स्थानादिव्यपदेशसूत्रे पृथिव्यादीनि ब्रह्मणः स्थानानीत्युक्तं, तदसिद्धिमाशङ्क्याह —
अन्तर्यामीति ।
अन्तर्यामिब्राह्मणमुदाहरति —
य इति ।
मनुष्यादिभिर्देवादिभिश्चाधिष्ठितमिमममुं च लोकं योऽन्तरो यमयति, यश्च लोकद्वयवर्तीनि भूतान्यन्तरः सन्यमयति, तं किं वेत्थेत्यन्तर्यामिणमुपक्रम्य श्रुतमित्यर्थः ।
पृथिव्यां तिष्ठन्नन्तर्यामीत्युक्ते सर्वत्रापि चराचरे प्रसक्तावुक्तम् —
पृथिव्या इति ।
तद्देवतां प्रत्याह —
यमिति ।
ईश्वरस्याप्यकार्यकरणस्य न नियन्तृतेत्याशङ्क्याह —
यस्येति ।
नियम्यकार्यकरणैरेव नियन्तृत्वम् ।
फलितमाह —
य इति ।
तस्याताटस्थ्यमाह —
एष इति ।
ते मम चेत्यर्थः । आदिपदं ‘योऽप्सु तिष्ठन्’ इत्यादिसङ्ग्रहार्थम् ।
आपातिकं श्रुत्यर्थमाह —
अत्रेति ।
‘यः पृथिव्याम्’ इत्याद्यधिदैवतम् । ‘यः सर्वेषु लोकेषु ‘ इत्यधिलोकम् । ‘यः सर्वेषु वेदेषु’ इत्यधिवेदम् । ‘यः सर्वेषु यज्ञेषु’ इत्यधियज्ञम् । ‘यः सर्वेषु भूतेषु’ इत्यधिभूतम् । ‘यः प्राणेषु’ इत्यादि ‘य आत्मनि’ इत्यन्तमध्यात्ममिति भेदः ।
अदेहस्य नियन्तृत्वासम्भवसम्भवाभ्यां संशयमाह —
स किमिति ।
अर्थान्तरे सन्दिह्यमाने हेतुमाह —
अपूर्वेति ।
दृश्यत इति श्रुतिर्बहुतरलिङ्गाद्यनुरोधेनार्थविशेषपरतया नीता, अत्र त्वन्तर्यामिशब्दस्याप्रसिद्धार्थत्वान्नार्थो निर्णीतो डित्थादिशब्दवदित्याह —
किं तावदिति ।
अन्तर्यामिब्राह्मणस्य सविशेषे ब्रह्मण्यन्वयोक्तेः । सङ्गतयः पूर्वपक्षे विशिष्टस्य योगिनोऽन्तर्यामिणः, सिद्धान्ते परस्यैव तस्योपास्तिरिति फलम् ।
तत्र पूर्वपक्षाभासमाह —
संज्ञाया इति ।
अध्ययनविध्युपात्तस्य पुमर्थान्वयध्रौव्यादनिर्धारितस्य तदयोगादन्तर्यमिरूपं निर्धारणीयमिति पक्षान्तरमाह —
अथवेति ।
अप्रसिद्धत्वात्संज्ञायाः संज्ञिनापि तथा भाव्यं व्याप्तेरित्याशङ्क्याह —
अन्तर्यामीति ।
अर्थान्तरायोगे फलितमाह —
तस्मादिति ।
तत्र शाकल्यवाक्यं प्रमाणयति —
तथाचेति ।
आयतनं शरीरं, लोको लोक्यतेऽनेनेत्यसाधारणं, ज्योतिः साधारणं करणम् । सशरीरा देवता चक्षुर्मनोभ्यां सर्वं वेत्तीत्यर्थः । ‘यस्तं विद्यात्स एव वेदिता’ इत्यादि ग्रहीतुमादिपदम् ।
ईश्वरेऽपि सर्वमिदं स्यादित्याशङ्क्याह —
स चेति ।
उपक्रमोपसंहाराभ्यामेकस्मिन्नन्तर्यामिणि सिद्धे कथं पृथिव्याद्यनेकदेवतोक्तिरित्याशङ्क्याह —
योगिनो वेति ।
यदनुग्रहाद्योगिनो नियमनादिसामर्थ्यं स किमित्युपेक्ष्यते, तत्राह —
न त्विति ।
विशिष्टस्य योगिनोऽन्तर्यामिणो ध्यानार्थं ब्राह्माणमित्युपसंहर्तुमितिशब्दः ।
सिद्धान्तयति —
एवमिति ।