आत्मान्तःस्थितस्यान्यस्यायोगे ‘स्वे महिम्नि’ इतिवदुपचारादेव शब्दभेदः स्यादित्युक्तमाशङ्क्याह —
स्मृतेश्चेति ।
हृदि स्थितस्य शारीराद्भेदः स्मृत्योच्यते ।
ततो मनोमयत्वादिविशिष्टो हृदि स्थितोऽन्यः शारीरादिति नोपचारशङ्केति व्याचष्टे —
स्मृतिश्चेति ।
‘तमेव शरणं गच्छ’ इत्यादिवाक्यमादिशब्दार्थः ।