ब्रह्मसूत्रभाष्यम्
प्रथमोऽध्यायः द्वितीयः पादः
न्यायनिर्णयव्याख्या
 
विवक्षितगुणोपपत्तेश्च ॥ २ ॥
वक्तुमिष्टा विवक्षिताःयद्यप्यपौरुषेये वेदे वक्तुरभावात् नेच्छार्थः सम्भवति, तथाप्युपादानेन फलेनोपचर्यतेलोके हि यच्छब्दाभिहितमुपादेयं भवति तद्विवक्षितमित्युच्यते, यदनुपादेयं तदविवक्षितमितितद्वद्वेदेऽप्युपादेयत्वेनाभिहितं विवक्षितं भवति, इतरदविवक्षितम्उपादानानुपादाने तु वेदवाक्यतात्पर्यातात्पर्याभ्यामवगम्येतेतदिह ये विवक्षिता गुणा उपासनायामुपादेयत्वेनोपदिष्टाः सत्यसङ्कल्पप्रभृतयः, ते परस्मिन्ब्रह्मण्युपपद्यन्तेसत्यसङ्कल्पत्वं हि सृष्टिस्थितिसंहारेष्वप्रतिबद्धशक्तित्वात्परमात्मन एवावकल्पतेपरमात्मगुणत्वेन आत्मापहतपाप्मा’ (छा. उ. ८ । ७ । १) इत्यत्रसत्यकामः सत्यसङ्कल्पःइति श्रुतम् , ‘आकाशात्माइति आकाशवदात्मा अस्येत्यर्थःसर्वगतत्वादिभिर्धर्मैः सम्भवत्याकाशेन साम्यं ब्रह्मणः । ‘ज्यायान्पृथिव्याःइत्यादिना चैतदेव दर्शयतियदापि आकाश आत्मा यस्येति व्याख्यायते, तदापि सम्भवति सर्वजगत्कारणस्य सर्वात्मनो ब्रह्मण आकाशात्मत्वम्अत एवसर्वकर्माइत्यादिएवमिहोपास्यतया विवक्षिता गुणा ब्रह्मण्युपपद्यन्तेयत्तूक्तम् — ‘मनोमयः प्राणशरीरःइति जीवलिङ्गम् , तद्ब्रह्मण्युपपद्यत इति; तदपि ब्रह्मण्युपपद्यत इति ब्रूमःसर्वात्मत्वाद्धि ब्रह्मणो जीवसम्बन्धीनि मनोमयत्वादीनि ब्रह्मसम्बन्धीनि भवन्तितथा ब्रह्मविषये श्रुतिस्मृती भवतःत्वं स्त्री त्वं पुमानसि त्वं कुमार उत वा कुमारीत्वं जीर्णो दण्डेन वञ्चसि त्वं जातो भवसि विश्वतोमुखः’ (श्वे. उ. ४ । ३) इति; सर्वतःपाणिपादं तत्सर्वतोऽक्षिशिरोमुखम्सर्वतःश्रुतिमल्लोके सर्वमावृत्य तिष्ठति’ (भ. गी. १३ । १३) इति । ‘अप्राणो ह्यमनाः शुभ्रःइति श्रुतिः शुद्धब्रह्मविषया, इयं तु श्रुतिःमनोमयः प्राणशरीरःइति सगुणब्रह्मविषयेति विशेषःअतो विवक्षितगुणोपपत्तेः परमेव ब्रह्म इहोपास्यत्वेनोपदिष्टमिति गम्यते ॥ २ ॥

इतश्च ब्रह्मैवात्रोपास्यमित्याह —

विवक्षितेति ।

ननु शास्त्रयोनित्वेऽपीश्वरस्य रचनायामस्वातन्त्र्यादपौरुषेयत्वं वेदस्योक्तम् । तत्र वक्तुरभावादित्थं विवक्षितपदं कथं विगृह्यते, तत्राह —

यद्यपीति ।

विवक्षितस्योपादानादुपास्तावुपादानस्य विवक्षाफलस्य सत्यसङ्कल्पादिगुणेषु दृष्टेर्विवक्षितत्वमुपचर्य विग्रह इत्यर्थः ।

उक्तोपचारस्यालौकिकत्वं प्रत्याह —

लोकेऽपीति ।

विवक्षितत्वोपादेयत्वयोरन्योन्याश्रयत्वमाशङ्क्याह —

उपादानेति ।

परिग्रहपरित्यागावुपादानानुपादाने ।

प्रसङ्गागतमुक्त्वा सूत्रं व्याचष्टे —

तदिहेति ।

तच्छब्दो यथोक्तसमासोपपत्तिपरामर्शी ।

प्रकृतं प्रकरणमिहेत्युक्तम् । ब्रह्मण्येव सत्यसङ्कल्पत्वं साधयति —

सत्येति ।

श्रुतिरपि युक्तिवदिहास्तीत्याह —

परमात्मेति ।

आकाशात्मत्वं वक्तुं तन्निरुक्तिं करोति —

आकाशेति ।

कथं जडाजडयोः साम्यं, तदाह —

सर्वेति ।

ज्यायस्त्वं सर्वगतत्वसाधकमित्याह —

ज्यायानिति ।

आकाशात्मत्वस्य निरुक्त्यन्तरमाशङ्क्याङ्गीकरोति —

यदेति ।

सर्वात्मत्वमत एवेत्युक्तम् । आदिपदं सर्वकामादिसङ्ग्रहार्थम् ।

उक्तामुपपत्तिमुपसंहरति —

एवमिति ।

इहेति प्रकरणोक्तिः । तेन तदेवोपास्यमिति शेषः ।

ध्येयस्यापि मनोमयत्वादेर्ब्रह्मणि नोपपत्तिरित्याशङ्क्याह —

यत्त्विति ।

तस्यापि ब्रह्मण्युपपत्तिमाह —

तदपीति ।

कथं जीवगामिनो ब्रह्मणि सिद्धिः, तत्राह —

सर्वेति ।

जीवस्यैवासाधारणं मनोमयत्वादीत्युपेत्य ब्रह्मण्युपपत्तिमुक्त्वा तस्य साधारण्ये मानमाह —

तथाचेति ।

जीर्णः स्थविरो भूत्वा यो दण्डेन वञ्चति गच्छति सोऽपि त्वमेव । सर्वतः सर्वासु दिक्षु श्रुतयः श्रोत्राण्यस्यैवेति सर्वतःश्रुतिमत् ।

ब्रह्मणि मनोमयत्वादि वदतः श्रुत्यन्तरविरोधमाशङ्क्याह —

अप्राणो हीति ।

सूत्रार्थमुपसंहरति —

अत इति ॥ २ ॥