ब्रह्मसूत्रभाष्यम्
प्रथमोऽध्यायः द्वितीयः पादः
न्यायनिर्णयव्याख्या
 
अन्तर उपपत्तेः ॥ १३ ॥
परमेश्वर वाक्षिण्यभ्यन्तरः पुरुष इहोपदिष्ट इतिकस्मात् ? उपपत्तेःउपपद्यते हि परमेश्वरे गुणजातमिहोपदिश्यमानम्आत्मत्वं तावन्मुख्यया वृत्त्या परमेश्वरे उपपद्यते, ‘ आत्मा तत्त्वमसिइति श्रुतेःअमृतत्वाभयत्वे तस्मिन्नसकृच्छ्रुतौ श्रूयेतेतथा परमेश्वरानुरूपमेतदक्षिस्थानम्यथा हि परमेश्वरः सर्वदोषैरलिप्तः, अपहतपाप्मत्वादिश्रवणात्; तथाक्षिस्थानं सर्वलेपरहितमुपदिष्टम्तद्यद्यप्यस्मिन्सर्पिर्वोदकं वा सिञ्चति, वर्त्मनी एव गच्छतिइति श्रुतेःसंयद्वामत्वादिगुणोपदेशश्च तस्मिन्नवकल्पतेएतं संयद्वाम इत्याचक्षतेएतं हि सर्वाणि वामान्यभिसंयन्ति’, (छा. उ. ४ । १५ । २) एष एव वामनीरे हि सर्वाणि वामानि नयति ।’ (छा. उ. ४ । १५ । ३)एष एव भामनीरे हि सर्वेषु लोकेषु भाति’ (छा. उ. ४ । १५ । ४) इति अत उपपत्तेरन्तरः परमेश्वरः ॥ १३ ॥

उक्तेषु पक्षान्तरेषु नियमासिद्धिरित्याह —

कस्मादिति ।

हेतुमादाय व्याकरोति —

उपपत्तेरिति ।

इहेत्यक्षिपुरुषोक्तिः ।

उपपत्तिमेव स्फोरयति —

आत्मत्वमिति ।

गौणमुख्ययोर्मुख्ये संप्रत्ययन्यायं सूचयति —

मुख्ययेति ।

तत्रात्मत्वस्य मुख्यत्वे गमकमाह —

स इति ।

ईश्वरपक्षे हेत्वन्तरमाह —

अमृतत्वेति ।

ईश्वरपक्षे हेत्वन्तरमाह —

तथेति ।

अमृतत्वादिवदित्यर्थः ।

आनुकूल्यमेव स्फोरयति —

यथेति ।

तत्तत्र लोके यद्यपि यदपि किञ्चिदस्मिन्नक्षिणि सर्पिर्घृतमुदकं वा सिञ्चति क्षिपति तत्सर्वं वर्त्मनी पक्ष्मस्थाने एव गच्छति तेन न लिप्यते चक्षुरित्यर्थः । इति ह स्मोपाध्यायो वदतीत्यादावितिशब्दस्योक्तार्थावच्छेदेनोक्तियोगिनोऽर्थपरत्वदृष्टेः ‘इति होवाच’ इत्यत्रापीतिशब्दस्यार्थावच्छेदेनोक्तियोगादर्थपरत्वदृष्टेः, आत्मब्रह्मश्रुतिभ्यां, अमृतत्वादिलिङ्गाच्च दृश्यत इति छायात्मलिङ्गं बाध्यमित्यर्थः ।

किञ्चोपक्रमस्थैकलिङ्गाद्वाक्यशेषस्थानेकलिङ्गानि बलवन्ति, संवादस्य तात्पर्यहेतुत्वादित्याह —

संयदिति ।

कुतोऽस्य संयद्वामत्वं, तत्राह —

एतं हीति ।

वामानि कर्मफलान्येतमक्षिपुरुषं हेतुमाश्रित्याभिसंयन्त्युत्पद्यन्ते, सर्वफलोदयहेतुरयमित्यर्थः ।

वामनीरप्ययमेव पुमानित्याह —

एष इति ।

तदुपपादयति —

एष हीति ।

वामानि शोभनानि लोकं प्रापयति । लोकस्य सर्वशुभप्रापकोऽयमित्यर्थः ।

भामनीरप्ययमेवेत्याह —

एष इति ।

भामानि भानानि सर्वत्र नयतीति भामनीः । अयमेव प्रकाशकः सर्वत्रेत्यर्थः ।

तदेव स्फुटयति —

एष हीति ।

प्रथमश्रुतस्यापि चरमश्रुतैरनेकैरन्यथयितव्यत्वमुपसंहरति —

अत इति ॥ १३ ॥