ब्रह्मसूत्रभाष्यम्
प्रथमोऽध्यायः द्वितीयः पादः
न्यायनिर्णयव्याख्या
 
अत्ता चराचरग्रहणात् ॥ ९ ॥
अत्तात्र परमात्मा भवितुमर्हतिकुतः ? चराचरग्रहणात्चराचरं हि स्थावरजङ्गमं मृत्यूपसेचनमिहाद्यत्वेन प्रतीयतेतादृशस्य चाद्यस्य परमात्मनोऽन्यः कार्त्स्न्येनात्ता सम्भवतिपरमात्मा तु विकारजातं संहरन्सर्वमत्तीत्युपपद्यतेनन्विह चराचरग्रहणं नोपलभ्यते, कथं सिद्धवच्चराचरग्रहणं हेतुत्वेनोपादीयते ? नैष दोषः, मृत्यूपसेचनत्वेनेहाद्यत्वेन सर्वस्य प्राणिनिकायस्य प्रतीयमानत्वात् , ब्रह्मक्षत्रयोश्च प्राधान्यात्प्रदर्शनार्थत्वोपपत्तेःयत्तु परमात्मनोऽपि नात्तृत्वं सम्भवतिअनश्नन्नन्योऽभिचाकशीतिइति दर्शनादिति, अत्रोच्यतेकर्मफलभोगस्य प्रतिषेधकमेतद्दर्शनम् , तस्य सन्निहितत्वात् विकारसंहारस्य प्रतिषेधकम् , सर्ववेदान्तेषु सृष्टिस्थितिसंहारकारणत्वेन ब्रह्मणः प्रसिद्धत्वात्तस्मात्परमात्मैवेहात्ता भवितुमर्हति ॥ ९ ॥

साधिते जीवपक्षे परस्मिन्को हेतुरिति पृच्छति —

कुत इति ।

हेतुमुक्त्वा व्याचष्टे —

चरेति ।

तदत्तृत्वस्यान्यथासिद्धिं निराह —

तादृशस्येति ।

हेतोः पक्षधर्मतामाह —

परमेति ।

ब्रह्मक्षत्त्रयोरेव मृत्यूपसेचनयोरत्र दृष्टेरसिद्धो हेतुरिति शङ्कते —

नन्विति ।

ओदनशब्देन ब्रह्मक्षत्त्रवृत्तिना मृत्यूपसेचनसंनिधानादोदनस्थं नाश्यत्वमाश्रित्य ब्रह्मक्षत्त्रशब्दाभ्यां जगल्लक्ष्यते, तेन तन्नाशकत्वलिङ्गाद्ब्रह्मात्र भातीत्याह —

नैष इति ।

निषेधश्रुत्या परस्य नात्तृतेत्युक्तमनूद्य तस्य गतिमाह —

यत्त्विति ।

तयोरित्यादिना कर्मफलभोगस्य पूर्वोक्तं संनिहितत्वम् ।

अविशेषेण विकारसंहारस्यापि किमित्येतन्न निषेधकं, सर्ववेदान्तविरोधादित्याह —

नेत्यादिना ।

लैङ्गिकमर्थमुपसंहरति —

तस्मादिति ॥ ९ ॥