इतश्च ब्रह्मैवात्रोपास्यमित्याह —
विवक्षितेति ।
ननु शास्त्रयोनित्वेऽपीश्वरस्य रचनायामस्वातन्त्र्यादपौरुषेयत्वं वेदस्योक्तम् । तत्र वक्तुरभावादित्थं विवक्षितपदं कथं विगृह्यते, तत्राह —
यद्यपीति ।
विवक्षितस्योपादानादुपास्तावुपादानस्य विवक्षाफलस्य सत्यसङ्कल्पादिगुणेषु दृष्टेर्विवक्षितत्वमुपचर्य विग्रह इत्यर्थः ।
उक्तोपचारस्यालौकिकत्वं प्रत्याह —
लोकेऽपीति ।
विवक्षितत्वोपादेयत्वयोरन्योन्याश्रयत्वमाशङ्क्याह —
उपादानेति ।
परिग्रहपरित्यागावुपादानानुपादाने ।
प्रसङ्गागतमुक्त्वा सूत्रं व्याचष्टे —
तदिहेति ।
तच्छब्दो यथोक्तसमासोपपत्तिपरामर्शी ।
प्रकृतं प्रकरणमिहेत्युक्तम् । ब्रह्मण्येव सत्यसङ्कल्पत्वं साधयति —
सत्येति ।
श्रुतिरपि युक्तिवदिहास्तीत्याह —
परमात्मेति ।
आकाशात्मत्वं वक्तुं तन्निरुक्तिं करोति —
आकाशेति ।
कथं जडाजडयोः साम्यं, तदाह —
सर्वेति ।
ज्यायस्त्वं सर्वगतत्वसाधकमित्याह —
ज्यायानिति ।
आकाशात्मत्वस्य निरुक्त्यन्तरमाशङ्क्याङ्गीकरोति —
यदेति ।
सर्वात्मत्वमत एवेत्युक्तम् । आदिपदं सर्वकामादिसङ्ग्रहार्थम् ।
उक्तामुपपत्तिमुपसंहरति —
एवमिति ।
इहेति प्रकरणोक्तिः । तेन तदेवोपास्यमिति शेषः ।
ध्येयस्यापि मनोमयत्वादेर्ब्रह्मणि नोपपत्तिरित्याशङ्क्याह —
यत्त्विति ।
तस्यापि ब्रह्मण्युपपत्तिमाह —
तदपीति ।
कथं जीवगामिनो ब्रह्मणि सिद्धिः, तत्राह —
सर्वेति ।
जीवस्यैवासाधारणं मनोमयत्वादीत्युपेत्य ब्रह्मण्युपपत्तिमुक्त्वा तस्य साधारण्ये मानमाह —
तथाचेति ।
जीर्णः स्थविरो भूत्वा यो दण्डेन वञ्चति गच्छति सोऽपि त्वमेव । सर्वतः सर्वासु दिक्षु श्रुतयः श्रोत्राण्यस्यैवेति सर्वतःश्रुतिमत् ।
ब्रह्मणि मनोमयत्वादि वदतः श्रुत्यन्तरविरोधमाशङ्क्याह —
अप्राणो हीति ।
सूत्रार्थमुपसंहरति —
अत इति ॥ २ ॥