ब्रह्मसूत्रभाष्यम्
प्रथमोऽध्यायः द्वितीयः पादः
न्यायनिर्णयव्याख्या
 
कर्मकर्तृव्यपदेशाच्च ॥ ४ ॥
इतश्च शारीरो मनोमयत्वादिगुणः; यस्मात्कर्मकर्तृव्यपदेशो भवतिएतमितः प्रेत्याभिसम्भवितास्मि’ (छा. उ. ३ । १४ । ४) इतिएतमिति प्रकृतं मनोमयत्वादिगुणमुपास्यमात्मानं कर्मत्वेन प्राप्यत्वेन व्यपदिशति; अभिसम्भवितास्मीति शारीरमुपासकं कर्तृत्वेन प्रापकत्वेनअभिसम्भवितास्मीति प्राप्तास्मीत्यर्थः सत्यां गतावेकस्य कर्मकर्तृव्यपदेशो युक्तःतथोपास्योपासकभावोऽपि भेदाधिष्ठान एवतस्मादपि शारीरो मनोमयत्वादिविशिष्टः ॥ ४ ॥

जीवस्य मनोमयत्वादिगुणत्वाभावे हेत्वन्तरम् —

कर्मेति ।

पूर्वसूत्रान्नेत्याद्याकृष्य चशब्दार्थमाह —

इतश्चेति ।

प्राप्यप्रापकत्वेन कर्मकर्तृव्यपदेशं विशदयति —

एतमिति ।

वाक्यं व्याकरोति —

एतमित्यादिना ।

प्रापकत्वेन व्यपदिशतीति सम्बन्धः ।

मामहं जानामीतिवद्व्यपदेशमाशङ्क्याह —

नचेति ।

कर्मकर्तृव्यपदेशे सूत्राभिप्रेतं प्रकारान्तरमाह —

उपास्येति ।

उक्तव्यपदेशफलमाह —

तस्मादिति ॥ ४ ॥