत्तस्य कार्यान्तरेष्वपि स्थितकारणधर्मेणासम्बन्धात्प्राणादिलिङ्गानि ब्रह्मणि युज्यन्ते, न तल्लिङ्गानि तत्रेति भावः ।
जीवलिङ्गमपि ब्रह्मविरोधीत्यनुवादपूर्वकमाह —
यदपीति ।
कथं तर्हि ब्रह्मण एव सतो जीवस्य संसारित्वं, तत्राह —
बुद्ध्यादीति ।
जीवो ब्रह्मैव चेन्न तस्य वक्तृत्वं, तस्य ब्रह्मत्वविरोधित्वात् , तत्राह —
तस्येति ।
‘वक्तारं विद्यात्’ इति न विधिः, वक्तृत्वस्याध्यक्षत्वात् । किन्तु तदुद्देशेनाप्रसिद्धं ब्रह्मत्वं विधित्सितमित्यर्थः ।
प्रत्यगात्माभिमुख्योऽर्थो लिङादिरिति समन्वयसूत्रेऽपि दर्शितमित्याशयेनाह —
प्रत्यगिति ।
तत्र तलवकारश्रुतिमाह —
यद्वाचेति ।
येन चैतन्येन वागभ्युद्यते प्रेर्यते वदनसामर्थ्यमापाद्यते तदेव वागादेरगम्यं ब्रह्मेत्यर्थः ।
तस्य तात्पर्यमाह —
वचनादीति ।
द्विवचनसहभावोत्क्रमणश्रवणं सिद्धान्ते दुर्योजमित्युक्तमनूद्य दूषयति —
यदित्यादिना ।
उपाधिभेदात्तद्विशिष्टस्य भिन्नतेति विशिनष्टि —
प्रत्यगिति ।
अभेदस्तर्हि कथं, तत्राह —
उपाधीति ।
उपहितद्वारोपलक्षितस्येत्यर्थः ।