मनोमयादिशब्दा ध्येये जीवे भान्ति । न ब्रह्म तथेत्याह —
कुत इति ।
सूत्रमादाय व्याचष्टे —
सर्वत्रेति ।
रात्रिसत्रन्यायस्य लघुत्वेऽपि जीवगामित्वेनाफलत्वाद्विश्वजिन्न्यायस्य गुरोरपि ब्रह्मगामित्वेन फलवतः श्रुतितात्पर्यगमकस्य बलीयस्त्वाद्ब्रह्मैवात्रोपास्यमितिभावः ।
किञ्च मनोमयत्वादिलिङ्गं बाधित्वा ब्रह्मश्रुत्या ब्रह्मैवोपास्यमित्याह —
इह चेति ।
किञ्चाफललिङ्गोपनीतं जीवं हित्वा फलवत्प्रकरणप्राप्तं ब्रह्म ग्राह्यमित्याह —
एवमिति ।
प्राणः शरीरमस्येति समासगतसर्वनाम्ना संनिहितार्थेन प्रकृतं ब्रह्म हित्वा जीवमप्रकृतमिच्छतः प्रकृतहानिरप्रकृतप्रक्रिया चेत्यर्थः ।
आगतो राजपुरुषस्तं भोजयेदितिवदन्यशेषस्य ब्रह्मणः सर्वनामादिना न परामर्शः स्यादित्याशङ्कते —
नन्विति ।
‘तस्मिन्सीद’ इत्यादौ सदनस्येवोपसर्जनस्यापि परामर्शमाह —
अत्रेति ।
जीवस्यापि लिङ्गादस्ति संनिधिरित्याशङ्क्य तस्योपास्तिधियो विशेषणवैयर्थ्यादविवक्षितं लिङ्गमित्याह —
जीवस्त्विति ।
तथापि मनोमयादिशब्दात्तदुक्तिः, नेत्याह —
नचेति ।
तस्य तदवाचित्वादित्यर्थः । वैषम्यं जीवब्रह्मणोरिति शेषः ॥ १ ॥