ब्रह्मसूत्रभाष्यम्
प्रथमोऽध्यायः द्वितीयः पादः
न्यायनिर्णयव्याख्या
 
शारीरश्चोभयेऽपि हि भेदेनैनमधीयते ॥ २० ॥
नेति पूर्वसूत्रादनुवर्ततेशारीरश्च नान्तर्यामी स्यात्कस्मात् ? यद्यपि द्रष्टृत्वादयो धर्मास्तस्य सम्भवन्ति, तथापि घटाकाशवदुपाधिपरिच्छिन्नत्वान्न कार्त्स्न्येन पृथिव्यादिष्वन्तरवस्थातुं नियन्तुं शक्नोतिअपि चोभयेऽपि हि शाखिनः काण्वा माध्यन्दिनाश्चान्तर्यामिणो भेदेनैनं शारीरं पृथिव्यादिवदधिष्ठानत्वेन नियम्यत्वेन चाधीयतेयो विज्ञाने तिष्ठन्’ (बृ. उ. ३ । ७ । २२) इति काण्वाः । ‘ आत्मनि तिष्ठन्इति माध्यन्दिनाः । ‘ आत्मनि तिष्ठन्इत्यस्मिंस्तावत् पाठे भवत्यात्मशब्दः शारीरस्य वाचकः । ‘यो विज्ञाने तिष्ठन्इत्यस्मिन्नपि पाठे विज्ञानशब्देन शारीर उच्यते, विज्ञानमयो हि शारीर इतितस्माच्छारीरादन्य ईश्वरोऽन्तर्यामीति सिद्धम्कथं पुनरेकस्मिन्देहे द्वौ द्रष्टारावुपपद्येते यश्चायमीश्वरोऽन्तर्यामी, यश्चायमितरः शारीरः ? का पुनरिहानुपपत्तिः ? ‘नान्योऽतोऽस्ति द्रष्टाइत्यादिश्रुतिवचनं विरुध्येतअत्र हि प्रकृतादन्तर्यामिणोऽन्यं द्रष्टारं श्रोतारं मन्तारं विज्ञातारं चात्मानं प्रतिषेधतिनियन्त्रन्तरप्रतिषेधार्थमेतद्वचनमिति चेत् , ; नियन्त्रन्तराप्रसङ्गादविशेषश्रवणाच्चअत्रोच्यतेअविद्याप्रत्युपस्थापितकार्यकरणोपाधिनिमित्तोऽयं शारीरान्तर्यामिणोर्भेदव्यपदेशः, पारमार्थिकःएको हि प्रत्यगात्मा भवति, द्वौ प्रत्यगात्मानौ सम्भवतःएकस्यैव तु भेदव्यवहार उपाधिकृतः, यथा घटाकाशो महाकाश इतिततश्च ज्ञातृज्ञेयादिभेदश्रुतयः प्रत्यक्षादीनि प्रमाणानि संसारानुभवो विधिप्रतिषेधशास्त्रं चेति सर्वमेतदुपपद्यतेतथा श्रुतिः — ‘यत्र हि द्वैतमिव भवति तदितर इतरं पश्यतिइत्यविद्याविषये सर्वं व्यवहारं दर्शयति । ‘यत्र त्वस्य सर्वमात्मैवाभूत्तत्केन कं पश्येत्इति विद्याविषये सर्वं व्यवहारं वारयति ॥ २० ॥

अपेक्षितं पूरयित्वा प्रतिज्ञां विभजते —

नेत्यादिना ।

चकारादनुवृत्तिः ।

द्रष्ट्टत्वादिधर्माणां सम्भवात्तदन्तर्यामित्वं दुर्वारमिति शङ्कते —

कस्मादिति ।

चशब्दसूचितं ब्रुवन्परिहरति —

यद्यपीति ।

उभयेऽपीत्यादि व्याकरोति —

अपि चेति ।

माध्यन्दिनपाठे भेदोक्तिं व्यनक्ति —

य आत्मनीति ।

काण्वानां पाठे भेदोक्तिं व्यनक्ति —

विज्ञान इति ।

काण्वपाठे शारीरवाचिपदाभावात्कुतो भेदोक्तिः, तत्राह —

विज्ञानेति ।

विज्ञानशब्दस्य बुद्ध्यर्थस्य कथं शारीरे वृत्तिरित्याशङ्क्य रूढ्यभावेऽपि वृत्त्यन्तरमाह —

विज्ञानेति ।

भेदोक्तिफलमाह —

तस्मादिति ।

भेदेनेत्यादिसूत्रात्तात्त्विकभेदाशङ्कां निरसितुं शङ्कते —

कथमिति ।

द्रष्ट्टद्वयमेव विशिनष्टि —

यश्चेति ।

न खल्वेकस्मिन्देहे द्रष्ट्टद्वयं युक्तं, विरुद्धाभिप्रायानेकचेतनाधिष्ठितस्य देहस्याव्यवस्थितत्वप्रसङ्गादित्यर्थः ।

कश्चित्कार्यकरणसंहतो भोक्ता तद्रहितोऽन्योऽधिष्ठाता पश्यत्येवेति विभागे नावद्यमिति शङ्कते —

का पुनरिति ।

अनुपपत्तिमाह —

नेति ।

विरोधं स्फोरयितुं प्रतीतमर्थमाह —

अत्रेति ।

अस्मिन्ग्रामे मैत्र एवाद्वितीय इतिवत्तत्तुल्यद्रष्ट्रन्तरनिवारकमेव तदिति शङ्कते —

नियन्त्रन्तरेति ।

सर्वनियन्तुः स्वनियन्त्रा नियन्तव्यत्वशङ्काभावात् , नान्योऽतोऽस्ति नियन्ता द्रष्टेति विशेषाश्रुतेश्च नैवमित्याह —

नेति ।

आत्मनि तिष्ठन्नित्यौपाधिकभेदार्थं वाक्यं, ‘नान्योऽतोऽस्ति’ इति तु तत्त्वविषयमिति परिहरति —

अत्रेति ।

भेदोक्तेस्तत्त्वविषयत्वं, निषेधोक्तेश्चातत्त्वविषयतेति वैपरीत्यमाशङ्क्याह —

एको हीति ।

प्रत्यक्त्वात्मत्वयोरेकत्रैव मुख्यत्वादित्यर्थः ।

एकत्वमेव तत्त्वं चेत्कुतो भेदोक्तिः, तत्राह —

एकस्येति ।

औपाधिकभेदोक्तिमुदाहरति —

यथेति ।

तात्त्विकभेदाभावे कथं श्रुत्याद्युपपत्तिः, तत्राह —

ततश्चेति ।

प्राप्तृप्राप्तव्यादिसङ्ग्रहार्थमादिपदम् ।

आविद्याद्भेदाद्व्यावहारमात्रसिद्धावन्वयव्यतिरेकश्रुतिमाह —

तथा चेति ।

आविद्यभेदानुवादेन नियन्तृनियम्यत्वम् । वस्तुतस्त्वद्वितीयः परमात्मा, तत्राविद्यया सर्वनियन्तर्यन्वितमन्तर्यामिब्राह्मणं, तस्यानुध्यानादापरोक्ष्यान्मोक्ष इति भावः ॥ २० ॥