ब्रह्मसूत्रभाष्यम्
प्रथमोऽध्यायः द्वितीयः पादः
न्यायनिर्णयव्याख्या
 
अन्तर उपपत्तेः ॥ १३ ॥
एषोऽक्षिणि पुरुषो दृश्यत एष आत्मेति होवाचैतदमृतमभयमेतद्ब्रह्मेतितद्यद्यप्यस्मिन्सर्पिर्वोदकं वा सिञ्चति वर्त्मनी एव गच्छति’ (छा. उ. ४ । १५ । १) इत्यादि श्रूयतेतत्र संशयःकिमयं प्रतिबिम्बात्माक्ष्यधिकरणो निर्दिश्यते, अथ विज्ञानात्मा, उत देवतात्मेन्द्रियस्याधिष्ठाता, अथवेश्वर इतिकिं तावत्प्राप्तम् ? छायात्मा पुरुषप्रतिरूप इतिकुतः ? तस्य दृश्यमानत्वप्रसिद्धेः, ‘ एषोऽक्षिणि पुरुषो दृश्यतेइति प्रसिद्धवदुपदेशात्विज्ञानात्मनो वायं निर्देश इति युक्तम् हि चक्षुषा रूपं पश्यंश्चक्षुषि सन्निहितो भवतिआत्मशब्दश्चास्मिन्पक्षेऽनुकूलो भवतिआदित्यपुरुषो वा चक्षुषोऽनुग्राहकः प्रतीयतेरश्मिभिरेषोऽस्मिन्प्रतिष्ठितः’ (बृ. उ. ५ । ५ । २) इति श्रुतेः, अमृतत्वादीनां देवतात्मन्यपि कथञ्चित्सम्भवात्नेश्वरः, स्थानविशेषनिर्देशात्इत्येवं प्राप्ते ब्रूमः

‘पिबन्तौ’ इति द्वित्वश्रुत्या चेतनत्वेन तुल्यजीवपरदृष्ट्यनुसाराच्चरमश्रुता गुहाप्रवेशादयो नीताः । तर्हि ‘दृश्यते’ इति प्रत्यक्षत्वोक्त्या छायात्मगत्यनुरोधादमृतत्वादयः स्तुत्या कथञ्चिन्नेया इत्याशङ्क्याह —

अन्तर इति ।

उपकोसलविद्यावाक्यमुदाहरति —

य इति ।

छायां निरसितुं विशिनष्टि —

एतदिति ।

क्रियापदेनेतिपदं सम्बध्यते ।

स्थानस्य ब्रह्मानुरूप्यमाह —

तदिति ।

वर्त्मनी पक्ष्मस्थाने । ‘एतं संयद्वाम’ इत्यादि ग्रहीतुमादिपदम् ।

दर्शनस्य लौकिकत्वशास्त्रीयत्वाभ्यां संशयमाह —

तत्रेति ।

तदुक्तिसम्भावनार्थं विशिनष्टि —

अक्षीति ।

देवतां सम्भावयितुम् —

इन्द्रियस्येति ।

आत्मशब्दात्पक्षद्वयमाह —

अथेत्यादिना ।

प्रथमश्रुतवशाच्चरमश्रुतं नेयमिति पूर्वन्यायेन विमृश्य पूर्वपक्षमाह —

किमिति ।

उक्तश्रुतेः सविशेषे ब्रह्मण्यन्वयोक्तेः श्रुत्यादिसङ्गतयः । पूर्वपक्षे छायात्मोपास्तिः, ब्रह्मोपास्तिः सिद्धान्ते फलम् ।

अमृतत्वादेरयोगान्न छायात्मेति शङ्कते —

कुत इति ।

‘मनो ब्रह्म’ इत्यादिवदितिशब्दशिरस्कत्वेन वाक्यस्याविवक्षितार्थत्वं मत्वाह —

तस्येति ।

तथापि कथं छायात्मनि वामनीत्वादिकमित्याशङ्क्य चाक्षुषत्वस्यान्यत्रायोगादुपक्रमदृष्ट्या तदपि स्तुत्या नेयमित्याह —

य इति ।

प्रसिद्धवदुपदेशश्चाक्षुषत्वोक्तिरेव । चकारः शङ्कानिरासी ।

सम्भावनामात्रेण पक्षान्तरमाह —

विज्ञानेति ।

तस्य सर्वदेहसाधारण्यात्कुतोऽक्षिस्थानत्वं, तत्राह —

स हीति ।

संनिधिमात्रस्यातिप्रसङ्गित्वमाशङ्क्य हेत्वन्तरमाह —

आत्मेति ।

सम्भावितं पक्षान्तरमाह —

आदित्येति ।

तस्य चक्षुषि विशेषसंनिधिं सूचयति —

चक्षुष इति ।

तस्य तस्मिन्ननुग्राहकत्वेन संनिधौ मानमाह —

रश्मिभिरिति ।

‘एतदमृतम् ‘ इत्यादि कल्पद्वये कथं, तदाह —

अमृतत्वेति ।

जीवपक्षसङ्ग्रहार्थोऽपिशब्दः । कथञ्चिदित्यौपचारिकोक्तिः ।

तेषां मुख्यत्वासम्भवादीश्वरो गृह्यतामित्याशङ्क्य प्रथमदृष्टलिङ्गविरोधान्मैवमित्याह —

नेति ।

सुखविशिष्टब्रह्मप्रकरणं नास्तीति कृत्वाचिन्तया प्राप्तं पक्षमनुभाष्य सिद्धान्तमुत्थाप्य प्रतिज्ञार्थमाह —

एवमिति ।