ब्रह्मसूत्रभाष्यम्
प्रथमोऽध्यायः द्वितीयः पादः
न्यायनिर्णयव्याख्या
 
सुखविशिष्टाभिधानादेव च ॥ १५ ॥
अपि नैवात्र विवदितव्यम्किं ब्रह्मास्मिन्वाक्येऽभिधीयते, वेतिसुखविशिष्टाभिधानादेव ब्रह्मत्वं सिद्धम्सुखविशिष्टं हि ब्रह्म यद्वाक्योपक्रमे प्रक्रान्तम् प्राणो ब्रह्म कं ब्रह्म खं ब्रह्म’ (छा. उ. ४ । १० । ४) इति, तदेवेहाभिहितम्; प्रकृतपरिग्रहस्य न्याय्यत्वात् , आचार्यस्तु ते गतिं वक्ता’ (छा. उ. ४ । १४ । १) इति गतिमात्राभिधानप्रतिज्ञानात्कथं पुनर्वाक्योपक्रमे सुखविशिष्टं ब्रह्म विज्ञायत इति, उच्यतेप्राणो ब्रह्म कं ब्रह्म खं ब्रह्म’ (छा. उ. ४ । १० । ४) इत्येतदग्नीनां वचनं श्रुत्वोपकोसल उवाच — ‘विजानाम्यहं यत्प्राणो ब्रह्म, कं तु खं विजानामिइतितत्रेदं प्रतिवचनम् — ‘यद्वाव कं तदेव खं यदेव खं तदेव कम्इतितत्र खंशब्दो भूताकाशे निरूढो लोकेयदि तस्य विशेषणत्वेन कंशब्दः सुखवाची नोपादीयेत, तथा सति केवले भूताकाशे ब्रह्मशब्दो नामादिष्विव प्रतीकाभिप्रायेण प्रयुक्त इति प्रतीतिः स्यात्तथा कंशब्दस्य विषयेन्द्रियसम्पर्कजनिते सामये सुखे प्रसिद्धत्वात् , यदि तस्य खंशब्दो विशेषणत्वेन नोपादीयेत; लौकिकं सुखं ब्रह्मेति प्रतीतिः स्यात्इतरेतरविशेषितौ तु कंखंशब्दौ सुखात्मकं ब्रह्म गमयतःतत्र द्वितीये ब्रह्मशब्देऽनुपादीयमानेकं खं ब्रह्मइत्येवोच्यमाने कंशब्दस्य विशेषणत्वेनैवोपयुक्तत्वात्सुखस्य गुणस्याध्येयत्वं स्यात्तन्मा भूत्इत्युभयोः कंखंशब्दयोर्ब्रह्मशब्दशिरस्त्वम् — ‘कं ब्रह्म खं ब्रह्मइतिइष्टं हि सुखस्यापि गुणस्य गुणिवद्ध्येयत्वम्तदेवं वाक्योपक्रमे सुखविशिष्टं ब्रह्मोपदिष्टम्प्रत्येकं गार्हपत्यादयोऽग्नयः स्वं स्वं महिमानमुपदिश्यएषा सोम्य तेऽस्मद्विद्यात्मविद्या इत्युपसंहरन्तः पूर्वत्र ब्रह्म निर्दिष्टमिति ज्ञापयन्ति । ‘आचार्यस्तु ते गतिं वक्ताइति गतिमात्राभिधानप्रतिज्ञानमर्थान्तरविवक्षां वारयतियथा पुष्करपलाश आपो श्लिष्यन्त एवमेवंविदि पापं कर्म श्लिष्यते’ (छा. उ. ४ । १४ । ३) इति चाक्षिस्थानं पुरुषं विजानतः पापेनानुपघातं ब्रुवन्नक्षिस्थानस्य पुरुषस्य ब्रह्मत्वं दर्शयतितस्मात्प्रकृतस्यैव ब्रह्मणोऽक्षिस्थानतां संयद्वामत्वादिगुणतां चोक्त्वा अर्चिरादिकां तद्विदो गतिं वक्ष्यामीत्युपक्रमते एषोऽक्षिणि पुरुषो दृश्यत एष आत्मेति होवाच’ (छा. उ. ४ । १५ । १) इति ॥ १५ ॥

प्रकरणादपि ब्रह्मैवात्र ग्राह्यमित्याह —

सुखेति ।

हेत्वन्तरपरं सूत्रमिति स्फोरयितुं चकारार्थमाह —

अपिचेति ।

तदेव वक्तुं प्रतिजानीते —

नैवेति ।

विवादस्याकार्यत्वे हेतुमाह —

सुखेति ।

ब्रह्मणो विशिष्टस्योपक्रमस्थस्याक्षिवाक्येऽपि निर्देशादक्ष्याधारस्य पुंसो ब्रह्मतेत्युक्तमेव विवृणोति —

सुखेत्यादिना ।

प्रक्रान्तत्वेऽपि ब्रह्मणोऽक्षिवाक्ये किं जातं, तदाह —

तदेवेति ।

प्रकृतपरिग्रहस्याक्षिवाक्ये यच्छब्देनेति शेषः । दृश्यत इति लिङ्गोपनीतच्छायात्मार्थो यच्छब्दः ।

लिङ्गस्य प्रकरणाद्वलीयस्त्वादित्याशङ्क्य तथात्वे वाक्यभेदाद्गतिमात्रोक्तिशेषाच्चैकवाक्यत्वाकाङ्क्षायां तदापादकप्रकरणस्य लिङ्गात्प्राबल्यात्प्रकृतं ब्रह्मैव यच्छब्दोक्तमित्याह —

