ब्रह्मसूत्रभाष्यम्
प्रथमोऽध्यायः द्वितीयः पादः
न्यायनिर्णयव्याख्या
 
प्रथमे पादेजन्माद्यस्य यतःइत्याकाशादेः समस्तस्य जगतो जन्मादिकारणं ब्रह्मेत्युक्तम्तस्य समस्तजगत्कारणस्य ब्रह्मणो व्यापित्वं नित्यत्वं सर्वज्ञत्वं सर्वशक्तित्वं सर्वात्मत्वमित्येवंजातीयका धर्मा उक्ता एव भवन्तिअर्थान्तरप्रसिद्धानां केषाञ्चिच्छब्दानां ब्रह्मविषयत्वहेतुप्रतिपादनेन कानिचिद्वाक्यानि स्पष्टब्रह्मलिङ्गानि सन्दिह्यमानानि ब्रह्मपरतया निर्णीतानिपुनरप्यन्यानि वाक्यान्यस्पष्टब्रह्मलिङ्गानि सन्दिह्यन्तेकिं परं ब्रह्म प्रतिपादयन्ति, आहोस्विदर्थान्तरं किञ्चिदितितन्निर्णयाय द्वितीयतृतीयौ पादावारभ्येते

पूर्वोपजीवनेनोत्तरोत्थानाद्धेतुहेतुमत्त्वं सम्बन्धं वक्तुं वृत्तमनुवदति —

प्रथम इति ।

कारणत्वमात्रं नात्रोपयुक्तं, व्यापित्वादेरपि सिद्धवद्धेतुतयोपादानात् , अतस्तदनुक्तौ कथं सङ्गतिरित्याशङ्क्याह —

तस्येति ।

उक्तमुपजीव्योत्तरप्रवृत्तौ कथं पादभेद इत्याशङ्क्याह —

अर्थान्तरेति ।

उत्तरपादद्वयस्यानधिगतमर्थमाह —

पुनरिति ।

पूर्वं भूताकाशादिषु रूढाकाशादिशब्दानां ब्रह्मपरत्वे तल्लिङ्गादितिहेतूक्त्या स्पष्टब्रह्मलिङ्गानि नीतानि । अथास्पष्टब्रह्मलिङ्गवाक्यान्यर्थान्तरार्थतया शङ्क्यमानानि ब्रह्मणि नीयन्ते । तत्र द्वितीयतृतीयपादयोरवान्तरभेदस्तु प्रायशः सविशेषनिर्विशेषार्थतया रूढियोगबहुलतया वेति भावः ।