ब्रह्मसूत्रभाष्यम्
प्रथमोऽध्यायः द्वितीयः पादः
न्यायनिर्णयव्याख्या
 
गुहां प्रविष्टावात्मानौ हि तद्दर्शनात् ॥ ११ ॥
किं तावत्प्राप्तम् ? बुद्धिक्षेत्रज्ञावितिकुतः ? ‘गुहां प्रविष्टौइति विशेषणात्यदि शरीरं गुहा, यदि वा हृदयम् , उभयथापि बुद्धिक्षेत्रज्ञौ गुहां प्रविष्टावुपपद्येते सति सम्भवे सर्वगतस्य ब्रह्मणो विशिष्टदेशत्वं युक्तं कल्पयितुम् । ‘सुकृतस्य लोकेइति कर्मगोचरानतिक्रमं दर्शयतिपरमात्मा तु सुकृतस्य वा दुष्कृतस्य वा गोचरे वर्तते, कर्मणा वर्धते नो कनीयान्’ (बृ. उ. ४ । ४ । २३) इति श्रुतेः । ‘छायातपौइति चेतनाचेतनयोर्निर्देश उपपद्यते, छायातपवत्परस्परविलक्षणत्वात्तस्माद्बुद्धिक्षेत्रज्ञाविहोच्येयातामित्येवं प्राप्ते ब्रूमः

ब्रह्मक्षत्त्रशब्दस्य संनिहितमृत्युपदादनित्यवस्तुपरत्ववदिहापि पिबच्छब्दस्य संनिहितगुहाप्रवेशादिना बुद्धिक्षेत्रज्ञपरतेति विमृश्य पूर्वपक्षयति —

किं तावदिति ।

ऋतमिति श्रुतेनिर्विशेषे ब्रह्मण्यन्वयोक्तेः श्रुत्यादिसङ्गतयः ।

परस्यापि प्रकृतत्वाज्जीवाद्द्वितीयत्वं किं न स्यादित्याह —

कुत इति ।

सूत्रावयवेनोत्तरम् —

गुहामिति ।

हेतुमेव स्फुटयति —

यदीति ।

जीवाद्द्वितीयं ब्रह्मैव गुहां प्रविष्टं ‘यो वेद निहितं गुहायाम् ‘ इति श्रुतेरित्याशङ्क्याह —

नचेति ।

इतश्च न ब्रह्म गुहां प्रविष्टमित्याह —

सुकृतस्येति ।

ब्रह्मणोऽपि सुकृतलोकवर्तित्वमाशङ्क्याह —

परमात्मेति ।

पूर्वपक्षे हेत्वन्तरमाह —

छायेति ।

बु्द्धेर्द्वितीयजीवज्ञानार्थं वाक्यमित्युपसंहरति —

तस्मादिति ।

सिद्धान्तसूत्रमादायात्मानाविति प्रतिज्ञां व्याकरोति —

एवमिति ।

इहेति प्रकृतमन्त्रोक्तिः ।