ब्रह्मसूत्रभाष्यम्
प्रथमोऽध्यायः द्वितीयः पादः
न्यायनिर्णयव्याख्या
 
प्रकरणाच्च ॥ १० ॥
इतश्च परमात्मैवेहात्ता भवितुमर्हति; यत्कारणं प्रकरणमिदं परमात्मनः जायते म्रियते वा विपश्चित्’ (क. उ. १ । २ । १८) इत्यादिप्रकृतग्रहणं न्याय्यम् । ‘ इत्था वेद यत्र सःइति दुर्विज्ञानत्वं परमात्मलिङ्गम् ॥ १० ॥

परमात्मैवात्तेत्यत्र मानान्तरमाह —

प्रकरणाच्चेति ।

सूत्रं व्याचष्टे —

इतश्चेति ।

प्रकृतत्वमप्रयोजकमित्याशङ्क्योक्तम् —

प्रकृतेति ।

न्याय्यम् । अप्रकृतग्रहादिति शेषः ।

इतश्च परमात्मैवात्तेत्याह —

क इति ।

‘यस्य’ इत्यादि वाक्यं ज्ञेये परमात्मनि मायाद्वारा सर्वसंहर्तर्यन्वितमित्यर्थः ॥ १० ॥