सिद्धान्तमुपपाद्य परोक्तं प्रत्याह —
अनवस्थितेरिति ।
तद्व्याकर्तुं व्यावर्त्यमनुकीर्तयति —
यदिति ।
सूत्रमुत्तरत्वेन योजयति —
अत्रेति ।
इहेति स्थानं वाक्यं चोक्तम् ।
प्रश्नपूर्वकं हेतुं छायात्मनि व्याचष्टे —
कस्मादिति ।
उक्तमन्वयव्यतिरेकाभ्यां व्यनक्ति —
यदेति ।
स्वचक्षुषि नित्यं संनिध्यभावेऽपि यत्र क्वापि छायात्मनः सम्भवादुपास्यतेत्याशङ्क्याह —
य इति ।
दृश्यत इत्युक्ते स्वेनान्येन वेत्यविशेषाच्चरमश्रुतत्वाच्च प्रथमश्रुतमक्षि स्वकीयमेव युक्तं, संनिधेः स्वस्मिन्नतिशयादित्याह —
संनिधानादिति ।
तर्हि पुरुषान्तरं संनिधाप्य स्वचक्षुषि तद्दृश्यस्योपास्यता स्यादित्याशङ्क्य गौरवान्नेत्याह —
नचेति ।
युक्त्यानवस्थितत्वमुक्त्वा तत्रैव श्रुतिमाह —
अस्येति ।
छायाकरस्येत्यर्थः । आनन्तर्यार्थोऽनुशब्दः । एषशब्दश्छायात्मार्थः ।
हेत्वन्तरमादाय व्याख्याति —
असम्भवाच्चेति ।
जीवनिरासेऽप्यनवस्थितिं व्याचष्टे —
तथेति ।
छायात्मवदित्यर्थः । नहि तस्य चक्षुष्येव व्यक्तियोग्यता, येन तत्रोपास्तिः । विनापि स्थानविशेषमहमिति व्यक्तेरित्यर्थः ।
तर्हि ब्रह्मणोऽपि सर्वत्र सत्त्वान्न चक्षुष्येव स्थितिः, तत्राह —
ब्रह्मणस्त्विति ।
दृष्टः । श्रुताविति शेषः ।
हेत्वन्तरं जीवेऽपि योजयति —
समानश्चेति ।
जीवस्य ब्रह्माभेदात्तत्रामृतत्वादि स्यादित्याशङ्क्याह —
यद्यपीति ।
अनवस्थितिर्देवतात्मन्यसिद्धेत्याशङ्क्य हेत्वन्तरेण निराह —
देवतेति ।
देवेष्वमरत्वप्रसिद्धिवाधितं तदुत्पत्त्यादिवाक्यमित्याशङ्क्याह —
अमरत्वमिति ।
संयद्वामत्वादिकमपि न तत्रेत्याह —
ऐश्वर्यमिति ।
तस्येश्वरायत्तत्वे भयास्तित्वे च मानमाह —
भीषेति ।
भयेनास्मादीश्वरात्पवते चलति । वायुरित्यर्थः ।
पक्षत्रयायोगे फलितमाह —
तस्मादिति ।
ईश्वरेऽपि दृश्यत इत्ययुक्तं, तस्यादृश्यत्वादित्याशङ्क्याह —
अस्मिन्निति ।
उपलब्धिर्दर्शनं तत्र शास्त्रीयदर्शनस्य शास्रमेव संनिहितं करणमिति विद्वत्प्रसिद्धं शास्त्रीयमेव दर्शनं सिद्धवदनूद्यते । तत्राज्ञानामनुरागार्थमित्यर्थः । शास्त्रादीत्यादिपदं विद्वदनुभवार्थम् ।
तद्विषयदर्शनोक्तेरुपयोगमाह —
प्ररोचनेति ।
उक्तं तत्त्वदर्शनमयोग्यमित्युक्ते न तद्दर्शने फलवति भवत्यभिरुचिरित्यर्थः । तदेवमुपकोसलवाक्यं सविशेषे ब्रह्मण्यन्वितमिति ॥ १७ ॥