ब्रह्मसूत्रभाष्यम्
प्रथमोऽध्यायः द्वितीयः पादः
न्यायनिर्णयव्याख्या
 
अदृश्यत्वादिगुणको धर्मोक्तेः ॥ २१ ॥
अथ परा यया तदक्षरमधिगम्यते’(मु. उ. १ । १ । ५),यत्तद्रेश्यमग्राह्यमगोत्रमवर्णमचक्षुःश्रोत्रं तदपाणिपादम् , नित्यं विभुं सर्वगतं सुसूक्ष्मं तदव्ययं यद्भूतयोनिं परिपश्यन्ति धीराः’ (मु. उ. १ । १ । ६) इति श्रूयतेतत्र संशयःकिमयमदृश्यत्वादिगुणको भूतयोनिः प्रधानं स्यात् , उत शारीरः, आहोस्वित्परमेश्वर इतितत्र प्रधानमचेतनं भूतयोनिरिति युक्तम् , अचेतनानामेव तस्य दृष्टान्तत्वेनोपादानात्यथोर्णनाभिः सृजते गृह्णते यथा पृथिव्यामोषधयः सम्भवन्तियथा सतः पुरुषात्केशलोमानि तथाक्षरात्सम्भवतीह विश्वम्’ (मु. उ. १ । १ । ७) इतिननूर्णनाभिः पुरुषश्च चेतनाविह दृष्टान्तत्वेनोपात्तौ; नेति ब्रूमः हि केवलस्य चेतनस्य तत्र सूत्रयोनित्वं केशलोमयोनित्वं चास्तिचेतनाधिष्ठितं ह्यचेतनमूर्णनाभिशरीरं सूत्रस्य योनिः, पुरुषशरीरं केशलोम्नामिति प्रसिद्धम्अपि पूर्वत्रादृष्टत्वाद्यभिलापसम्भवेऽपि द्रष्टृत्वाद्यभिलापासम्भवान्न प्रधानमभ्युपगतम्इह त्वदृश्यत्वादयो धर्माः प्रधाने सम्भवन्ति चात्र विरुध्यमानो धर्मः कश्चिदभिलप्यतेननु यः सर्वज्ञः सर्ववित्’ (मु. उ. १ । १ । ९) इत्ययं वाक्यशेषोऽचेतने प्रधाने सम्भवति, कथं प्रधानं भूतयोनिः प्रतिज्ञायत इति; अत्रोच्यते — ‘यया तदक्षरमधिगम्यते’ ‘यत्तदद्रेश्यम्इत्यक्षरशब्देनादृश्यत्वादिगुणकं भूतयोनिं श्रावयित्वा, पुनरन्ते श्रावयिष्यतिअक्षरात्परतः परः’ (मु. उ. २ । १ । २) इतितत्र यः परोऽक्षराच्छ्रुतः, सर्वज्ञः सर्ववित्सम्भविष्यतिप्रधानमेव त्वक्षरशब्दनिर्दिष्टं भूतयोनिःयदा तु योनिशब्दो निमित्तवाची, तदा शारीरोऽपि भूतयोनिः स्यात् , धर्माधर्माभ्यां भूतजातस्योपार्जनादितिएवं प्राप्ते अभिधीयते

अदृष्टत्वादीनां प्रधानगामित्वेऽपि द्रष्ट्टत्वादीनां तत्रायोगान्न तदन्तर्यामीत्युक्तम् । तर्हि भूतयोनिवाक्ये द्रष्ट्टत्वादीनामनुक्तेरदृश्यत्वादिगुणको भूतयोनिः प्रधानमेवेत्याशङ्क्याह —

अदृश्यत्वादीति ।

अथर्वणवाक्यमाह —

अथेति ।

अपरविद्योक्त्यनन्तरं या परा विद्योच्यते तां विशिनष्टि —

ययेति ।

अक्षरं वर्णसमुदायाद्व्यवच्छिनत्ति —

यदिति ।

अद्रेश्यमदृश्यं ज्ञानेन्द्रियाविषयः, अग्राह्यं कर्मेन्द्रियाविषयः, अगोत्रं वंशशून्यम् , अवर्णं जातिहीनम् ।

न केवलमिन्द्रियाविषयः, तद्धीनं चेत्याह —

अचक्षुरिति ।

न विद्येेते चक्षुःश्रोत्रे यस्य तत्तथा । चक्षुःश्रोत्रोक्तिरनुक्तज्ञानेन्द्रियोपलक्षणार्थम् ।

कर्मेन्द्रयराहित्यमाह —

अपाणीति ।

पाणिश्च पादश्च पाणिपादं तन्नास्ति यस्य तत्तथा । उभयोक्तिरनुक्तकर्मेन्द्रियोपलक्षणम् । नित्यमनाशोपलक्षितसत्ताकम् । विभुं प्रभुम् , सर्वगतं सर्वकल्पनाधिष्ठानम् । सुसूक्ष्मं दुर्ज्ञानत्वात् , तदव्ययमपक्षयाभावात् , यथोक्तमक्षरं भूतयोनिं भूतकारणं धीराः पण्डिताः पश्यन्तिः, तदक्षरं ययाधिगम्यते सा परा विद्येत्यर्थः ।

