तत्रैव हेत्वन्तरमाह —
शब्देति ।
सूत्रे हेत्वन्तरद्योतकाभावमाशङ्क्य पूर्वसूत्रस्थं चशब्दमाकृष्य व्याकरोति —
इतश्चेति ।
समानप्रकरणत्वमेकविद्याविषयत्वम् । अन्तरात्मन्निति छान्दसो विभक्तिलोपः ।
शब्दभेदफलमाह —
तस्मादिति ॥ ५ ॥