स्वमते सूत्रावयवं व्याख्याय वृत्तिकारमते व्याकरोति —
अथवेति ।
तत्र नञर्थमाह —
नेति ।
ब्रह्मवाक्यत्वे जीवप्रणयोरध्येयत्वात्तल्लिङ्गविरोधोऽस्त्येवेत्याह —
कथमिति ।
हेतुमुक्तवा व्याख्याति —
उपासेति ।
स्वतन्त्राणां त्रयाणामुपास्तौ वाक्यभेदः, न त्वेकस्यैव ब्रह्मणस्तद्धर्मेणेत्यर्थः ।
उक्तमेव विभजते —
तत्रेति ।
‘प्राणो हि भूतानामायुः’ इति श्रुत्यन्तरेणाह —
आयुरिति ।
तस्यायुष्ट्वं जीवनस्य तदधीनत्वात् । प्राणस्यैव देहाद्युत्थापकत्वं तस्मादित्युच्यते । उत्थापयति देहादीत्युक्थं प्राणः । सहवासः सहोत्क्रान्तिश्चेत्युक्त्यानन्तर्यमथशब्दार्थः ।
अस्या जीवाख्यप्रज्ञायाः सम्बन्धीनि भूत्वा सर्वाणि भूतानि तद्दृश्यत्वेन कल्पितानि वस्तुतो यथैकं भवन्ति तथा तद्वस्तु व्याख्यास्याम इत्युपक्रम्योक्तम् —
‘वागेव’ इत्यादि ।
बुद्धेः साभासायाः स्वरूपतो जातत्वेऽपि विषयित्वमिन्द्रियसाध्यम् । तत्र कर्मेन्द्रियेषु मध्ये वागेवास्याः प्रज्ञाया देहार्धमेकमङ्गमदूदुहद्रेचितवती पूरयामास । नामरूपात्मा प्रपञ्चो विषयस्तत्र नामप्रपञ्चे वाग्द्वारा प्रविष्टा धीस्तं प्रति विषयित्वमाप्नोतीत्यर्थः ।
तस्याः प्रज्ञायाः पुनर्नाम किल परस्तादपरभागे चक्षुरादिना प्रतिविहिता समुत्थापिता भूतमात्रा रूपादिरूपा चक्षुरादिना रूपाद्यर्पणेन बुद्धेरपरभागरूपं रूपप्रपञ्चं प्रति विषयित्वं निर्वर्त्यत इत्याह —
तस्या इति ।
बुद्ध्युपहितचैतन्यद्वारा स्वरूपे द्रष्टृत्वाध्यासमाह —
प्रज्ञयेति ।
तया द्वारा चिदात्मा वाचं करणं प्रति कर्तेत्यध्यासमनुभूय वाचा करणेन सर्वाणि नामानि वक्तव्यत्वेनाप्नोति, चक्षुषा सर्वाणि रूपाणि पश्यतीत्येवं द्रष्ट्टत्वमनुभवतीत्यर्थः ।
सर्वभूतविषयित्वमात्मनि विशिष्टद्रष्ट्टत्वादिकरत्वं च बुद्धेर्धर्म इत्युक्तम् । सर्वाधारत्वानन्दत्वादि ब्रह्मधर्म इत्याह —
ता वा एता इति ।
उक्ता भूतमात्राः प्रज्ञाशब्दितेन्द्रियाणि । तदुत्थज्ञानानि चाधिकृत्य प्रवर्तन्ते । प्रज्ञामात्राश्चोक्ता भूतशब्दितानि पृथिव्यादीनि शब्दादीनि चाधिकृत्य भवन्ति ।
ग्राह्यग्राहकयोर्मिथः सापेक्षकत्वं साधयति —
यदिति ।
तदेव स्पष्टयति —
नहीति ।
अन्योन्यापेक्षमप्येतद्विषयविषयिद्वयं न द्वैतपक्षवन्नाना वस्तुतो भिन्नं किन्त्वेकस्मिन्नेवारोपितमित्याह —
