ईश्वरस्याभोक्तृत्वे नात्तृत्वमपीत्याशङ्क्याह —
अत्तेति ।
उदाहरति —
कठेति ।
यस्य परस्यात्मनो ब्रह्म च क्षत्रं चोभे जाती प्रसिद्धान्नवदोदनौ भवतः, यस्य मृत्युः सर्वमारकः सन्नुपसेचनमोदनमिश्रघृतवत्तिष्ठति, यत्र सोऽत्ता कारणात्मा वर्तते, तं निर्विशेषमात्मानं ‘नाविरतो दुश्चरितात्’ इतिमन्त्रोक्तोपायवान्यथा वेदेत्थमन्यस्तद्रहितो न वेदेत्यर्थः ।
अत्तुरत्राश्रवणान्न सूत्रानुसारितेत्याशङ्क्याह —
अत्रेति ।
सिद्धेऽत्तरि विचारमूलं संशयमाह —
तत्रेति ।
विशेषानवधारणोत्थः संशयस्त्रिष्वेव कथं नियम्यते, तत्राह —
त्रयाणामिति ।
‘स त्वमग्निम्’ इत्यादिरग्नेः, ‘येयं प्रेते विचिकित्सा’ इत्यादिर्जीवस्य, ‘अन्यत्र धर्मात्’ इत्यादिर्ब्रह्मणः प्रश्नः । प्रतिवचनमपि ‘लोकादिमग्निम्’ इत्याद्यग्नेः, ‘हन्त त इदम् ‘ इत्यादीतरयोरेवं त्रयाणामेव तयोरिहोपलब्धेस्त्रिष्त्रेव संशयः, विशेषानुपलब्धेरित्यर्थः ।
पठितकठश्रुतेर्निर्विशेषब्रह्मणि समन्वयोक्त्या श्रुत्यादिसङ्गतिं गृहीत्वा पूर्वपक्षयति —
किं तावदिति ।
पूर्वपक्षेऽग्नेर्जीवस्य वोपास्तिः, सिद्धान्ते निर्विशेषवस्तुधीरिति फलम् ।
विशेषेऽनवधृते कुतोऽवधृतिरित्याह —
कुत इति ।
'अग्निरन्नादोऽन्नपतिः’ इति श्रुतेः, अग्नेरन्नादत्वप्रसिद्धेश्च विशेषधीरित्याह —
अग्निरिति ।
अग्न्यधिकारमतिक्रम्याध्यात्माधिकारे तदुक्त्ययोगात् , ओदनशब्दस्य च भोग्यत्वगुणाद्ब्रह्मक्षत्रवृत्तेर्भोक्तृगमकत्वात् , अग्नेश्च संहर्तृत्वेऽपि भोक्तृत्वाभावान्नाग्न्युपास्तिरिहेत्यपरितोषादाह —
जीवो वेति ।
ओदनशब्देन कर्मफलोक्तेर्मृत्युशब्दस्य तदनुगुणत्वात् ‘न जायते’ इत्यादेश्च जीवे योगात्तदुपास्तिरत्रेति भावः ।
ओदनशब्देन ब्रह्मक्षत्त्रवृत्तिना जगल्लक्षणात्तत्संहर्तृत्वस्य परस्मिन्प्रसिद्धेस्तद्धीरेवात्रेष्टेत्याशङ्क्याह —
नेति ।
श्रुतिलक्षणाविषये श्रुतेर्न्याय्यत्वादोदनशब्दस्य भोग्यार्थत्वात् , ब्रह्मक्षत्रयोश्च भोग्यत्वात् , भोक्तृत्वस्य परस्मिन्वारितत्वान्न तत्परतेत्यर्थः ।
पूर्वपक्षमनूद्य सिद्धन्तयति —
एवमिति ।