अदृश्यत्वादिसाधारणधर्मदृष्ट्या संशयमाह —

तत्रेति ।

भूतयोनिः सप्तम्यर्थः ।

साधारणस्याप्यन्तर्यामिशब्दस्य लाघवसाहाय्यान्नित्यसिद्धनियन्तृत्वादिनेश्वरपरत्वमुक्तम् । इहापि साधारणादृश्यत्वादिधर्मस्याचेतनदृष्टान्तोपादानबलात्प्रधाननिष्ठतेति पूर्वपक्षमाह —

तत्रेति ।

भूतयोनिवाक्यस्य निर्विशेषे ब्रह्मण्यन्वयोक्तेः सङ्गतयः । पूर्वपक्षे प्रधानस्य शारीरस्य वा ध्यानं सिद्धान्ते निर्विशेषवस्तुधीरिति फलम् ।

दृष्टान्तदार्ष्टान्तिकयोस्तुल्यतानियमाद्दृष्टान्तस्याचेतनत्वाद्दार्ष्टान्तिकस्यापि भूतयोनेरचेतनत्वमिति हेतुमाह —

अचेतनानामिति ।

ऊर्णनाभिर्लूताकीटः स्वदेहाव्यतिरेकिणस्तन्तून्सृजत्युपसंहरति चेत्यर्थः । सतो विद्यमानात् । जीवत इति यावत् । इहेति सर्गावस्थोक्तिः ।

दृष्टान्तमाक्षिप्य समाधत्ते —

नन्विति ।

इहेत्यक्षराद्विश्वोत्पत्तावित्यर्थः ।

केवलचेतनस्य वा कारणत्वं, चेतनाधिष्ठिताचेतनस्य वा । तत्राद्यं प्रत्याह —

न हीति ।

शरीरस्यापि तत्रान्वयव्यतिरेकित्वादित्यर्थः ।

द्वितीयमङ्गीकरोति —

चेतनेति ।

दार्ष्टान्तिकेऽपि चेतनाधिष्ठितं प्रधानं जगद्धेतुरिति भावः ।

पूर्वं प्रधानस्य प्रत्युक्तत्वात्कथं पुनस्तदाशङ्का, तत्राह —

अपिचेति ।

इहेत्यत्रेति च भूतयोनिवाक्योक्तिः । विरुध्यमानत्वमप्रधानविषयत्वम् । यद्वात्रेति प्रधानमुक्तम् । विरुध्यमानत्वं धर्मस्य तस्मिन्नसम्भवित्वम् ।

स्ववाक्ये प्रधाने विरुद्धधर्माभावेऽपि वाक्यशेषे सोऽस्तीति शङ्कते —

नन्विति ।

भूतयोनेरक्षरस्य पञ्चम्यन्ताक्षरश्रुत्या प्रत्यभिज्ञानात्प्रथमान्तपरशब्दोक्तस्य सर्वज्ञत्वादीति वाक्यशेषस्याक्षरातिरिक्तं विषयं दर्शयन्नाह —

अत्रेति ।

अक्षरस्य जगद्योनित्वमुक्त्वा ‘यः सर्वज्ञः सर्ववित् ‘ इति सर्वज्ञस्य तदुक्तेर्लिङ्गप्रत्यभिज्ञानादक्षरस्यैव सर्वज्ञत्वादीति चेत् , न, अक्षरश्रुतिप्रत्यभिज्ञातो लिङ्गप्रत्यभिज्ञाया दुर्बलत्वात् , ‘येनाक्षरं पुरुषं वेद’ इति चेतनेऽपि भूतयोनौ श्रुत्या प्रत्यभिज्ञानात् , जगत्प्रकृतित्वलिङ्गानुगृहीतश्रुतिप्रत्यभिज्ञया केवलश्रुतिप्रत्यभिज्ञा बाध्येति चेत् , न, तस्मादिति निमित्तेऽपि पञ्चमीसम्भवात् ।

नचैवमपि प्रत्यभिज्ञायाः साम्यं, अचेतनदृष्टान्तानुगृहीतप्रत्यभिज्ञाप्राबल्यात् । तस्मात्प्रधानमेव भूतयोनिरित्याह —

प्रधानमेवेति ।

सर्वज्ञाद्विवेकायात्र प्रधानं ग्राह्यमित्युक्त्वा जीवो देहाद्यतिरिक्तोऽभ्युदयनिःश्रेयसाप्तये निरूप्यतेऽत्रेति पक्षान्तरमाह —

यदेति ।

योनिशब्दस्य प्रकृत्यर्थत्वे निमित्तार्थत्वे च प्रधानस्य सर्वज्ञाद्विविक्तस्य जीवस्य वा देहाद्यतिरिक्तस्य द्विविधपुमर्थाप्तये ध्यानार्थमेतदित्युपसंहर्तुमितिशब्दः ।

सिद्धान्तसूत्रमवतारयति —

एवमिति ।