नो इति ।
तद्यथेत्यादि व्याख्यातम् ।
नोपासात्रैविध्यादित्यस्यार्थमुपसंहरति —
तस्मादिति ।
अन्यधर्मेणान्यस्योपासनं कथमित्याशङ्क्याश्रितत्वादित्याह —
अन्यत्रापीति ।
तत्रोपक्रमे ब्रह्मणः श्रुतत्वाद्युक्ता मनोमयत्वादिविशिष्टस्योपास्तिः, इह कथमित्याशङ्क्य तद्योगादित्याह —
इहापीति ।
उपास्तेस्तर्हि कथं त्रैविध्यं, तत्राह —
प्राणेति ।
वाक्यभेदस्तु ब्रह्मण एकस्यैवोपासात्रैविध्योक्त्या प्रयुक्तः ।
किमत्रोपासात्रयविशिष्टं ब्रह्म विधेयमुत ब्रह्मविशिष्टमुपासात्रयं किं वा तदनुवादेन तदाश्रित्योपासात्रयम् । नाद्यः, ब्रह्मणः सिद्धत्वाद्विध्यनर्हत्वात् । न द्वितीयः, वाक्यान्तरेभ्यो ब्रह्मणो ज्ञातत्वात् । न तृतीयः, ब्रह्मानुवादेनोपास्तिविधावेकविशेष्यावशीकारादुपास्तीनां मिथोसम्बन्धात्प्रत्युपास्तिविध्यावृत्त्या वाक्यभेदादित्येकीयव्याख्यामुपेक्ष्य स्वपक्षमुपसंहरति —
तस्मादिति ।
प्राकरणिकत्वेऽपि ब्रह्मणोऽवान्तरवाक्यभेदेन श्रवणादिवद्विविदिषार्थं यज्ञादिवच्चोपास्तित्रयं विधेयं, विधेयत्रयधर्मवद्ब्रह्मोपास्तिश्चैकेति कुतो वाक्यभेद इत्येके । तन्न । अन्तस्तद्धर्माधिकरणेन गतत्वात् । तत्र हि सार्वात्म्यसर्वदुरितविरहाभ्यां सर्वकारणे ब्रह्मणि सिद्धे रूपवत्त्वादिकार्यधर्मा नीतास्तयात्रापि प्रागुक्तन्यायेन प्राणादिधर्माणां ब्रह्मणि सम्भवान्न पृथग्विचारावसरः । तस्माज्जीवप्राणब्रह्माणि सहोपास्यानि ब्रह्मैव वा प्रतिपाद्यमिति पदार्थवाक्यार्थयोर्बलाबलज्ञानेन सन्दिह्य दिवो दिवीत्यत्र प्रधानप्रकृत्यर्थाभेदेन गुणभूतप्रत्ययार्थभेदनयनवदत्रापि स्वतन्त्रप्राणादिपदार्थभेददृष्टौ तदपेक्षत्वेन गुणभूतवाक्यार्थदृष्टेरन्यथानयनात्पदार्थबुद्धेर्वाक्यार्थबुद्ध्योपजीव्यत्वेन स्वातत्र्याद्वाक्यैक्यं भङ्क्त्वा त्रीणि सहोपास्यानीति प्रापय्य पदानां वाक्यार्थबोधोद्देशेन प्रवृत्तत्वात्पदार्थबोधस्य नान्तरीयकत्वाद्वाक्यार्थबोधप्राधान्यादुपक्रमोपसंहारैकरूप्यसिद्धप्रधानवाक्यार्थभङ्गायोगात् , प्राणादिलिङ्गानां च ब्रह्मणि नीतत्वात् , अनन्यथासिद्धब्रह्मलिङ्गाद्ब्रह्मैवात्र प्रतिपाद्यमिति सिद्धान्तयितव्यम् । सर्वथापि प्रातर्दनं वाक्यं ब्रह्मणि ज्ञेये समन्वितमिति ॥ ३१ ॥