ब्रह्मसूत्रभाष्यम्
प्रथमोऽध्यायः द्वितीयः पादः
न्यायनिर्णयव्याख्या
 
विशेषणाच्च ॥ १२ ॥
अपर आह — ‘द्वा सुपर्णाइति नेयमृगस्याधिकरणस्य सिद्धान्तं भजते, पैङ्गिरहस्यब्राह्मणेनान्यथा व्याख्यातत्वात् — ‘तयोरन्यः पिप्पलं स्वाद्वत्तीति सत्त्वमनश्नन्नन्योऽभिचाकशीतीत्यनश्नन्नन्योऽभिपश्यति ज्ञस्तावेतौ सत्त्वक्षेत्रज्ञौइतिसत्त्वशब्दो जीवः क्षेत्रज्ञशब्दः परमात्मेति यदुच्यते, तन्न; सत्त्वक्षेत्रज्ञशब्दयोरन्तःकरणशारीरपरतया प्रसिद्धत्वात्तत्रैव व्याख्यातत्वात् — ‘तदेतत्सत्त्वं येन स्वप्नं पश्यति, अथ योऽयं शारीर उपद्रष्टा क्षेत्रज्ञस्तावेतौ सत्त्वक्षेत्रज्ञौइतिनाप्यस्याधिकरणस्य पूर्वपक्षं भजते ह्यत्र शारीरः क्षेत्रज्ञः कर्तृत्वभोक्तृत्वादिना संसारधर्मेणोपेतो विवक्ष्यतेकथं तर्हि ? सर्वसंसारधर्मातीतो ब्रह्मस्वभावश्चैतन्यमात्रस्वरूपः; ‘अनश्नन्नन्योऽभिचाकशीतीत्यनश्नन्नन्योऽभिपश्यति ज्ञःइति वचनात् , ‘तत्त्वमसिक्षेत्रज्ञं चापि मां विद्धि’ (भ. गी. १३ । २) इत्यादिश्रुतिस्मृतिभ्यश्चतावता विद्योपसंहारदर्शनमेवमेवावकल्पते, ‘तावेतौ सत्त्वक्षेत्रज्ञौ वा एवंविदि किञ्चन रज आध्वंसतेइत्यादिकथं पुनरस्मिन्पक्षेतयोरन्यः पिप्पलं स्वाद्वत्तीति सत्त्वम्इत्यचेतने सत्त्वे भोक्तृत्ववचनमिति, उच्यतेनेयं श्रुतिरचेतनस्य सत्त्वस्य भोक्तृत्वं वक्ष्यामीति प्रवृत्ता; किं तर्हि ? चेतनस्य क्षेत्रज्ञस्याभोक्तृत्वं ब्रह्मस्वभावतां वक्ष्यामीतितदर्थं सुखादिविक्रियावति सत्त्वे भोक्तृत्वमध्यारोपयतिइदं हि कर्तृत्वं भोक्तृत्वं सत्त्वक्षेत्रज्ञयोरितरेतरस्वभावाविवेककृतं कल्प्यतेपरमार्थतस्तु नान्यतरस्यापि सम्भवति, अचेतनत्वात्सत्त्वस्य, अविक्रियत्वाच्च क्षेत्रज्ञस्यअविद्याप्रत्युपस्थापितस्वभावत्वाच्च सत्त्वस्य सुतरां सम्भवतितथा श्रुतिःयत्र वा अन्यदिव स्यात्तत्रान्योऽन्यत्पश्येत्’ (बृ. उ. ४ । ५ । १५) इत्यादिना स्वप्नदृष्टहस्त्यादिव्यवहारवदविद्याविषय एव कर्तृत्वादिव्यवहारं दर्शयतियत्र त्वस्य सर्वमात्मैवाभूत्तत्केन कं पश्येत्’ (बृ. उ. ४ । ५ । १५) इत्यादिना विवेकिनः कर्तृत्वादिव्यवहाराभवं दर्शयति ॥ १२ ॥

कृत्वाचिन्तया ‘द्वा सुपर्णो ‘ इत्यादेरेतदधिकरणोदाहरणत्वमुक्त्वा कृत्वाचिन्तामुद्धाटयति —

अपर इति ।

अन्यथा सिद्धान्ताननुगुणत्वेनेति यावत् । सत्त्वमिति बुद्धिरुक्ता ।

सिद्धान्तार्थ व्याचष्टे ब्राह्मणमिति शङ्कते —

सत्वेति ।

प्रसिद्ध्या प्रत्याह —

तन्नेति ।

ब्राह्मणविरोधाच्च न तदन्यथा व्याख्येयमित्याह —

तत्रैवेति ।

प्रकृतं ब्राह्मणं सप्तम्यर्थः । सत्त्वव्याख्यानानन्तर्यमथशब्दार्थः । सत्त्वस्य करणत्वात्क्षेत्रज्ञस्य कर्तृत्वान्न तयोरैक्यमित्यर्थः । तावेतौ करणत्वेन कर्तृत्वेन च भिन्नावित्यर्थः ।

