जीवस्य मनोमयत्वादिगुणत्वाभावे हेत्वन्तरम् —
कर्मेति ।
पूर्वसूत्रान्नेत्याद्याकृष्य चशब्दार्थमाह —
इतश्चेति ।
प्राप्यप्रापकत्वेन कर्मकर्तृव्यपदेशं विशदयति —
एतमिति ।
वाक्यं व्याकरोति —
एतमित्यादिना ।
प्रापकत्वेन व्यपदिशतीति सम्बन्धः ।
मामहं जानामीतिवद्व्यपदेशमाशङ्क्याह —
नचेति ।
कर्मकर्तृव्यपदेशे सूत्राभिप्रेतं प्रकारान्तरमाह —
उपास्येति ।
उक्तव्यपदेशफलमाह —
तस्मादिति ॥ ४ ॥