तत्र प्रतिज्ञां व्याचष्टे —
योऽयमिति ।
प्रधानादौ सम्भवति नियमासिद्धिरित्याह —
कथमिति ।
नियामकं हेतुमवतार्य व्याचष्टे —
धर्मेति ।
भूतयोनिरिहेत्युक्तः । हेतोरन्यथासिद्धिं धुनीते —
नहीति ।
‘अक्ताः शर्करा उपदधाति’ इत्यत्र ‘तेजो वै घृतम्’ इति शेषान्निर्णयवदिहापि साधारणोपक्रमस्थस्यादृश्यत्वादेः शेषाद्ब्रह्मनिष्ठता निर्णेयेत्यर्थः ।
वाक्यशेषो भूतयोनिविषयो नेत्युक्तं स्मारयति —
नन्विति ।
‘जनिकर्तुः प्रकृतिः’ इति स्मृतेरक्षरादिति पञ्चम्या जायमानप्रकृतित्वेनोक्तमक्षरं ‘तस्मादेतद्ब्रह्म’ इत्यत्रापि पञ्चम्या प्रत्यभिज्ञायते । तेन भूतयोन्यर्थ एव वाक्यशेष इत्याह —
अत्रेति ।
तस्मादविशेषेण सर्वज्ञाद्विशेषेण सर्वविदो ज्ञानमयतपःसहितात्कार्यं ब्रह्म सूक्ष्मभूतात्मकं नाम रूपं च स्थूलभूतात्मकमन्नं च ब्रीहियवादि सर्वं भौतिकं तद्द्वारा सत्तां प्राप्नोतीत्याह —
तस्मादिति ।
लिङ्गप्रत्यभिज्ञाफलमाह —
तस्मादिति ।
श्रुतिप्रत्यभिज्ञा लिङ्गप्रत्यभिज्ञातो बलवती दर्शितेत्याशङ्क्य पञ्चम्यन्ताक्षरपदं न प्रकृताक्षरगामीत्याह —
अक्षरादिति ।
तत्र गमकं पृच्छति —
कथमिति ।
चेतने भूतयोनौ प्रथममेव श्रुतिप्रत्यभिज्ञानादित्याह —
येनेति ।
येन ज्ञानेनाक्षरं प्रकृतं भूतयोनिं सर्वज्ञं पुरुषं सत्यं वेद तां ब्रह्मविद्यामुपसन्नाय शान्तायाचार्यः प्रोवाच प्रब्रूयादित्युपक्रम्य ‘अक्षरात्परतः परः’ इत्युच्यमानः परो न भूतयोनेरतिरिच्यते । तथाच क्वचिज्जगत्प्रकृतित्वं क्वचित्तन्निमित्ततेति न वैषम्यमिति भावः ।
पञ्चम्यन्ताक्षरपदस्य भूतयोन्यर्थत्वाभावे तद्वाक्यं वाच्यमिति शङ्कते —
कथमिति ।
तत्र भाविनं परिहारं सूचयति —
उत्तरेति ।
परा विद्येति समाख्यानादपि भूतयोनेरक्षरस्य ब्रह्मतेत्याह —
अपिचेति ।
भूतयोनेरपरविद्यागम्यत्वं निराह —
तत्रेति ।
उदाहृते वाक्ये प्रतीतमर्थमाह —
तत्रेति ।
तथापि प्रधानं जीवो वा परविद्यागम्यमक्षरं स्यादित्याशङ्क्याह —
यदीति ।
कार्यकारणविषयतया भोक्तृभोग्यविषयतया वा परापरविभागमाशङ्क्याह —
परेति ।
प्रधानादिविद्या मुक्तिफलतया परा स्यादित्याशङ्क्याह —
नचेति ।
जडमात्रस्य तद्युक्ताजडस्य वा धीनं मुक्तिहेतुः, चिन्मात्रधियस्तद्भावादित्यर्थः ।
यदि प्रधानस्य जीवस्य वा भूतयोनित्वेन तद्विद्या परविद्या तदोत्तरत्रोच्यमानसर्वविज्ञानस्यापीष्टत्वाद्द्वे विद्ये इति द्वित्वश्रवणं न स्यादित्याह —
तिस्रश्चेति ।
इष्टापत्तिं प्रात्याचष्टे —
द्वे इति ।
इहेत्युपक्रमोक्तिः ।
इतश्च भूतयोनिवाक्यं ब्रह्मनिष्ठमित्याह —
कस्मिन्निति ।