सिद्धान्ताभजनेऽपि पूर्वपक्षमृगेषा भजेतेत्याशङ्क्याह —

नापीति ।

द्वितीयस्य ब्रह्मरूपेणैव प्रतिपादनादिति हेतुमाह —

न हीति ।

अत्रेति मन्त्रब्राह्मणोक्तिः ।

नचायं वाक्यार्थो न युक्तः, श्रुतिस्मृतिसिद्धत्वादित्याह —

तत्त्वमिति ।

इतश्च जीवस्य ब्रह्मत्वदृष्टिरत्रेष्टेत्याह —

तावतेति ।

मन्त्रव्याख्यामात्रेण विद्योपसंहारदर्शनं जीवस्य ब्रह्मत्वोपदेशे घटते न सत्त्वक्षेत्रज्ञविवेकमात्रेण, भेदधियो मिथ्याधीत्वादित्यर्थः ।

अविद्याध्वस्तिफलोक्तिरपि ब्रह्मात्मताज्ञानमिह गमयतीत्याह —

न हेति ।

जीवस्य ब्रह्मत्वोक्तिपरमिदं वाक्यमित्यत्र शङ्कते —

कथमिति ।

बुद्धेर्भोक्तृत्वोक्तावतात्पर्यान्न तत्रोपपत्तिरन्वेष्येत्याह —

उच्यत इति ।

क्व तर्हि श्रुतेस्तात्पर्यं, तत्राह —

किं तर्हीति ।

इतिपदं प्रवृत्तेतिपूर्वेण सम्बध्यते ।

का तर्हि बुद्धेर्भोक्तृत्वधियो गतिः, तत्राह —

तदर्थमिति ।

जीवस्य ब्रह्मत्वसिद्ध्यर्थमिति यावत् ।

चैतन्यच्छायापन्ना धीः सुखादिना परिणमते, तत्र पुरुषोऽपि भोक्तृत्वमिवानुभवति न तत्त्वत इति वक्तुमध्यारोपयतीत्युक्तम् । कुत्रत्यं भोक्तृत्वं बुद्धावारोप्यते तत्राह —

इदं हीति ।

नहि भ्रान्तेरभ्रान्तिपूर्वकत्वं दण्डस्याप्सु वक्रतावदित्युक्तम् —

परमार्थतस्त्विति ।

सत्त्वस्य वस्तुतो भोक्तृत्वाभावे हेत्वन्तरम् —

अविद्येति ।

मिथ्याभोक्तृत्वे मानमाह —

तथाचेति ।

यत्र यस्यामविद्यावस्थायाम् । वैशब्दो निश्चयार्थः । अन्यदिवाभासभूतं नानात्वं दृष्टं स्यात् , तत्र आविद्यकबुद्ध्यादिसम्बन्धादन्यो भूत्वाऽन्यच्चक्षुषा पश्येदन्यच्च श्रोत्रेण शृणुयादित्यर्थः ।

उक्तवाक्यतात्पर्यमाह —

स्वप्नेति ।

वस्तुतो भोक्तृत्वाभावे श्रुतिमाह —

यत्र त्विति ।

यस्यां विद्यावस्थायामस्य विदुषः सर्वं पूर्णं ब्रह्मैवाभूत्तत्राविद्याक्षये भेदभ्रमाभावादारब्धकर्मणा कार्यकरणव्यापारेऽपि स्वगतव्यापारानभिमानात्केन करणेन कः कर्ता पश्येदित्याक्षेपः ।

अनेनापि वाक्येन श्रुत्युक्तमर्थमाह —

विवेकिन इति ।

एवं जीवस्य भोक्तृत्वादेर्मिथ्यात्वात्तदपोहेन तस्य ब्रह्मतामाह पैङ्गिब्राह्मणमिति । पूर्वोत्तरपक्षाननुगुणत्वादनुदाहरणत्वेऽपि कृत्वाचिन्तया ‘द्वा सुपर्णा’ इत्यादीहोदाहृतम् । तच्चाप्रपञ्चे पत्यग्ब्रह्मण्यन्वितम् । ‘ऋतं पिबन्तौ ‘ इति तु जीवद्वितीये परस्मिन्निति स्थितम् ॥ १२ ॥