ब्रह्मसूत्रभाष्यम्
प्रथमोऽध्यायः द्वितीयः पादः
न्यायनिर्णयव्याख्या
 
शब्दविशेषात् ॥ ५ ॥
इतश्च शारीरादन्यो मनोमयत्वादिगुणः; यस्माच्छब्दविशेषो भवति समानप्रकरणे श्रुत्यन्तरेयथा व्रीहिर्वा यवो वा श्यामाको वा श्यामाकतण्डुलो वैवमयमन्तरात्मन्पुरुषो हिरण्मयः’ (श. ब्रा. १० । ६ । ३ । २) इतिशारीरस्यात्मनो यः शब्दोऽभिधायकः सप्तम्यन्तःअन्तरात्मन्निति; तस्माद्विशिष्टोऽन्यः प्रथमान्तः पुरुषशब्दो मनोमयत्वादिविशिष्टस्यात्मनोऽभिधायकःतस्मात्तयोर्भेदोऽधिगम्यते ॥ ५ ॥

तत्रैव हेत्वन्तरमाह —

शब्देति ।

सूत्रे हेत्वन्तरद्योतकाभावमाशङ्क्य पूर्वसूत्रस्थं चशब्दमाकृष्य व्याकरोति —

इतश्चेति ।

समानप्रकरणत्वमेकविद्याविषयत्वम् । अन्तरात्मन्निति छान्दसो विभक्तिलोपः ।

शब्दभेदफलमाह —

तस्मादिति ॥ ५ ॥