प्रतिज्ञातेऽर्थे प्रश्नपूर्वकं हेतुमुपस्थाप्य व्याचष्टे —
कुत इति ।
इहेत्यन्तर्यामिग्रहणम् ।
के ते परस्यासाधारणा धर्मा येऽन्तर्यामिणि व्यपदिश्यन्ते, तत्र सर्वनियन्तृत्वं तावदाह —
पृथिव्यादीति ।
साधनाधीनशक्त्या तद्वतो ज्ञाने तद्धियोपेक्षणाद्धीगौरवात् , नित्यसिद्धशक्त्येश्वरग्रहे लाघवात्तस्यैव सर्वनियन्तृतेति भावः ।
परस्यैवासाधारणधर्मद्वयमाह —
एष इति ।
देवपक्षे दोषान्तरमाह —
यमिति ।
एकस्य कर्मकर्तृत्वायोगात्पृथिव्यपि देवता न स्वात्मानं जानीयादिति कुतस्ततोऽन्यत्वं, तत्राह —
पृथिवीति ।
अहमित्यात्मधीः सर्वेषामनुभवसिद्धा देवतायामपि नापह्नोतुं शक्येत्यर्थः ।
इतोऽपि परमात्मैवान्तर्यामीत्याह —
तथेति ।
अकार्यकरणत्वान्न परोऽन्तर्यामी घटयदित्युक्तमनुवदति —
यत्त्विति ।
किमीश्वरस्य नियम्यातिरिक्तदेहादिराहित्यं वा देहाद्यसंबन्धो वा तत्राभोक्तृत्वं वा हेतूक्रियते । नाद्यः तक्षादेः स्वदेहादिनियमने देहान्तराद्यभावेन व्यभिचारात् । द्वितीये स्वाविद्यार्जितदेहादेरीश्वरेण सम्बन्धादसिद्धिः । तृतीये त्वभोक्तृत्वादीश्वरो न नियन्तेत्यत्राचेतनत्वमुपाधिः ।
नच मुक्तात्मसु साध्याव्याप्तिः । तेषामीश्वराभेदेन पक्षत्वादिति विवक्षन्नाह —
नैष इति ।
ईश्वरस्य नियन्तृत्वे कार्यकारणवत्त्वमपि शक्यमस्मदादिवदनुमातुमित्याशङ्क्य नियम्यकार्यकरणवत्त्वे सिद्धसाधनमतिरिक्ततद्वत्त्वे श्रुतिविरुद्धतेत्याह —
यानिति ।
स्वदेहादिनियन्तुरपि जीवस्यान्यो नियन्ता चेत्तस्याप्यन्यो नियन्ता स्यादविशेषादित्याशङ्क्याह —
तस्यापीति ।
निरङ्कुशं सर्वनियन्तृत्वं श्रौतम् । नच तादृशि सर्वनियन्तरि भेदः । न चानुमानं श्रुतिबाधितमुत्तिष्ठति । तन्नानवस्थेत्यर्थः ।
योगिपक्षे तु स्यादनवस्थेत्याह —
भेदे हीति ।
तत्रापि नियन्तृत्वं क्वापि तिष्ठति चेदिष्टसिद्धिरिति भावः ।
सूत्रार्थमुपसंहरति —
तस्मादिति ॥ १८ ॥