एकविज्ञानेन सर्वं विज्ञानं पक्षान्तरेऽपि स्यादित्याशङ्क्याह —
नेति ।
अचेतनस्य भोग्यमात्रस्यैकमयनमाश्रयस्तस्मिन्नित्यर्थः । मात्रशब्देनात्मभ्यो भेदमाह । प्रधाने ज्ञाते भोग्यवर्गज्ञानेऽपि न भोक्तृज्ञानमित्यर्थः ।
जीवपक्षे तज्ज्ञाने भोग्यधीरपि नेत्याह —
भोग्येति ।
ब्रह्मविद्येति समाख्ययापि भूतयोनेर्ब्रह्मतेत्याह —
अपिचेति ।
सर्वविद्यानां प्रतिष्ठा समाप्तिर्यस्यां ततो निरतिशयपुरुषार्थलाभात्तां ब्रह्मविद्यां सर्वविद्यावेद्यवस्त्वधिष्ठानविषयतया वा सर्वविद्याप्रतिष्ठामथर्वनाम्ने कुत्रचित्सृष्टावाद्याय पुत्राय स ब्रह्मोक्तवानित्यर्थः ।
‘ब्रह्मा देवानाम् ‘ इति वक्ता तत्रोपक्रान्त एवेत्याशङ्कवाह —
प्राधान्येति ।
तथापि कथमक्षरस्य ब्रह्मत्वं, तदाह —
सा चेति ।
ब्रह्मविद्योपक्रमेऽप्यपरविद्यावदक्षरविद्यापि ब्रह्मविद्या मा भूदित्याशङ्क्य प्रक्रान्ताया अन्यत्रानुक्तिवदत्राप्यनुक्तौ बाधादक्षरविद्या ब्रह्मविद्यैवेत्याह —
अपरेति ।
तस्यास्तत्प्रशंसार्थत्वं कथं, तत्राह —
प्लवा हीति ।
प्लवन्ते गच्छन्तीति प्लवा विनाशिनः, तत्प्रसिद्धौ हिशब्दः ।
तदेवोत्पत्त्यादिमत्त्वेन साधयति —
अदृढा इति ।
के ते यज्ञरूपाः यज्ञो रूपमुपाधिर्येषां ते तथा, ऋत्विगादिशब्दस्य यज्ञोपाधिकत्वात् । अष्टादश षोडशर्त्विजः पत्नी यजमानश्च । क्षयिफलत्वादवरं कर्म येषु यदाश्रयमुक्तं श्रुत्या विहितमेतदेव कर्म श्रेयोहेतुर्न ब्रह्मधीरिति ये मूढा हृष्यन्ति ते पुनः पुनर्जरापूर्वं मरणमेवाप्नुवन्तीत्यर्थः । आदिपदं ‘अविद्यायामन्तरे वर्तमानाः’ इत्यादिसङ्ग्रहार्थम् ।
इतश्च परविद्याशेषत्वेनैवापरविद्योक्तिरित्याह —
निन्दित्वेति ।
प्रत्यक्षादिना कर्मसाध्यांल्लोकाननित्यतया ज्ञात्वा निर्वेदं वैराग्यमायाद्गच्छेत्कुर्यात् । कथं, नास्त्यकृतो मोक्षः कृतेन कर्मणा, नित्यफलार्थी चाहं, तस्मात्किं कर्मणेति विरक्तस्तस्य ब्रह्मणो विज्ञानार्थं गुरुमेवाभिगच्छेद्गुरुपादोपसर्पणं कृत्वा मुक्तिहेतुज्ञानाय श्रवणादि कुर्यादित्यर्थः । ‘रिक्तहस्तस्तु नोपेयाद्राजानं दैवतं गुरुण् ‘ इति न्यायेन समित्पाणिरित्युक्तम् । श्रोत्रियमित्यादिनाध्ययनहीनस्य वाऽकर्मिणो वा गुरुत्वं वार्यते । कर्मनिन्दया ततो विरक्तस्याधिकारोक्तेरक्षरविद्या ब्रह्मविद्यैवेति समुदायार्थः ।
पूर्वपक्षबीजमनुभाषते —
यत्त्विति ।
सर्वथा वा साम्यं, अंशेन वा नाद्य इत्याह —
तदयुक्तमिति ।
सर्वथा साम्य परस्याप्यनिष्टापत्तिमाह —
अपिचेति ।
कार्यस्य कारणाव्यतिरेको विवक्षितोंऽशस्तेन साम्यमिष्टमेवेति मत्वोपसंहरति —
तस्मादिति ॥ २१ ॥