ब्रह्मसूत्रभाष्यम्
प्रथमोऽध्यायः द्वितीयः पादः
न्यायनिर्णयव्याख्या
 
स्मृतेश्च ॥ ६ ॥
अत्राहकः पुनरयं शारीरो नाम परमात्मनोऽन्यः, यः प्रतिषिध्यते — ‘अनुपपत्तेस्तु शारीरःइत्यादिना ? श्रुतिस्तु नान्योऽतोऽस्ति द्रष्टा नान्योऽतोऽस्ति श्रोता’ (बृ. उ. ३ । ७ । २३) इत्येवंजातीयका परमात्मनोऽन्यमात्मानं वारयतितथा स्मृतिरपि क्षेत्रज्ञं चापि मां विद्धि सर्वक्षेत्रेषु भारत’ (भ. गी. १३ । २) इत्येवंजातीयकेतिअत्रोच्यतेसत्यमेवैतत् , पर एवात्मा देहेन्द्रियमनोबुद्ध्युपाधिभिः परिच्छिद्यमानो बालैः शारीर इत्युपचर्यतेयथा घटकरकाद्युपाधिवशादपरिच्छिन्नमपि नभः परिच्छिन्नवदवभासते, तद्वत्तदपेक्षया कर्मत्वकर्तृत्वादिभेदव्यवहारो विरुध्यते प्राक्तत्त्वमसिइत्यात्मैकत्वोपदेशग्रहणात्गृहीते त्वात्मैकत्वे बन्धमोक्षादिसर्वव्यवहारपरिसमाप्तिरेव स्यात् ॥ ६ ॥

ईक्षत्यधिकरणे निरस्तमपि चोद्यं प्रसङ्गादुद्भावयति —

अत्रेति ।

श्रुतिस्मृतिभ्यां भेदवादः सप्तम्यर्थः ।

ननु नान्यत्वं साध्यते किन्त्वन्यस्य मनोमयत्वादि निषिध्यते, तत्राह —

य इति ।

विवक्षितगुणवत्त्वेन जीवस्य ध्येयत्वनिषेधानुपपत्त्या तदन्यत्वधीरित्यर्थः ।

परस्यांशो विकारो वा जीवो नामेत्याशङ्क्य श्रुतिस्मृतिविरोधान्नैवमित्याह —

श्रुतिरिति ।

नच भेदाभेदाभ्यां श्रुतिस्मृत्यविरोधः, तदयोगादिति । किं वस्तुतोऽन्यो जीवो नास्ति, किं वोपाधितोऽपीति विकल्पयति —

अत्रेति ।

आद्यमङ्गीकरोति —

सत्यमिति ।

द्वितीयं दूषयति —

पर इति ।

अपरिच्छिन्नस्योपाधिना परिच्छिन्नत्वदृष्टिं दृष्टान्तेन स्पष्टयति —

यथेति ।

श्रुतौ स्मृतौ च कर्मकर्तृत्वादिव्यवहारात्पारमार्थिक एव भेद इत्याशङ्क्याह —

तदिति ।

अबाधाद्भेदव्यवहारस्य तात्त्विकत्वमाशङ्क्य प्रागूर्ध्वं वा बोधादबाध इति विकल्प्याद्यमनुजानाति —

प्रागिति ।

द्वितीयं प्रत्याह —

गृहीते त्विति ॥ ६ ॥