ब्रह्मसूत्रभाष्यम्
प्रथमोऽध्यायः द्वितीयः पादः
न्यायनिर्णयव्याख्या
 
स्थानादिव्यपदेशाच्च ॥ १४ ॥
कथं पुनराकाशवत्सर्वगतस्य ब्रह्मणोऽक्ष्यल्पं स्थानमुपपद्यत इति, अत्रोच्यतेभवेदेषानवकॢप्तिः, यद्येतदेवैकं स्थानमस्य निर्दिष्टं भवेत्सन्ति ह्यन्यान्यपि पृथिव्यादीनि स्थानान्यस्य निर्दिष्टानियः पृथिव्यां तिष्ठन्’ (बृ. उ. ३ । ७ । ३) इत्यादिनातेषु हि चक्षुरपि निर्दिष्टम्यश्चक्षुषि तिष्ठन्इतिस्थानादिव्यपदेशादित्यादिग्रहणेनैतद्दर्शयति केवलं स्थानमेवैकमनुचितं ब्रह्मणो निर्दिश्यमानं दृश्यतेकिं तर्हि ? नाम रूपमित्येवंजातीयकमप्यनामरूपस्य ब्रह्मणोऽनुचितं निर्दिश्यमानं दृश्यतेतस्योदिति नाम’ (छा. उ. १ । ६ । ७)हिरण्यश्मश्रुःइत्यादिनिर्गुणमपि सद्ब्रह्म नामरूपगतैर्गुणैः सगुणमुपासनार्थं तत्र तत्रोपदिश्यत इत्येतदप्युक्तमेवसर्वगतस्यापि ब्रह्मण उपलब्ध्यर्थं स्थानविशेषो विरुध्यते, सालग्राम इव विष्णोरित्येतदप्युक्तमेव ॥ १४ ॥

पूर्वपक्षबीजं दूषयति —

स्थानादीति ।

स्थानान्यादयो येषां नामरूपाणां तेषां व्यपदेसान्न परस्याक्षिस्थानत्वानुपपत्तिरिति योजना ।

यादसामम्भोधिरिव स्थानिनः स्थानं महद्दृष्टमिति शङ्कते —

कथमिति ।

व्योम्नः सूचीपाशादिवदक्ष्यादिस्थानत्वं महतोऽपि परस्य स्यादित्याह —

अत्रेति ।

एवंजातीयकशब्देन गुणजातं गृहीतम् ।

निर्गुणस्य गुणसम्बन्धोक्तिरप्ययुक्ता, तत्कथमनेकदुर्धटप्रकटनमेव समादिरित्याशङ्क्याह —

निर्गुणमिति ।

चकारार्थमाह —

सर्वेति ॥ १४ ॥