पूर्णतया प्रवेशानर्हं ब्रह्म कुतोऽद्वितीयं जीवस्येत्याह —
कस्मादिति ।
हीत्युक्तं हेतुमाह —
आत्मानौ हीति ।
चेतनत्वेन समन्वयाज्जीवे पातरि सिद्धे द्वितीयत्वेन परस्यादानं युक्तमित्यर्थः ।
तत्र किं नियामकमित्याशङ्क्य तद्दर्शनादिति व्याचष्टे —
सङ्ख्येति ।
लौकिकीं दृष्टिमेव दृष्टान्तेनाह —
अस्येति ।
एकस्य चेतनत्वे द्वितीयस्यापि तद्धीः, तदेवासिद्धमित्याशङ्क्याह —
तदिति ।
तत्तत्रेत्थं लौकिकदर्शने सतीति यावत् । इहेति वाक्योक्तिः ।
सम्प्रतिपन्नां जातिमुपजीव्य निर्विशेषान्तरग्रहे बुद्धिलाघवाद्विजातीयग्रहे तद्गौरवात्परमात्मैव द्वितीयो जीवस्येति सूचयति —
समानेति ।
कारकत्वेन बुद्धेरपि जीवसाम्यमाशङ्क्य तस्य बहिरङ्ग्त्वाच्चेतनस्य स्वभावत्वेनान्तरङ्गत्वान्मैवमित्याह —
चेतन इति ।
बहिरङ्गमपि कारकत्वमेव ग्राह्यं, गुहाहितत्वलिङ्गादिति शङ्कते —
नन्विति ।
तत्रापि तद्दर्शनादित्युत्तरमाह —
गुहेति ।
तदेव स्फुटयति —
गुहेत्यादिना ।
परस्मिन्गुहाहितत्वोक्तेस्तात्पर्यं वक्तुमसकृदित्युक्तम् । गुहायां बुद्धावाहितं निक्षिप्तं गह्वरे बहुविधानर्थसङ्कटे देहे स्थितं पुराणं चिरन्तनं परं विदित्वा हर्षादि जहातीति सम्बन्धः । परमे बाह्याकाशापेक्षया प्रकृष्टे व्योमन्यन्तःकरणावच्छिन्ने भूताकाशे निहितं परं यो वेद सोऽश्नुते सर्वान्कामानिति सम्बन्धः । अन्विच्छ विचार्य निर्धारयेत्यर्थः । प्रवेशवाक्यसङ्ग्रहार्थमादिपदम् ।
यत्तु सर्वगतस्य ब्रह्मणो न विशिष्टदेशतेति, तत्राह —
सर्वेति ।
यत्तु परस्य न सुकृतलोकवर्तितेति, तत्राह —
सुकृतेति ।
यदपि छायातपाविति चेतनाचेतनोक्तिरिति, तत्राह —
छायेति ।
तद्वैलक्षण्ये तद्वतोरपि तत्सिद्धिरिति हेतुं साधयति —
अविद्येति ।
प्रथमश्रुतचेतनत्ववशाच्चरमश्रुतं गुहाप्रवेशादि नेयमित्युपसंहरति —
तस्मादिति ॥ ११ ॥