पूर्वं जीवलिङ्गबाधया ब्रह्मपरत्ववन्मनोमयादिवाक्येऽपि तद्बाधेन तत्परत्वमाह —
सर्वत्रेति ।
छान्दोग्यवाक्यमुदाहरति —
इदमिति ।
सर्वं जगद्ब्रह्मैवेत्यत्र हेतुमाह —
तज्जेति ।
तस्माज्जायत इति तज्जं, तस्मिंल्लीयत इति तल्लं, तस्मिन्ननिति चेष्टत इति तदनं, तज्जं च तल्लं च तदनं च तदिति तञ्जलान् । अवयवलोपश्छान्दसः । इति हेतौ । यस्मादेवं जगत्तस्माद्ब्रह्मैव सर्वं जगदित्यर्थः ।
अतो धियो रागादिविषयाभावादुपासीत स शान्तः स्यादित्याह —
शान्त इति ।
गुणं विधाय गुणिविधित्सया पुम्प्रयत्नस्य साफल्यमाह —
अथेति ।
पुरुषोऽधिकृतः क्रतुमयः सङ्कल्पप्रधानः । तत्र हेतुर्यथेति । ज्ञानं कर्म वा यथास्मिन्देहे स्थितः सङ्कल्पयते तथा तदनुसारेण फलं परत्र लभते सोऽधिकृतः क्रतुं ध्यानं कुर्वीत ।
किं ध्यायेदित्याकाङ्क्षायामाह —
मनोमय इति ।
विभक्तिव्यत्ययेन मनोमयं प्राणशरीरं ध्यायेदित्यर्थः । आदिशब्दाद्भारूपः सत्यसङ्कल्प इत्यादि गृहीतम् ।
मनोमयत्वादीनां प्रकृतब्रह्मानपेक्षत्वसापेक्षत्वाभ्यां सन्देहमाह —
तत्रेति ।
एकवाक्यस्थब्रह्माब्रह्मलिङ्गयोर्ब्रह्मलिङ्गवशादब्रह्मलिङ्गं नीतम् । इह ब्रह्माब्रह्मप्रकरणलिङ्गसंनिपाते किं युक्तमिति पृच्छति —
किमिति ।
‘सर्वम्’ इत्यादिश्रुतेः सविशेषार्थाया ध्येये ब्रह्मण्यन्वयोक्तेः श्रुत्यादिसङ्गतयः । पर्वपक्षे जीवस्य, सिद्धान्ते परस्योपास्तिः फलम् ।
रात्रिसत्रन्यायेनोपास्त्या वाक्यशेषस्थो जीवः सम्बध्यत इति पूर्वपक्षयति —
शारीर इति ।
विश्वजिन्न्यायेन सर्वाभीष्टं ब्रह्मैव मनोमयादौ विशेष्याकाङ्क्षायामुपास्तिसम्बन्धीत्याह —
कुत इति ।
विशेष्याकाङ्क्षायामपि जीव एव लिङ्गबलीयस्तया सम्बध्यत इत्याह —
तस्येति ।
तदन्यथासिद्धिं प्रत्याह —
नेति ।
आदिपदेन ‘अवागमनाः’ इत्याद्या श्रुतिरुक्ता ।
श्रुत्या शङ्कते —
नन्विति ।
न लिङ्गं श्रुत्या बाध्यमित्याह —
नैष इति ।
किं पूर्ववाक्ये ब्रह्मोपास्तिर्विहितेत्युच्यते किं वा प्रकृतं ब्रह्मैवोत्तरत्र सम्बद्धमिति । नाद्य इत्याह —
नेदमिति ।
शमविधिपरत्वे हेतुः —
यदिति ।
‘उपासीत’ इत्युपास्तिविधौ श्रुते कथं गुणविधिः, तत्राह —
एतदिति ।
सर्वस्यैकात्मत्वेऽपि कथं शमविधिः, तत्राह —
नचेति ।
तर्हि शमो ध्यानमित्युभयं विधीयतां, नेत्याह —
नचेति ।
वाक्यभेदापत्तेरिति भावः ।
‘दध्ना जुहोति’ इति होमानुवादेन गुणविधिवदिहापि शमविधौ वाक्यान्तरसिद्धोपास्तिरनूद्यत इत्याशङ्क्याह —
उपासनं त्विति ।
क्रतुरेव तत्र विधीयते नोपास्तिरित्याशङ्क्योक्तम् —
क्रतुरिति ।
द्वितीयं प्रत्याह —
तस्य चेति ।
ब्रह्मैव मनोमयादिशब्दमित्याशङ्क्य मनआदियोगस्य जीवलिङ्गत्वान्नेत्याह —
जीवेति ।
तस्योपास्यत्वे वाक्यशेषस्थं सर्वकर्मत्वादि कथमित्याशङ्क्य क्रमेणेत्याह —
सर्वेति ।
जीवपक्षे लिङ्गद्वयमाह —
एष इति ।
जीवे ज्यायस्त्वायोगं शङ्कते —
नन्विति ।
किं ज्यायस्त्वमणीयस्त्वं चोभयं सत्यमन्यतरद्वेति विकल्पयति —
अत्रेति ।
आद्यं दूषयति —
न तावदिति ।
द्वितीयं निराह —
अन्यतरेति ।
तच्चाराग्रमात्रस्य जीवस्य युक्तमिति तस्यैवोपास्यतेत्यर्थः ।
श्रुत्या ज्यायस्त्वस्यात्यन्तबाधे श्रुतिबाधमाशङ्क्याह —
ज्यायस्त्वं त्विति ।
जीवपक्षे कथमन्ते ब्रह्मपदं, तत्राह —
निश्चिते चेति ।
जीवेऽपि देहादिबृंहणाज्ज्यायस्त्वन्यायाद्वा ब्रह्मतेत्यर्थः ।
‘एतमितः प्रेत्याभिसम्भवितास्मि’ इति कर्मकर्तृव्यपदेशात् , ‘अन्तरात्मन्पुरुषः’ इति च तुल्याधिकारे भेदोक्तेर्न जीवस्योपास्यतेत्याशङ्क्य साधनफलावस्थापेक्षया कर्मकर्तृत्वस्यान्यस्य च ‘स्वे महिम्नि’ इतिवदुपचाराज्जीवस्यैवोपास्यतेत्युपसंहरति —
तस्मादिति ।
पूर्वपक्षमनूद्य सिद्धान्तयन्सूत्राद्बहिरेव प्रतिजानीते —
एवमिति ।