ब्रह्मसूत्रभाष्यम्
प्रथमोऽध्यायः द्वितीयः पादः
न्यायनिर्णयव्याख्या
 
यदि प्रधानमात्मत्वद्रष्टृत्वाद्यसम्भवान्नान्तर्याम्यभ्युपगम्यते, शारीरस्तर्ह्यन्तर्यामी भवतुशारीरो हि चेतनत्वाद्द्रष्टा श्रोता मन्ता विज्ञाता भवति, आत्मा प्रत्यक्त्वात्अमृतश्च, धर्माधर्मफलोपभोगोपपत्तेःअदृष्टत्वादयश्च धर्माः शारीरे प्रसिद्धाःदर्शनादिक्रियायाः कर्तरि प्रवृत्तिविरोधात् दृष्टेर्द्रष्टारं पश्येः’ (बृ. उ. ३ । ४ । २) इत्यादिश्रुतिभ्यश्चतस्य कार्यकरणसङ्घातमन्तर्यमयितुं शीलम् , भोक्तृत्वात्तस्माच्छारीरोऽन्तर्यामीत्यत उत्तरं पठति

उत्तरसूत्रव्यावर्त्याशङ्कामाह —

यदीति ।

द्रष्ट्टत्वाद्यसम्भवस्य तत्रापि तुल्यत्वमाशङ्क्योक्तम् —

शारीरो हीति ।

तथापि कथं तत्रामृतत्वं, स हि देहापाये म्रियते, तत्राह —

अमृतश्चेति ।

अन्यथाऽकृतागमादिप्रसङ्गात् ‘जीवापेतं वाव’ इत्यादिश्रुतेश्चेत्यर्थः ।

तथापि कथमदृष्टत्वादीनां तत्रोपपत्तिस्तस्याहन्धीव्याप्यत्वात् , तत्राह —

अदृष्टत्वेति ।

सकर्मिका क्रिया कर्म व्याप्नोति न कर्तारं तेन कर्तर्यात्मनि दर्शनादिवृत्तौ कर्तृत्वेन गुणत्वं कर्मत्वेन प्राधान्यं चेत्येकस्यां क्रियायां युगपद्गुणप्रधानत्वविरोधादिति हेतुमाह —

दर्शनादीति ।

जीवस्यादृष्टत्वादयो न केवलं यौक्तिकाः । किन्तु श्रौताश्चेत्याह —

नेति ।

लौकिक्या दृष्टेर्बुद्धिपरिणतेर्द्रष्टारमात्मानं तयैव दृष्ट्या त्वं न पश्येर्न शक्नोषि द्रष्टुमित्यर्थः । ‘न श्रुतेः श्रोतारम्’ इत्यादिसङ्ग्रहार्थमादिपदम् ।

तथापि कथं तस्यान्तर्यामित्वं नियम्यनिविष्टत्वात् , तत्राह —

तस्येति ।

अन्तर्यामिधर्माणां शारीरे सम्भावनाफलमाह —

तस्मादिति ।

सूत्रमवतारयति —

अत इति ।