ब्रह्मसूत्रभाष्यम्
प्रथमोऽध्यायः द्वितीयः पादः
न्यायनिर्णयव्याख्या
 
श्रुतोपनिषत्कगत्यभिधानाच्च ॥ १६ ॥
इतश्चाक्षिस्थानः पुरुषः परमेश्वरः, यस्माच्छ्रुतोपनिषत्कस्य श्रुतरहस्यविज्ञानस्य ब्रह्मविदो या गतिर्देवयानाख्या प्रसिद्धा श्रुतौथोत्तरेण तपसा ब्रह्मचर्येण श्रद्धया विद्ययात्मानमन्विष्यादित्यमभिजयन्तेएतद्वै प्राणानामायतनमेतदमृतमभयमेतत्परायणमेतस्मान्न पुनरावर्तन्ते’ (प्र. उ. १ । १०) इति, स्मृतावपिअग्निर्ज्योतिरहः शुक्लः षण्मासा उत्तरायणम्तत्र प्रयाता गच्छन्ति ब्रह्म ब्रह्मविदो जनाः’ (भ. गी. ८ । २४) इति, सैवेहाक्षिपुरुषविदोऽभिधीयमाना दृश्यते । ‘अथ यदु चैवास्मिञ्छव्यं कुर्वन्ति यदि नार्चिषमेवाभिसम्भवन्तिइत्युपक्रम्य आदित्याच्चन्द्रमसं चन्द्रमसो विद्युतं तत्पुरुषोऽमानवः एनान्ब्रह्म गमयत्येष देवपथो ब्रह्मपथ एतेन प्रतिपद्यमाना इमं मानवमावर्तं नावर्तन्ते’ (छा. उ. ४ । १५ । ५) इतितदिह ब्रह्मविद्विषयया प्रसिद्धया गत्या अक्षिस्थानस्य ब्रह्मत्वं निश्चीयते ॥ १६ ॥

प्रकरणादक्षिस्थस्य ब्रह्मत्वमुक्त्वा लिङ्गादपि तथेत्याह —

श्रुतेति ।

श्रुता संवृत्तोपनिषद्रहस्यं ज्ञानं यस्य स तथा, तस्य या देवयानाख्या गतिरागमसिद्धा तस्याश्चाक्षुषपुरुषवेदिन्यभिधानात्तद्ब्रह्मतेत्यर्थः ।

चकारार्थमाह —

इतश्चेति ।

अवशिष्टं व्याचष्टे —

यस्मादिति ।

या गतिः श्रुतौ स्मृतौ च प्रसिद्धा सैवेहाभिधीयमनेति सम्बन्धः ।

श्रुतिमाह —

अथेति ।

देहपातानन्तर्यमथशब्दार्थः । तपोब्रह्मचर्याद्युपायेनात्मानमनुसन्धाय तद्विद्यया ध्यानाख्यया हेतुनोत्तरमार्गमर्चिराद्युपलक्षितं प्राप्य तेनादित्यद्वारा कार्यं ब्रह्माप्नुवन्तीत्यर्थः ।

ब्रह्म विशिनष्टि —

एतदिति ।

व्यष्टिसमष्टिकरणात्मकं हैरण्यगर्भं पदमित्यर्थः ।

तस्यैव वास्तवं रूपमाह —

एतदिति ।

उक्तविशेषणसिद्ध्यर्थं हेतुमाह —

एतस्मादिति ।

गतिविषयां श्रुतिमुक्त्वा स्मृतिमाह —

अग्निरिति ।

अग्न्यादिशब्दैरातिवाहिक्यो देवता गृह्यन्ते ।

पथ्यन्तरादत्र विशेषमाह —

तत्रेति ।

पथो देवयानस्य प्रामाणिकत्वेऽपि प्रकृते किमायातमित्याशङ्क्योक्तम् —

सैवेति ।

इहेत्युक्तां श्रुतिमाह —

अथेति ।

देहपातानन्तर्यमेवाथेत्युक्तम् ।

अस्मिन्नुपासके प्रारब्धकर्मसमाप्त्या मृते यदि पुत्रा ज्ञातयो वा शव्यं शवसम्बन्धि संस्कारादिकर्म कुर्वन्ति यदि वा न द्विधाप्यप्रतिहतधीफलास्तेऽर्चिरभिमानिनीं देवतां प्राप्नुवन्ति तदाह —

यदु चेति ।

अर्चिषोऽहर्देवतां ततः शुक्लपक्षदेवतां ततः षण्मासोपलक्षितोत्तरायणदेवतां ततः संवत्सराभिमानिनीं देवतां ततश्चादित्यं ततश्चन्द्रं ततो विद्युतमाप्नुवन्ति । तत्तत्र स्थितानुपासकान्ब्रह्मलोकादागत्यामानवः पुरुषो गन्तव्यं ब्रह्म प्रापयीत्याह —

इत्युपक्रम्येति ।

देवैर्नेतृभिरधिष्ठितः पन्था देवपथः । ब्रह्मणा गन्तव्यत्वेनोपलक्षितो ब्रह्मपथः ।

एतेन पथा कार्यं ब्रह्म प्रतिपद्यमानाः पुनरिमं मनोः सर्गं जन्ममरणाद्यावृत्तियुक्तं नावर्तन्ते न प्रविशन्तीत्याह —

एष इति ।

तथापि प्रकृते किं जातं, तदाह —

तदिति ।

प्रकरणमिहेत्युक्तम् ॥ १६ ॥