आचार्यस्त्विति ।

उक्तं व्यक्तीकर्तुं शङ्कते —

कथमिति ।

तत्र ब्रह्मोक्तिं वक्तुमुपक्रमं दर्शयति —

उच्यत इति ।

प्राणस्य सूत्रात्मनो बृहत्त्वाद्युक्तं ब्रह्मत्वं कथं पुनरर्थेन्द्रिययोगजं सुखं खं च भूताकाशं तद्ब्रह्मेति ज्ञातुं शक्यमित्याह —

एतदिति ।

शङ्कायामुत्तरम् —

तत्रेति ।

प्रत्येकं ब्रह्मत्वमजानतो मिथो वैशिष्ट्योक्तौ कथं धीरित्याशङ्क्य स्वंशब्दस्येतरव्यभिचारे दोषमाह —

तत्र खमिति ।

प्रतीको नामाश्रयान्तरप्रत्ययस्याश्रयान्तरे क्षेपः । नचायं तदुपदेशः, ‘अप्रतीकालम्बनान्नयति’ इति न्यायेन वक्ष्यमाणगतिविरोधादिति भावः ।

कंशब्दस्यापीतरव्यभिचारे दोषमाह —

तथेति ।

क्षयिता पारतन्त्र्यादि वामयः । नच तस्मिन्ब्रह्मदृष्टिः, उक्तन्यायादित्यर्थः ।

व्यतिरेके दोषमुक्त्वोभयग्रहे गुणमाह —

इतरेतरेति ।

अर्थयोर्विशेषितत्वेन शब्दावपि विशेषितावुक्तौ । कंशब्देन विशेषितो हि खंशब्दो भूताकाशं त्यक्त्वा तद्गुणयोगाद्ब्रह्मणि वर्तते । किमपि खेन विशेषितं निरामयं भवति । तथाच यथोक्तौ शब्दावनवच्छिन्नसुखगुणकं ब्रह्म गमयित्वा चरितार्थावित्यर्थः ।

एकस्यैव ब्रह्मणो ध्योयत्वाद्ब्रह्मपदाभ्यासो वृथेत्याशङ्क्याह —

तत्रेति ।

विशेषणत्वेन, आकाशविशेषणार्पकत्वेनेति यावत् । उपरि प्रयोगाद्ब्रह्मपदं शिरो ययोस्ते ब्रह्मशिरसी तयोर्भावो ब्रह्मशिरस्त्वम् ।

सुखस्याध्येयत्वमेवास्तु को दोष इत्याशङ्क्याह —

इष्टं हीति ।

मार्गोक्त्या सगुणविद्यात्वदृष्टेरित्यर्थः ।

ब्रह्मणः प्रक्रान्तत्वमुक्त्वोपसंहरति —

तदेवमिति ।

तत्रैव हेत्वन्तरमाह —

प्रत्येकं चेति ।

उपकोसलं गार्हपत्योऽनुशशास, पृथिव्यग्निरन्नमादित्य इतीमां मे चतस्रस्तनवः ‘य एष आदित्ये पुरुषो दृश्यते सोऽहमस्मि’ इति । अन्वाहार्यपचनोऽपि तदनुशासनमकरोत्, अापो दिशो नक्षत्राणि चन्द्रमा इति मे तनवः 'य एष चन्द्रमसि पुरुषो दृश्यते सोऽहमस्मि' इति। अाहवनीयोऽपि तदनुशासनं कृतवान् , प्राण आकाशो द्यौर्विद्युदिति मम तनवः ‘य एष विद्युति पुरुषः सोऽहमस्मि’ इति । एवमेते प्रत्येकमग्नयः स्वं स्वं महिमानं विभूतिं पृथिव्यादिविस्तारमुक्त्वैषा सोम्य ते तुभ्यं प्रत्येकमुक्तास्माद्विद्याऽग्निविषया । पूर्वं च सम्भूय ‘प्रणो ब्रह्म’ इत्यादिनात्मविद्योक्तास्माभिरित्युपसंहरन्तो ब्रह्मोपक्रमं दर्शयन्तीत्यर्थः ।

अग्निवाक्ये ब्रह्मोक्तमपि किमित्याचार्यवाक्येऽनुवर्तते, वक्तृभेदादर्थभेदसिद्धेरित्याशङ्क्याह —

आचार्यस्त्विति ।

वक्तृभेदेऽप्येकवाक्यता, साकाङ्क्षत्वात् । पूर्वोत्तरवाक्ययोरेकार्थत्वं, वाक्यैक्यसम्भवे तद्भेदस्यायोगादित्यर्थः ।

फलोक्तेरपि सिद्धमक्षिस्थस्य ब्रह्मत्वमित्याह —

यथेति ।

प्रकृतपुरुषविदो हि पापाद्यनुपहतत्वं फलमुक्तं, तच्च तदधिगमाधिकरणे ब्रह्मधियोऽभिधास्यते तेनास्य ब्रह्मत्वमित्यर्थः ।

आचार्येण गतिमात्रे वाच्ये किमित्यधिकं सोऽभिदधीतेत्याशङ्र्यापेक्षितं पूरयित्वा गतिर्वाच्येत्युपसंहरन्नाह —

तस्मादिति ।

पूर्वापरालोचनायामेकवाक्यत्वनिश्चयादित्यर्थः ॥ १५ ॥