सूत्रव्यावर्त्यां शङ्कामाह —
स्यादेतदिति ।
यौक्तिकेऽर्थे स्मृतिमपि संवादयति —
अप्रतर्क्यमिति ।
इत्थं महदादिरूपेण प्रधानं किमिति प्रवर्तते कस्मान्नान्यथेति तर्कस्याविषयो गूढत्वादित्यर्थः । रूपादिराहित्यादविज्ञेयं चक्षुराद्यग्राह्यं, प्रसुप्तमिव सर्वतः सर्वासु दिक्षु जडिमव्याप्तमित्यर्थः ।
कथं तस्याचेतनस्यान्तर्यामित्वं, तत्राह —
तस्येति ।
अदृष्टत्वादीनां प्रधाने सम्भवे फलितमाह —
तस्मादिति ।
प्रागेव प्रयुक्तं प्रधानं किमिति पुनः शङ्क्यते, तत्राह —
ईक्षतेरिति ।
प्रासङ्गिकशङ्कोत्तरत्वेन सूत्रमादाय व्याकरोति —
अत इति ।
अदृष्टत्वादिसम्भवात्प्रधानस्यान्तर्यामित्वमुक्तमित्याशङ्क्य हेतुमाह —
कस्मादिति ।
हेत्वसिद्धिं शङ्कित्वा तदर्थमाह —
यद्यपीति ।
अन्तर्यामिणि द्रष्टृत्वादिव्यपदेशं दर्शयति —
अदृष्ट इति ।
इहेति ब्राह्मणोक्तिः ।
प्रधानपक्षे दोषान्तरमाह —
आत्मत्वमिति ॥ १९ ॥