जैवं लिङ्गद्वयं निरस्यति —
अर्भकेति ।
अर्भकमोको यस्य सोऽर्भकौकास्तस्य भावस्तत्त्वं तस्मादिति यावत् । अर्भकशब्दस्य शिशुविषयत्वनिषेधार्थमल्पमिति पर्यायत्वोक्तिः ।
ओकःशब्दस्याप्रसिद्धार्थतां व्यवच्छिनत्ति —
नीडमिति ।
वाक्यार्थं वदन्नाशङ्कां विवृणोति —
एष इति ।
तत्र लिङ्गयोः सम्भावनार्थं विशिनष्टि —
आराग्रेति ।
परत्र तदसम्भावनार्थम् —
सर्वगत इति ।
तस्यानुपेक्षणीयत्वमाह —
तदिति ।
परिहारभागमवतारयति —
अत्रेति ।
अणीयस्त्वमुपेत्य ज्यायस्त्वं वा बाध्यं, तदपि वा कथञ्चिदनुगन्तव्यम् । नाद्यः, श्रुतस्य बाधायोगादित्याह —
नायमिति ।
द्वितीयं प्रत्याह —
न तावदिति ।
त्वयापि ज्यायस्त्वमुपेत्याणीयस्त्वं बाध्यते, तदपि वा कथञ्चिदनुगम्यते । नाद्यः, श्रुतबाधायोगसाम्यात् । न द्वितीयः, ज्यायसोऽणीयस्त्वस्य सर्वथैवायुक्तत्वात् , तत्राह —
सर्वेति ।
अपरिच्छिन्नस्य परिच्छिन्नदेशोक्तौ दृष्टान्तमाह —
समस्तेति ।
तत्र पुरवासापेक्षया व्यपदेशेऽपि कथमिहेति पृच्छति —
कयेति ।
सूत्रावयवमुत्तरमवतार्य व्याचष्टे —
निचाय्यत्वादिति ।
सर्वगतस्य कथमेकदेशे द्रष्टव्यत्वं, तत्राह —
यथेति ।
तत्र शास्त्रप्रमाण्यात्तथास्तु, प्रस्तुते कथं, तत्राह —
तत्रेति ।
बुद्धिविज्ञानमित्यन्तःकरणस्य प्रमाणजा वृत्तिरुक्ता । सर्वगतस्य कुतो हृदय एव मानग्राह्यत्वं, तत्राह —
सर्वेति ।
अपरिच्छिन्नस्य परिच्छिन्नायतनत्वादिव्यपदेशं सौत्रोदाहरणेन साधयति —
व्योमवदिति ।
ब्रह्मापि हृदयापेक्षया द्विधोक्तिभागिति शेषः ।
दार्ष्टान्तिकमुपसंहरति —
तदेवमिति ।
हृदयायतनस्यातात्त्विकत्वे चोद्यान्तरमपि निरस्तमित्याह —
तत्रेति ।
नहि परोपाधिपरिच्छेदादनित्यात्वादि युक्तं, व्योम्नोऽदृष्टेरिति भावः ॥ ७ ॥