पूर्वोदाहृतान्तरमन्त्रार्थनिर्णयार्थमाह —
गुहामिति ।
सङ्गतिं वदन्विषयमाह —
कठेति ।
ऋतं सत्यमावश्यकं कर्मफलं पिबन्तौ भुञ्जानौ, सुकृतस्य लोके सम्यगर्जितस्यादृष्टस्य कार्ये देहे वर्तमानौ, परस्य ब्रह्मणोऽर्धं स्थानमर्हतीति परार्धं हृदयं तस्मिन्परमे श्रेष्ठे या गुहा नभोलक्षणा तां प्रविश्य स्थितौ, छायातपवन्मिथो विरुद्धौ, तौ च ब्रह्मविदः कर्मिणश्च वदन्ति । त्रिर्नाचिकेतोऽग्निश्चितौ यैस्ते त्रिणाचिकेताः, तेऽपि वदन्तीत्यर्थः ।
बुद्ध्यवच्छिन्नस्य जीवस्य परस्य च प्रकृतत्वादृतपानकर्तृत्वस्य जीवेन सह बुद्धेरिव परस्यापि छत्रिन्यायेन लाक्षणिकत्वाविशेषाच्च संशयमाह —
तत्रेति ।
वाक्यभेदशङ्कां परिहरन्पूर्वपक्षे फलमाह —
यदीति ।
प्रकृतं प्रतिपाद्यं कुतो जीवस्तथेति, तत्राह —
तदपीति ।
जीवतत्त्वं तदर्थः । प्रकरणं सप्तम्यर्थः । मनुष्ये प्रेते मृते सति येयं विचिकित्सा संशयः परलोकभोक्तास्तीत्येके नास्तीति चान्ये त्वयोपदिष्टोऽहमेतत्तत्त्वं ज्ञातुमिच्छामीत्यर्थः । वराणां पितुः सौमनस्यमग्निविद्यात्मविद्येत्येतेषामिति निर्धारणे षष्ठी ।
सिद्धन्तेऽपि वाक्यभेदं वारयन्फलमाह —
अथेत्यादिना ।
जीवविलक्षणस्य ब्रह्मणोऽप्रकृतत्वात्कथं प्रतिपाद्यतेत्याशङ्क्याह —
तदपीति ।
परमात्मस्वरूपं तदित्युक्तम् —
अन्यत्रेति ।
अन्यदिति यावत् । कृताकृतात्कारणात्कार्याच्चेत्यर्थः । चकाराभ्यां भवतो ग्रहणम् ।
उभयोर्भोक्तृत्वायोगेन संशयमाक्षिपति —
अत्रेति ।
प्रकृतत्वात्तदुपपत्तौ तदसम्भावना नास्तीत्याह —
कस्मादिति ।
पक्षयोरसम्भावनां वक्तुमृतपानशब्दार्थमाह —
ऋतेति ।
तत्कर्त्रोर्देहयोगदृष्टेरिति हेतुमाह —
सुकृतस्येति ।
तथापि कथं पक्षयोरनुपपत्तिरित्याशङ्क्य पूर्वपक्षानुपपत्तिमाह —
तच्चेतनस्येति ।
अस्तु जीवस्यैव चेतनात्वादृतपानं मा वाऽचेतनाया बुद्धेर्भूत्तथापि का क्षतिः, तत्राह —
पिबन्ताविति ।
जीवस्यैव पातृत्वं न बुद्धेरिति स्थिते फलितमाह —
अत इति ।
द्वयोरुक्तं पानायोगं हेतूकृत्य सिद्धान्तयोगमाह —
अत एवेति ।
बुद्धेरचैतन्यात्पानायोगेऽपि परस्य चैतन्यात्तद्योगमाशङ्क्याह —
चेतनेऽपीति ।
संशयायोगादधिकरणाक्षेपमनूद्य परिहरति —
अत्रेति ।
किं पक्षद्वयं कथञ्चिदपि नोपपद्यते किंवा कथञ्चिद्योगेऽपि सम्यक्पक्षान्तरमस्ति । नाद्य इत्याह —
नैष इति ।
सिद्धान्तोपपत्तिं विधान्तरेणाह —
यद्वेति ।
तथापि कथं पिबन्ताविति द्विवचनं, तत्राह —
पाययन्निति ।
प्रधानकर्तरि प्रयोगो गुणकर्तरि कथमित्याशङ्क्याह —
पाचयितरीति ।
यः कारयति स करोत्येवेति न्यायादित्यर्थः ।
पूर्वपक्षेऽपि द्विवचनोपपत्तिमाह —
बुद्धीति ।
सम्भवति द्विवचनमिति शेषः ।
कर्तरि यो व्यपदेशः स कथं करणे स्यात् , तत्राह —
एधांसीति ।
कथञ्चिदुपपत्तिं पक्षयोरुक्त्वा द्वितीयं निराह —
नचेति ।
पक्षद्वयं सम्भाव्याधिकरणारम्भमुपसंहरति —
तस्मादिति ।