ब्रह्मसूत्रभाष्यम्
प्रथमोऽध्यायः द्वितीयः पादः
न्यायनिर्णयव्याख्या
 
विशेषणाच्च ॥ १२ ॥
विशेषणं विज्ञानात्मपरमात्मनोरेव भवतिआत्मानं रथिनं विद्धि शरीरं रथमेव तु’ (क. उ. १ । ३ । ३) इत्यादिना परेण ग्रन्थेन रथिरथादिरूपककल्पनया विज्ञानात्मानं रथिनं संसारमोक्षयोर्गन्तारं कल्पयतिसोऽध्वनः पारमाप्नोति तद्विष्णोः परमं पदम्’ (क. उ. १ । ३ । ९) इति च परमात्मानं गन्तव्यं कल्पयतितथा तं दुर्दर्शं गूढमनुप्रविष्टं गुहाहितं गह्वरेष्ठं पुराणम्अध्यात्मयोगाधिगमेन देवं मत्वा धीरो हर्षशोकौ जहाति’ (क. उ. १ । २ । १२) इति पूर्वस्मिन्नपि ग्रन्थे मन्तृमन्तव्यत्वेनैतावेव विशेषितौप्रकरणं चेदं परमात्मनः । ‘ब्रह्मविदो वदन्तिइति वक्तृविशेषोपादानं परमात्मपरिग्रहे घटतेतस्मादिह जीवपरमात्मानावुच्येयाताम्एष एव न्यायः द्वा सुपर्णा सयुजा सखाया’ (मु. उ. ३ । १ । १) इत्येवमादिष्वपितत्रापि ह्यध्यात्माधिकारान्न प्राकृतौ सुपर्णावुच्येते । ‘तयोरन्यः पिप्पलं स्वाद्वत्तिइत्यदनलिङ्गाद्विज्ञानात्मा भवतिअनश्नन्नन्योऽभिचाकशीति’ (मु. उ. ३ । १ । १) इत्यनशनचेतनत्वाभ्यां परमात्माअनन्तरे मन्त्रे तावेव द्रष्टृद्रष्टव्यभावेन विशिनष्टिसमाने वृक्षे पुरुषो निमग्नोऽनीशया शोचति मुह्यमानःजुष्टं यदा पश्यत्यन्यमीशमस्य महिमानमिति वीतशोकः’ (मु. उ. ३ । १ । २) इति

परमात्मासाधारणलिङ्गपरं सूत्रं व्याचष्टे —

विशेषणं चेति ।

न बुद्धिजीवयोरित्येवकारार्थः ।

जीवविशेषणं विशदयति —

आत्मानमिति ।

रथित्वकल्पनाफलं सूच्यते —

संसारेति ।

परस्य विशेषणमाह —

स इति ।

जीवः सर्वनामार्थः । अध्वनः संसारमार्गस्य ।

पारमेव विशिनष्टि —

तदिति ।

व्यापनशीलस्य ब्रह्मणः स्वरूपं तदित्यर्थः । परमं कार्यकारणातीतं पदं तदेव ज्ञेयं नान्यदित्यर्थः ।

किञ्चोत्तरवाक्यवत्पूर्वमपि जीवेश्वरयोरेव विशेषणादृतपानवाक्ये जीवद्वितीयत्वमीशस्यैवेत्याह —

तथेति ।

दुर्दर्शं सूक्ष्मत्वाद्दुर्ज्ञानं तत एव गूढमनुप्रविष्टं गहनतां गतमीश्वरं, अध्यात्मयोगः प्रत्यगात्मन्येव चित्तसमाधानं तत्सहकृताद्वाक्यादधिगमो ब्रह्मात्मैक्यव्यञ्जकचित्तवृत्तिविशेषस्तेनाहमेवेति निश्चित्य धीरो विद्वान्हर्षाद्युपलक्षितं संसारं त्यजतीत्यर्थः ।

चकारसूचितमर्थमाह —

प्रकरणं चेति ।

नच पृष्टत्वाविशेषाज्जीवस्यापीदं प्रकरणं, तस्य ब्रह्मत्वेन प्रतिपाद्यत्वादविरोधादिति भावः ।

जीवद्वितीयत्वं परस्यैवेत्यत्र हेत्वन्तरमाह —

ब्रह्मेति ।

ब्रह्मपक्षे हेतुबाहुल्यात् ‘ऋतं पिबन्तौ’ इत्यत्र जीवानुवादेन तदतिरिक्तो वाक्यार्थान्वयितदर्थशोधनाय परात्मा प्रतिपाद्यत इत्युपसंहरति —

तस्मदिति ।

उक्तन्यायमन्यत्र सञ्चारयति —

एष इति ।

‘द्वा सुपर्णा’ इत्यादौ सर्वत्र द्विवचनस्याकारश्छान्दसः । द्वौ सुपर्णाविव सहैव युज्येते नियम्यनियामकत्वेनेति सयुजौ, सखायौ चेतनत्वेन समानस्वभावौ, समानं नियम्यत्वेन तुल्यं वृक्षं छेदनयोग्यं शरीरं, परिषस्वजाते समाश्रितावित्यर्थः ।

पक्षिणौ कौचिदत्र प्रतीयेते न जीवेशौ ततो नेदमुदाहरणं, तत्राह —

तत्रेति ।

तदनेन ‘गुहां प्रविष्टौ’ इति व्याख्यातम् ।

आत्मानौ हीति व्याचष्टे —

तयोरिति ।

तद्दर्शनादित्युभयोर्लिङ्गदर्शनादिति व्याख्येयम् ।

विशेषणाच्चेति व्याकरोति —

अनन्तरे चेति ।

आत्मेश्वरयोस्तुल्यो वृक्षो देहस्तस्मिञ्जीवो मनुष्योऽहमित्यभिनिवेशवाननीशयाऽविद्यया मुह्यमानस्तत्त्वमजानन्ननिशं शोचति संसारमनुभवति । जुष्टं ध्यानादिना सेवितं यदा तत्प्रकर्षदशायामन्यं बिम्बभूतमीशशब्दलक्ष्यं प्रत्यक्त्वेन पश्यति तदास्यैवात्मत्वेन दृष्टस्य महिमानं स्वरूपं प्राप्नोति । ततश्च वीतशोको विगतसंसारो भवति, तत्र हेतुरितिशब्देनोक्तः, बन्धहेत्वविद्यादेर्ज्ञानाग्निना दग्धत्वादित्यर्थः । नचात्र जीवोक्तौ ‘अनश्नन् ‘ इत्ययोगात् , बुद्धिग्रहे च ‘अभिचाकशीति ‘ इत्यसम्भवात्पूर्वपक्षासिद्धिः, करणे कर्तृत्वोपचारादभिचाकशीतीति बुद्धावपि सिद्धत्वात् , जीवे चैतन्यमात्रादनशनसम्भवात् , मुख्ये कर्तृत्वे सम्भवति कर्तृत्वोपचारो नेति सिद्धान्ताभिप्रायः ।