ब्रह्मसूत्रभाष्यम्
प्रथमोऽध्यायः द्वितीयः पादः
न्यायनिर्णयव्याख्या
 
अनुपपत्तेस्तु न शारीरः ॥ ३ ॥
पूर्वेण सूत्रेण ब्रह्मणि विवक्षितानां गुणानामुपपत्तिरुक्ताअनेन शारीरे तेषामनुपपत्तिरुच्यतेतुशब्दोऽवधारणार्थःब्रह्मैवोक्तेन न्यायेन मनोमयत्वादिगुणम्; तु शारीरो जीवो मनोमयत्वादिगुणः; यत्कारणम् — ‘सत्यसङ्कल्पः’ ‘आकाशात्मा’ ‘अवाकी’ ‘अनादरः’ ‘ज्यायान्पृथिव्याःइति चैवंजातीयका गुणा शारीरे आञ्जस्येनोपपद्यन्तेशारीर इति शरीरे भव इत्यर्थःनन्वीश्वरोऽपि शरीरे भवतिसत्यम् , शरीरे भवति; तु शरीर एव भवति; ‘ज्यायान्पृथिव्या ज्यायानन्तरिक्षात्आकाशवत्सर्वगतश्च नित्यः’ (शत. ब्रा. १० । ६ । ३ । २) इति व्यापित्वश्रवणात्जीवस्तु शरीर एव भवति, तस्य भोगाधिष्ठानाच्छरीरादन्यत्र वृत्त्यभावात् ॥ ३ ॥

ब्रह्मणि जीवगतं मनोमयत्वादीष्टं चेद्ब्रह्मगतमपि सत्यसङ्कल्पत्वाद्यभेदाज्जीवेऽस्तु, नेत्याह —

अनुपपत्तेस्त्विति ।

सूत्रं व्याख्यातुं सङ्गतिमाह —

पूर्वेणेति ।

आरोप्यरूपेण विषयस्यैव रूपित्वं न विपरीतं, नहि रज्ज्वा रूपेण सर्पो रूपवानित्यर्थः ।

अवधारणमेव स्फोरयन्नेत्यादि विभजते —

ब्रह्मेति ।

सर्वात्मत्वादिरुक्तो न्यायः ।

अनुपपत्तेरिति व्याचष्टे —

यदिति ।

वागेव वाकः सोऽस्यास्तीति वाकी न वाक्यवाकी । वागादिसर्वेन्द्रियरहित इत्यर्थः । आप्तकामत्वान्न कुत्रचिदादरोऽस्तीत्यनादरः ।

शारीरत्वमीश्वरेऽपि व्यापिनि स्यादिति शङ्कते —

नन्विति ।

अयोगव्यवच्छेदमङ्गीकृत्यान्ययोगव्यवच्छेदाभावान्नेत्याह —

सत्यमिति ।

अन्ययोगाव्यवच्छेदे हेतुः —

ज्यायानिति ।

जीवे वा कथं विशिष्टं शारीरत्वं, तत्राह —

जीवस्त्विति ॥ ३ ॥