हार्दत्वे ब्रह्मणोऽनिष्ठप्रसङ्गाज्जीवस्यैव हार्दस्योपास्यतेति शङ्कित्वा समाधत्ते —
सम्भोगेति ।
चोद्यं प्रपञ्चपयति —
व्योमवदिति ।
सर्वबुद्धिसम्बन्धेऽपि नभोवदभोगमाशङ्क्योक्तम् —
चिदिति ।
तथापि भोगहेतुसम्बद्धस्यैव भोगो नेतरस्येत्याशङ्क्याह —
एकत्वाच्चेति ।
तत्प्रपञ्चयति —
नहीति ।
अनिष्टप्रसङ्गं निगमयति —
तस्मादिति ।
उत्तरमादत्ते —
नेति ।
यत्तु बुद्धिस्थत्वे सति चैतन्याद्ब्रह्मणो भोक्तृत्वं जीववदिति, तत्राह —
न तावदिति ।
हेतुं विवृणोति —
विशेषो हीति ।
धर्माधर्मवत्त्वस्यैव भोगप्रयोजकत्वादप्रयोजको हेतुरित्यर्थः ।
उक्तवैशेष्यफलमाह —
एतस्मादिति ।
साधनव्याप्तिमाशङ्क्य ‘अन्यत्र धर्मात्’ इत्यादिश्रुतिविरोधान्मैवमित्याह —
यदि चेति ।
किञ्च जीवा विभवो बहवश्चेति स्थितावेकस्मिन्देहदेशे सर्वसंनिध्यविशेषात्तुल्यो भोगः स्यान्न चेन्नैकस्यापि । स्वकर्मार्जिते देहे भोगो नान्यत्रेति चेद्द्वयमपि तथैवाभिदधीमहीत्याह —
सर्वेति ।
ब्रह्मणो भोक्त्रभिन्नत्वाद्भोक्तृतेत्युक्तमनुभाषते —
यदपीति ।
तत्र प्रतिज्ञैवायुक्तेत्याह —
अत्रेति ।
तदयुक्तिं वक्तुं पृच्छति —
इदमिति ।
किमेकत्वमज्ञातं ज्ञातं वा । आद्ये हेत्वसिद्धिः । द्वितीये तद्धीर्मदुक्तेः शास्त्राद्वेति प्रश्नमेव प्रकटयति —
कथमिति ।
अन्त्यमादत्ते —
तत्त्वमिति ।
शास्त्रानुसरणे तदतिक्रमणमयुक्तमित्याह —
यथेति ।
नहि कुक्कुटादेरेकदेशो भोगाय पच्यत एकदेशस्तु प्रसवाय कल्प्यते, विरोधादित्याह —
नेति ।
ऐक्यं बोधयदपि शास्त्रं न संसारं वारयति । तत्कथमर्धजरतीयप्रसक्तिरित्याशङ्क्याह —
शास्त्रं चेति ।
संसारिणो ब्रह्मणैक्यबोधनायोगाज्जीवस्य संसारित्वनिरासद्वारा शास्त्रमैक्यं बोधयति, अशोधितपदार्थस्य वाक्यार्थज्ञानाभावादित्यर्थः ।
त्वदुक्तेरैक्यं ज्ञातं न शास्त्रादिति द्वितीयमुत्थापयति —
अथेति ।
तत्र वास्तवे भोक्तृत्वे साध्ये साध्यवैकल्यं, अवास्तवे सिद्धसाध्यतेति मत्वाह —
तदेति ।
तदेव दृष्टान्तेनाह —
नहीति ।
तत्र सूत्रभागमवतार्य योजयति —
तदाहेति ।
तयोर्विशेषेऽपि कथं ब्रह्मणि वस्तुतो भोगाभावः, तत्राह —
नचेति ।
हेतुद्वयनिरासमुपसंहरति —
तस्मान्नेति ।
मनोमयत्वादिविशिष्टस्यैवेश्वरस्य ध्यानार्थं हार्दत्वेऽपि निर्दोषत्वात्तस्मिन्नेव शाण्डिल्यविद्यावेद्ये ‘सर्वम्’ इत्यादिवाक्यं समन्वितमित्यर्थः ॥ ८ ॥